Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
१०८ ]
श्रीकर्मग्रन्थ० उपा० टिप्पणी २९. मूर्तत्वेन हेतुनेति शेषः, मूर्त्तत्वादेव कर्मणः अनुग्रहो-पघातकारकत्वं सङ्गच्छेत । ३०. उदयकालादूर्ध्वमित्यर्थः । ३१. बंध-मोक्षादिव्यवहारश्च द्रव्यविषयक एव संभवति न गुणसम्बन्धीति ज्ञेयमेतेन पदेन । ३२. अत्राऽऽत्मनः द्रव्यरूपत्वमुपदय द्रव्येणाऽऽत्मना सहाऽविष्वग्भावित्वं कर्मणः प्रदर्थ कर्मणोऽपि
द्रव्यरुपता पौद्गलिकताऽत्र प्रतिपाद्यते । ३३. अविरुद्धाश्च ये पदार्थाः तेषां यत् प्रस्फुरणं तस्यै पटुःया प्रतिभा तया भवबद्धं व्याप्त अन्तः
करणं यैषां तैरिति विग्रहः । ३४. सु-सुन्दराणि करणानि इंद्रियादीनि येषां तैरिति । ३५. स्वस्य यत् स्वरुपं तस्याऽबोधिः अज्ञानं, तया प्रवर्तितः निष्पादितः यः पुद्गलानां कार्मण
वर्गणागतानां प्रचयः समूहः तन्मयाः तेन पुद्गलसमूहेन निर्वर्तितौ यौ पदार्थानां संसारिवस्तूनां
चयापचयौ-लाभ-हानी, ताभ्यां जातौ हर्ष-शोको यस्येति तात्पर्यानुसारी व्युत्पत्तिरत्र बोध्या। ३६. यावत् उदित........स्वरुपाविर्भावः न ( भवेदिति शेषः ) तावदित्यध्याहार्यम् , कथं सुखमव
तिष्ठेत ? इति सम्बन्धः । ३७. उदितो उदयाऽवस्थामापन्नौ सुकृतदुरितो=शुभाशुभकर्मणी तयोः नोदना-शुभाशुभप्रेरणा
तस्याः विलयेन प्रभवः उत्पत्तिः यस्यैतादृशश्चासौ यथास्थितस्य आत्मस्वरुपस्य आविर्भाव
इति विग्रहः । ३८. प्रतिबन्धकस्य आत्मस्वरुपाच्छादकस्य स्वरुपं, तस्यः कर्मण आगमनस्य आश्रवस्य निदानानि
=हेतवः, तस्यः, कर्मणः बन्धस्य हेतवः, तेषां, बंधहेतूनां स्थानानि तस्यः कर्मणः उच्छेदः
समूलनाशः तस्य फलं कारणानि च इत्यादीनामवगमः ज्ञानं तमितिविग्रहः । ३९. नुन्नं प्रेरितं (अव्यवस्थितीकृतमिति वा ) जगतां ऊर्ध्वाधोतिर्यग्रुपाणां त्रितयस्य अनुन्न=
अप्रेय यथावस्थितं रुपं स्वरुपं येन तस्य इदं हि 'कर्मणः' इत्यस्य विशेषणम् । ४०. एतद्विधस्य-कार्मगः स्वरुपादिख्यापकस्येति भावः । ४१. दुष्पमा अवसर्पिण्याः पञ्चमकालः, स चासौ अरः कालचक्रविभागरुपः स, चासो राक्षसः,
तेन प्रतिक्षणं विनाश्यमानः=अपसर्पणेन स्वरुप हान्या वा अस्तव्यस्तीक्रियमाणः मेघादीनां बुद्धिप्रभृतीनां गुणानां निकायः समूहः यस्येति व्युत्पत्तिरत्रार्थानुसारिणी ज्ञेया ।

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188