SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ XWWW. BBWSS* asasasasasasaswaaaaaasasasasasasasasasasasas X 8. श्री पूज्यपादागमोद्धारकाऽऽचार्यश्रीलिखितप्रस्तावना विषमपदार्थसचिका आनन्दलहरी-टिप्णी (श्री कर्मग्रंथोपोद्घातः) COMPRAWWWWWWWWWWWWWWWWWWWW aaaaaaaaaaax १. अत्र हि कलावत्....इत्यत आरभ्य कलित इति पर्यन्तं पङ्कित्रयमितो हि समासोऽस्ति, तस्य चाऽर्थानुसारिणः सप्त अंशा अवबुध्यन्ते, तयाहि :(अ) कलावतां कलापेनाऽऽकलनीयाः बुद्धिगम्या इत्येकोऽशः। (आ) अकल्प्यं च तत् अकलङ्कितं च यत् अविकलं संपूर्ण कलनं-ज्ञानं, तस्य कलया नैपुण्येन परिकलिताः सहिताः इति द्वितीयोऽशः । (इ) आकल्पा-समर्था चासौ अविकलिता-न्यूनतारहिता या कीर्तिः तस्याः कंदः=मूलं, तद्रूपो यः कमनः सुन्दरः अनेकांतः स्याद्वादः तस्य प्रकटने कोविदाः कुशलाः इति तृती योऽशः। (इ) कल्पान्तकाले प्रलयकालेऽपि अविशसितः अखण्डीभूतः आकारः स्वरूपं (यैर्निर्दिष्ट वस्तु जातस्येति शेषः) येषामिति चतुर्थोऽशः । (उ) कलिः विषमकालः, तेन कृताः अनेके अकान्ताः=असुन्दराः एकान्ताः-एकान्तवादेन प्रतिपाद्यमान स्वच्छंदतामूलकपदार्थनिरूपणानि तद्रूपा ये ऋक्षाः तारकाणि, तेषां या कान्तिः तेजः, तस्याः कर्तने-अपाकरणे विकर्तनः=सूर्यः तत्सदृशा ये इति पंचमोऽशः । (ऊ) श्रीमंतो ये अफलंकाः रागादिकलंकरहिताः तीर्थंकरा इत्यर्थः, पूर्वोक्तांश पंचकं हि अत्र संयोज्यम् । तीर्थंकरा हि कीदृशा ? इति प्रश्ननिर्वचने पूर्वोक्तविशेषणपश्चकं संयोज्यम् ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy