Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 161
________________ [ श्रीकर्मप्रकृत्युपो० टिप्पणी १३४ १२. संज्ञया विशिष्टावबोधशक्त्या सहिता, ये ते, तान् । १३. एतद्धि पदं अप्रेतनेन “जीवसत्तामि "त्यनेन सह सङ्गमनीयम् । अपोपसर्गसहित 'ज्ञा' धातोः “निन्हवे ज्ञः" ( ३-३-६८) इतिश्रीसिद्धहेमीयसूत्रोण निमवाऽपलापाथै आत्मनेपदमत्र विहितं ततश्च अपलपते इत्यर्थोऽत्रावबोध्यः । १४. एतद्धि पदं क्रियाविशेषणं विज्ञेयम्, ततश्च ब्रह्माद्वैतवादोररीकारणमेवं केवलं पुरस्कृत्य जीवस्यव परमार्थतो सत्तेति भावः । १५. अत्यन्त भूयोभूयः वा दृश्यमानानि यानि विचित्राणि नानाधर्मवन्ति भूतानि, तेषां वृत्तिः=वर्तनं= सद्भावः, तेन सनाथाम् । एतद्धि पदं प्राक्तन "जीवसत्ता" पदस्य विशेषणमभ्युपगन्तव्यम् । "जीवसत्तां" इति पदमत्र पुनः संयोज्यं । १६. आस्तिक इति यदभिधानं नाम, तम् आवहति धारयति योऽसौ। नामत एव आस्तिक इत्यर्थः वस्तुतस्तु ब्रह्माद्वैतवादोपगमनेन सर्वप्रत्यक्षभूतपञ्चकाऽपलापकरणेन अस्तित्ववादानभ्युपगमनेन आस्तिकपदस्यान्वर्थसङ्गतेरभावान्नाममात्रम् एवैतेषामास्तिकत्वमिति । १७. एतत्पदस्याऽप्रेतनेन " अध्यक्षं" पदेन सहाऽन्वयो विधेयः । १४. लोकैः अतीव स्थूलबुद्धिभिः दृष्टमात्रमेवाऽभिमन्यद्भिः जनैःसहःअयन=गतिः येषां तैरिति व्युत्पत्या • चार्वाकसंज्ञैः नास्तिकैः इति अर्थोऽवबोध्यः । १९. बालात् आरभ्य गोपाना=अतीव स्थूलबुद्धिमतां यो अङ्गनाजनः=त्रीगणः, तेन सिद्ध-प्रतीति विषयीभूतमिति ।

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188