Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 133
________________ [ श्रीकर्मग्रन्थ० उपो० टिप्पणी पवनेन हि मेघा विशीर्यन्ते, पवनानां विवेकबुद्धेरभावत्वं स्वाऽज्ञानमूलकप्रवृत्तिवातेन विवेकबुद्धेहनिर्नाशस्य करणेन सूच्यते । ९. यथार्थाश्च ते अर्थाश्च तेषां यः पन्थाः, तत्र प्रवणं तत्परमिति विग्रहः । १०. भूः पृथ्वी, भूभृत्-पर्वतः (उपलक्षणत्वात् समस्तपदार्थानां) तयोः विरचनं निर्माणं, तस्याङ्गीकरणे =स्वीकारे प्रवणाःतत्पराः तेषामिति व्युत्पत्तिः । ___ अत्र 'प्रवणता' मूलपाठस्य सङ्गतेरनुपलम्भात् कोष्टकमध्ये प्रवणानां पाठं विन्यस्य तदनुसारिणी अर्थयोजना कृताऽस्ति, साराऽसारत्वमूहनीयं धीधनैः । ११. अपकर्णितः कर्णाभ्यां भवधीरितः सन्मार्गः तत्त्वनिर्णयपद्धतिः यैरिति व्युत्पत्तिरत्र ज्ञेया । एतत्पदेन वितंडाऽऽदीनां वस्तूनामितरैः दार्शनिकैः मोक्षप्राप्तिहेतुभूततत्त्वज्ञानाङ्गभूतत्व मान्यताया असारत्वमभिध्वन्यते । १२. अत्र 'तत् ' पदेन यवनानां तन्मान्यतायाः वा परामर्शः सम्भाव्यते । १३. कल्पितः प्रमाणबलेन प्रतीतिपथमवतीर्यमाणः चासौ कायः शरीरम् (यवनादिभिरशरीरखुदा पदवाध्येश्वरादृष्टवाणीगमकम् ) तेन परिकलितेति विग्रहः । १३. अत्र 'तत् पदेन यवनानां तन्मान्यतायाः वा स्वीकृतेः परामर्शोऽवबुध्यते । १४. भूतिः भस्म, एव अंबरं वस्त्रं यस्य ( निर्वस्त्रत्वेन दिगंबरत्वेन वा भूतेरम्बरखकल्पनाऽत्रौचिती मश्चति) एतादृशश्च शम्भुः शङ्करपदवाच्यो हि देवता, तमिति । १५. अशेषाश्च ते शेषाः-जगत्कर्तृत्ववादीतरवादिनः शास्तारः शास्त्रतत्त्वोपदेष्टारः,तेषां सम्मतं प्रमाणी भूतमितिविग्रहः । अतिशयेन निशितः युक्तिरुपोऽसिः खगं, तेन विशकलितः=विलूनितश्चासौ उद्दालितः विकतितो वा उच्छिष्टा-तैः तैः दूषणवातैः चुम्बिताः शिष्टैः मध्यस्थविचारकज्ञानिभिः अशस्याः अमान्याः अप्रमाणीकृताः याः युक्तयः प्रयुक्तयश्च तद्पाणां व्रततीनां = लतानां वातश्चेति तत्त्वं तेनेति । १७. 'तन्' धातोः सन्नन्ताद्यतनीरूपमिदम् । तनो वा (४-१-१०५सि.पृ.) इति सूत्रेण सन्नन्त तन् धातोर्विकल्पेन दीर्घत्वं भवतीति सम्यक् । १८. तत्र ईश्वरवादनिराकरणविषये ।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188