Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
जल्पकल्पलता०]
[८१ विकोत्पादुकतसकलितमूर्तीनां तरुगुल्मतृणाऽऽदीना' "मकलितधीमद्धेतुकानामवाधबोधबोधनादकान्ताऽकामविरक्तानामनैकान्तिकता।
विकल्पितं च "विरुद्धबुद्धिकुदबुद्धिककुबोधविततध्वान्ततमोऽरातिना मुनिपतिपादपनपरागपानपीनमधुपायिनाऽगोचरे' गणेशजनयितुर्विद्यादिप्रभावाननु चतुर्की, 'चराघरोद्भवचरीकृतिचर्यायामा यतमप्रेक्ष्य प्रयोजनवत्ता-कर्मेरिति-स्वभावतादृश्याऽऽभिधमभिहितं भिदा त्रितयं त्रिपुरासुरपुरत्रितयमिव ।
तथाच न चेद् बाधा कार्यप्रत्यक्षेऽप्यप्रत्यक्षत्वे कः कतुः एवापरः कालात्ययापदिष्ट: कालत्रयेऽपीत्यभिप्रायात् , अशरीरत्वेन नैवासौ विश्वविधाता विश्वीयेऽर्थनिचये ततः सत्प्रतिपक्षता, दर्शिता उपाधिभेदा अपि । ... स्तबके "चाऽस्तोकयुक्तिस्तबके तृतीयस्मिन्नुदीराम्बभूवे महाप्रभावेण यत् स्रष्टुः सृष्टरक्यमितरद्वा, व्यापकत्वे तस्य वपुषाऽशुचिपदार्थपलिपरीतता, ज्ञानरूपेण तु तथात्वे न विधायिता विश्वस्य, ५ असावश्याऽविनाभूता यथार्थोदितिनोदनपटिष्ठता पशुपतेरिव 'द्रव्यादिनवानवार्थतावादिनः, तमश्छाययोरप्यपराभवनीयच्छाययोरखाधबोधविषयत्वात् ।
पर्यन्ते प्रस्तष्टं स्पष्टितं च धर्माऽधर्माऽऽकाश-काल-पुद्गलाऽऽदीनां यथायथं रूपं ."संक्षेपेणातितमेनावगम्य चागमेशितशयवासपवित्रपवित्राङ्गे यथार्थमवगमं सोऽवीभणदर्भकभारत्यभिधया यतिवर्यम् । . सर्व "चैतच्छ्रीमद्रत्नमण्डनसिद्धान्ततत्त्वरत्नमण्डितात्मान आविर्भावितवन्त: श्रीमन्तो रत्नमण्डनाः, श्रीमन्तश्च श्रीमद्रत्नशेखरसूरिवर्येषु भासमानेषु ८ श्रीमज्जिनशासननभोभागभानुमालिषु श्रीमन्नन्दिरत्न-पादमकरन्द-मुग्धमनोमधुपाः ।
___सरिवराणां भूमण्डलभामिनीमण्डनकालश्च षोडशशतीयो वैक्रम इति श्रीहीरसौभाग्य-सोमसौभाग्य-विजयप्रशस्तिप्रभृतिग्रन्थतत्यवलोकनतो निश्चेचीयते निर्णयचणैर्मनीषिभिरिति "श्रीप्रभूणामपि स एवाऽनेहा, ८५नचोपलब्धिसृतिमायाता इतरे श्रीमदीया ग्रन्थाः, भविष्यन्ति परं अष्टमपत्रऽवोचाम चेत्युपलब्धेरनुमितेः, परं स्युश्चेदवगता निपुर्णपिनीयोऽहमिति प्रार्थये सुध्यनघकपावृष्टिमभिलाषुकः * * * ॥
वीरात् २४३८ तम वर्षे भाद्रपद-पूर्णिमायां लिखितम् ॥ ..

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188