________________
[ श्रीकर्मग्रन्थ० उपो० टिप्पणी पवनेन हि मेघा विशीर्यन्ते, पवनानां विवेकबुद्धेरभावत्वं स्वाऽज्ञानमूलकप्रवृत्तिवातेन विवेकबुद्धेहनिर्नाशस्य करणेन सूच्यते । ९. यथार्थाश्च ते अर्थाश्च तेषां यः पन्थाः, तत्र प्रवणं तत्परमिति विग्रहः । १०. भूः पृथ्वी, भूभृत्-पर्वतः (उपलक्षणत्वात् समस्तपदार्थानां) तयोः विरचनं निर्माणं, तस्याङ्गीकरणे
=स्वीकारे प्रवणाःतत्पराः तेषामिति व्युत्पत्तिः ।
___ अत्र 'प्रवणता' मूलपाठस्य सङ्गतेरनुपलम्भात् कोष्टकमध्ये प्रवणानां पाठं विन्यस्य
तदनुसारिणी अर्थयोजना कृताऽस्ति, साराऽसारत्वमूहनीयं धीधनैः । ११. अपकर्णितः कर्णाभ्यां भवधीरितः सन्मार्गः तत्त्वनिर्णयपद्धतिः यैरिति व्युत्पत्तिरत्र ज्ञेया ।
एतत्पदेन वितंडाऽऽदीनां वस्तूनामितरैः दार्शनिकैः मोक्षप्राप्तिहेतुभूततत्त्वज्ञानाङ्गभूतत्व मान्यताया असारत्वमभिध्वन्यते । १२. अत्र 'तत् ' पदेन यवनानां तन्मान्यतायाः वा परामर्शः सम्भाव्यते । १३. कल्पितः प्रमाणबलेन प्रतीतिपथमवतीर्यमाणः चासौ कायः शरीरम् (यवनादिभिरशरीरखुदा
पदवाध्येश्वरादृष्टवाणीगमकम् ) तेन परिकलितेति विग्रहः । १३. अत्र 'तत् पदेन यवनानां तन्मान्यतायाः वा स्वीकृतेः परामर्शोऽवबुध्यते । १४. भूतिः भस्म, एव अंबरं वस्त्रं यस्य ( निर्वस्त्रत्वेन दिगंबरत्वेन वा भूतेरम्बरखकल्पनाऽत्रौचिती
मश्चति) एतादृशश्च शम्भुः शङ्करपदवाच्यो हि देवता, तमिति । १५. अशेषाश्च ते शेषाः-जगत्कर्तृत्ववादीतरवादिनः शास्तारः शास्त्रतत्त्वोपदेष्टारः,तेषां सम्मतं प्रमाणी
भूतमितिविग्रहः । अतिशयेन निशितः युक्तिरुपोऽसिः खगं, तेन विशकलितः=विलूनितश्चासौ उद्दालितः विकतितो वा उच्छिष्टा-तैः तैः दूषणवातैः चुम्बिताः शिष्टैः मध्यस्थविचारकज्ञानिभिः अशस्याः अमान्याः अप्रमाणीकृताः याः युक्तयः प्रयुक्तयश्च तद्पाणां व्रततीनां = लतानां वातश्चेति तत्त्वं
तेनेति । १७. 'तन्' धातोः सन्नन्ताद्यतनीरूपमिदम् । तनो वा (४-१-१०५सि.पृ.) इति सूत्रेण सन्नन्त
तन् धातोर्विकल्पेन दीर्घत्वं भवतीति सम्यक् । १८. तत्र ईश्वरवादनिराकरणविषये ।