________________
श्रीकर्मप्रन्थ० उपो० टिपण्णी ]
[ १०५
(*) श्रीमदकलङ्कानां =श्रीमत् तीर्थकृतां या कला = ज्ञानं (केवलरूपं ), तया कल्पिताः = ज्ञाताः ये अकलनीयानां=सामान्यज्ञानिनाऽनवगम्यानां अर्थानां पदार्थानां कदंबकः = समूहः यस्मिन् एतादृशो यः कल्पः=समर्थः (जीवनशुद्धाविति शेषः) यः कल्पः = आचारशास्त्रम्, तस्याऽऽकर्णनेन=विधिपूर्वकश्रवणेन कान्ततमाः = अतिसुन्दराः ये संस्काराः = श्रवणफलरुपाः यथाशक्यसन्मार्गप्रवृत्तिरुपाः तैः, कलिताः =सहिताः, तैरिति तात्पर्यानुसारी अर्थोऽवबोध्यः । विविध=आध्यात्मिकादिभेदभिन्नं यत् विधानं = क्रियानुष्ठानं तस्मिन् धुरन्धराणि धुरावहनसमर्थ वर्यबलीवर्दतुल्यानि (मुख्यानीति यावत् ) यानि अक्षुण्णानि - केनाऽप्यप्रतिहतानि च प्रत्यक्षप्रभृतीनि प्रमाणानि - पदार्थस्वरुपज्ञापकानि साधनानि तेषां प्रथया = सफलकार्यवत्तया, प्रतीताः = बुद्धिगम्याः (स्पष्टा इति यावत् ) ये अर्था: - घट - पटादिवस्तूनि तेषां समूहस्य अपो = "ब्रह्म सत्यं जगन्मिथ्ये" - त्या दिविविधप्रतिपादनेन जगन्मिथ्यात्वसिद्धिरुपे मायाजाल - स्वरुप सादृश्येन निराकरणे आहार्याः अध्यारोपादिमूलकाः ऊहाः = विविधतर्काः येषामिति व्युत्पत्तिरर्थानुसारिणी अत्र ज्ञेया ।
३. उत्तरमीमांसायाः = मीमांसाशास्त्रस्य उत्तरभागरूपस्य वेदान्ताऽपरपर्यायस्य मांसला = परिपुष्टा या मीमांसा=विविधविचारणा तद्वतां अतिशयेन ख्यापयन्ति = असत्त्वेऽपि शब्दवैकदुष्यतर्कप्रमाणबद्धत्वादिफटाटोपेन प्रदर्शयन्ति ये ते, तेषु निपुणतरा वा तान् इति व्युत्पत्तिः ।
४. जगतः=संसारस्य वैचित्र्यं = नानाविधविरोधाक्रान्तत्वं, तस्य अन्यथाऽनुपपत्तिरेवैकं लक्षणं = स्वरुपं यस्य, तस्मात् इति ।
५.
'अनुपचरित' पदेन पूज्यागममर्मज्ञा सूरिवर्या एवं दध्वनुरत्र यत् - " असदेव माया बन्धनं भ्रान्तिरूपं वेदान्त्यभिमतं न सम्यग् इति । "
६. भूतिः = भस्म, तेन भूषितः यो विग्रहः शरीरं, तस्य परिचर्या = भूयोभूयः स्नान-शौचाssदिरुपा तत्र परायणाः = तत्पराः तानिति विग्रहः ।
अथवा - भूतिना=भस्मना भूषितः विग्रहः शरीरं यस्य स महादेवः शम्भुः, तस्य परिचर्यायां = सेवायां परायणास्तानित्यप्यर्थोऽत्र सङ्गच्छते ।
यथायोगं सङ्गतिरुहनीया समुपासितगुरुकुलैर्मतिमद्भिः ।
७. 'तत्' पदेन प्रानिर्दिष्टस्य " अदृष्टस्य " कर्माऽपरापर्यायस्य ग्रहणमवबोध्यम् ।
८. विवेकः = हेयोपादेय निर्णयः तदनुकूला या मतिः तद्रूपवारिधराणां = मेघानां पवनरुपाः ये ते इति ।
१४