Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 67
________________ [ प्रस्तावनासंग्रहे महाव्रतनिदान परीपहविजयो हिंसाविरत्यादीनामपि "तथाभावात् , “श्रीपार्श्वसन्तानीयाः श्वेतवाससोन्ये त्वन्त्यार्हत्सन्तानीया इति तु बालप्रलपितं, उभयेषामप्यनभिगमनीयं च । प्रारम्भे च कल्पस्य 'पंचहस्तोत्तर' इत्यत्र श्रीजिनवल्लभोपझं षट्कल्याणकमतं खरतराऽभिमताऽभियुक्तश्रीमडरिभद्रसूर्यऽभयदेवपादवचननिदर्शनेन निर्लोठितं । कल्पकिरणावल्यां चैतद्वयतिकरे प्रवर्तनकारणम-नाभोगोऽ-भिनिवेशोऽ-पूर्वसाधनता स्वपक्षणोत्सवारम्भ, आर्यिकाकर्णनं, तत्कृता स्खलना, हठः कल्याणकीयोत्सवे श्रीजिनवल्लभीय' इत्यादि सविस्तरमुद्दिष्ट गणधरसार्धशतकाधारण, पथावस्तुषटकमिदमेव विवृण्वता व्यवनकल्याणके शक्रस्य समृद्धिः, शृङ्गारः, सातोपभोगश्च वर्णितः, 'मग्नेनापि सुखातिशये तन्निदाने धर्म उद्यमोऽवश्यं विधेय' इति ज्ञापनाय उपब हितश्च शक्रस्तवः, शक्रस्तवोऽप्यत एव हेतोः पठ्यते प्रणिपातदण्डकः 'विकृतं त्वेकदेशे नान्यदि' ति नाऽऽवश्यकाऽऽदि-प्रणिपात दण्डकानां 'दीवो' इत्यादि प्रथमान्तपदहितानां न शकस्तवता । ___यद्यपि च द्वयशीतिरात्रिंदिवातिक्रमे गर्भसक्रमः, प्रतिपादितं चात्राप्येवं, तथापि यच्छक्रस्तवा नन्तरमेव भणितिरविलम्बेन, सा चिरं दुःख्यवस्था नोपनिवन्धनीयेतिहेतोः, तत्वतस्तु व्यशीतितमे दिने, निर्जीणे नीचगोत्र, चलितमासनं, दत्त चोपयोगे ज्ञाते च तत्रावतारे कृतापरावृत्तिगर्भस्य, युक्तं चात एवाभिग्रहधारणमपि तदा । यतः परावर्तिते गर्भे चकाराऽऽक्रन्दं ज्ञातगर्भपरावर्ता स्वप्नचतुर्दशकापहारदर्शनेन देवानन्दा, दृष्ट्वा च तां तथाविधां संजातमातृभक्तिप्राग्भारोऽस्याद्भगवान्निश्चलः, जाता राजसचिवसख्यादिपरिवृता रत्नकुक्षिधारिणी त्रिशला आपनमूर्छा, दृष्ट्वा च दुःखवृन्दं विममर्श प्रभुः परिणामवैचित्र्यं, विदधे चाभिग्रह 'यावन्मातापित जीवनं न प्रजिष्यामी'-त्यात्मकं, वर्णयित्वा च पुण्यप्रारभारसूचनप्रत्यलां दोहदततिं पूर्ति च तस्याः, कर्मोदयादि ज्ञापकज्योतिश्चक्रचारज्ञानपुरस्सरं प्रमोदकारणानि चाख्यायोपनिबन्धुः पूज्यपादा जननमखिलकल्याणकरं निखिलाऽसुमतामनाहतैश्वर्यस्य भगवतः । __महोत्सवं च ततः जनुषः श्रीमतोऽमराधिपविहितं निर्वर्णवांचक्र महोत्सवमभिषेकस्य चालनं चाऽमराऽचलस्य, गार्हस्थ्यं चामलकीक्रीडा-लेखशालामोचनै-न्द्रव्याकरणोत्पत्ति-परिणयन-मातापित्रस्वर्गम-बृहद्भात्राऽऽग्रह-वर्षद्वयाऽवस्थान-सांवत्सरिकदान-प्रव्रज्यामहोत्सव पर्यन्तं स्पष्टं स्पष्टितवन्तः निष्क्रम्यागारात्प्रतिपन्ने च प्रव्रज्यां स्वाभाविक उपसर्गसंसर्गोऽनेकधा जातः सोढश्च सर्वोपिःमहात्मना, तेन ख्यातश्च धन धान्य-राज्य-राष्ट्रवृद्धि प्रभृतेर्मातापितदत्तं वर्धमानाभिधानं परावृत्य महावीराऽऽख्यया त्रिदशगणैः, परीपहोपसर्गेन्द्रियादिरिपुगणपराकरणाजातो यथार्थोऽनगारः। लक्ष्यतेऽनेन ग्रन्थकृतामभिमतमत्र यदुत न केवलो वेषो बहिस्त्यागो वा श्रामण्यं किंतु ब्रतोच्चारण-तत्पालन-परीषहसहने-र्यासमितत्वाद्यलकृतिरेव ।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188