Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
१२४]
[ श्रीपञ्चाशक प्रस्थाटि. २३. भदाः-विद्वांसः, तेषु पुंगवाः श्रेष्ठाःभवादृशाः तैःन बुध्येतैतादृशमिति विग्रहः। अत्र 'भदपुङ्गव'
पदप्रयोगः मार्मिककाकुगों विज्ञेयः । २४. यथार्थस्य- यथाऽवस्थितस्य आख्यानं-निरुपणं, तेन ख्याता-विदिता ख्यातिः-आर्यात्व
रूपा यासां ता इति । २५. स्वस्य संयमवालिका नाविनां गुरुपदस्थितां प्रवत्तिनी मित्यर्थः । २६. आर्याछन्दसि निबद्धां तां गाथामित्यर्थः । २७. भट्टपुङ्गवस्य-विद्वश्रेष्ठस्य तस्य हरिभद्रपुरोहितस्य नोदनया-प्रेरणयेति । २८. प्रकरणाऽऽदीनां- तद्गाथाब्यावर्णितवस्तुनिरूपकलधुग्रन्थविशेषानां बोधेन-परिज्ञानेन बोध्या
इति ।
२९. परेषां अर्थः-उपकृतिरुपः, तस्य करणं, तस्मै धृतः कायःययेति । ३०. स्वस्यान्तः-चिहनं, तत्रस्थरागेन-हार्दिकप्रेम्णा रक्ता इति, याथार्थ्यनान्तरपरावृत्तितः
मौलिकप्रीतिवन्त इति । ३१. व्रतानि-महाव्रतानि अणुव्रतानि च, तान्येव धनं, तस्य पतिः तीर्थकृत् , तेन प्रवर्तितमिति । ३२. दीक्षाप्रदानादिस्वरुप इति परिशेषः । ३३. जातः अभिलाषायाः-संयमग्रहणस्वरुपाया अतिरेकःयेषामिति । ३४. तेषां-श्रीजिनभटसूरीणां सम्बन्धी च आवासः-वसनं, तेनालङ्कृतम्-शोभितमिति । ३५. उपाश्रयमिति । ३६. परस्पर विरोधेन-वदतोव्याधातादिरूपेण अनवरुद्ध-अव्याप्तमिति । ३७. पशुपदमत्रोपलक्षणेन प्राणिमात्रगमकं विज्ञेयम् । ततश्च समस्तप्राणिगणस्य रक्षणे निपुणमिति । ३८. यथार्थाः ये पदार्थाः, तेषां यः सार्थः, तस्य साधकमिति । ३९. अत्र=इहलोके अमुत्र-परलोके अनेकेषां अर्थितानां इच्छाविषयीभूतानां प्रेप्सा प्रकर्षण
लब्धुमिच्छा, तस्य प्रदाने पटुतया=कुशलतया प्राप्ता सुपर्वणां देवानां पृथ्वीरहस्य कल्पवृक्षस्य प्रसिद्धियेनेति ।

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188