Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 155
________________ १२८] [ श्रीपञ्चाशकप्रस्ताहिक ९०. उपस्थापना=वृद्धदीक्षा-महावतारोपणं वा, तत्र ये न रसिकाः स्वारस्यमूलकप्रवृत्तिमन्त इति । ९१. शास्त्रामर्यादया यथोचितषड्जीवनिकाययतना-ज्ञानपरिणतिसमीक्षादिस्वरूपपरीक्षामकृत्वेत्यर्थः । ९२. आज्ञा=गीतार्थनिश्रया ज्ञानपरिणतिसमीक्षास्वरूपा, तस्याः स्वरूपमिति । ९३. एतत्पदस्य प्राक्तनेन 'विलोक्ये '-त्यनेन सह सम्बन्धः। ९४. सप्तदशतमे हि पश्चाशके इत्यर्थः । ९५. प्रसिद्धतमेत्यर्थः । ९६. समयः जिनागमः तेन मिता=प्रमाणोपेता व्यवस्थितेति यावत्-मतिः येषामित्यर्थः । ९७. निरूपणायां प्रतिपादनायां चणः=निपुणः तेनेति । ९८. प्रवरप्रावचनिकधुरंधरैः समर्थैरागमपारगामिभिरिति यावत् । ९९. स्वकृतविवरणग्रन्थमन्यसुविहितसूरिपाचे संशोधनार्थ दानरूपमित्यर्थः । १००. अवलोकनीयाश्च आन्तरेण विवेकचक्षुषा ते अर्थलेशाः पदार्थ विशेषाः, तानिति । १०१. अवशिष्टमित्यर्थः । १०२. श्रीमतां पूज्यपादानाम् उद्भवः जन्म तस्य कालादि । १०३. एतद्धि पदं इदानीन्तनभाषायां 'फंड' पदवाच्यगमकमिति । १०४. 'निर्मित'पदं ह्यत्र प्रकाशिकाऽर्थपदकं विज्ञेयम् । १०५. रत्नानां गणः=समूहः तदर्थ यो रोहणगिरिः रत्नखानिमान् पर्वतः, तदूपो यः श्री श्रमणप्रधानः ___ सङ्घस्तस्य चरणरूपौ यौ कजौ तयोः मकरन्दस्य मधुपः भ्रमर इति । १.६. एतेन संक्षिप्तेन पदेन सम्पादकेन स्वनाम सूचितमस्त्यत्र । तद्धि श्रीआनन्दसागरगणिरूपमत्र विज्ञेयम् । १०७. कुष्ठरूपो य आमयः, श्रीअभयदेवसूरीशतनुसम्बन्धी, तस्य विध्वंसी-विनाशकारी यः प्रभावः= अतिशयविशेषः, तेन विख्यातः प्रसिद्धिमाप्तः, एतादृशः यः श्रीस्तम्भनाख्यः इति । १०८. 'यत् ' पदेन श्रीस्तम्भनतीर्थसंज्ञया प्रख्यातं खंभातनामकं पुरमत्र विवक्षितमस्ति ।

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188