________________
श्रीकर्मग्रन्थ० उपो० टिपप्णी ]
१०७
१९. प्रकरणानां अल्पाक्षराणां महार्थानां तात्त्विक ग्रन्थानां करणं - विरचनं, तत्र निपुणानि = कार्यदक्षानि करणानि मतिप्राग्भार=सरलशैलि - गम्भीरार्थसमावेशकशब्दरचनाऽऽ दीनि तेषां निकरः = समूहः येषु तैरिति व्युत्पत्तिः ।
२०. अत्र हि तात्पर्यानुगामी अन्वय एवमबोध्यः तथा हि:
एतादृक् वैचित्र्यमवलोक्य सद्भूतपदार्थप्रत्यायनपरायणो ना सुकृत- दुरितसद्भावं न अनुमन्येत इति औचितीं न च अञ्चत् " इति
"L
२१. सद्भूतानां = वस्तुगत्याऽस्तित्वशालिनां पदार्थानां प्रत्यायने प्रमाणसिद्धिज्ञाने परायणः = तत्परः इति विग्रहः ।
२२. नृ शब्दस्य प्रथमैकवचनमत्र विज्ञेयम् अतः अग्रेतन 'इति' पदस्येकारेण सह सन्ध्या 'नेति' स्वरुपस्य 'न इति ' एवं सन्धिविच्छेदो न कार्यः ।
२३. दुरन्ताः अनन्ताश्व ताः यातनाः = पीडाः तासां केतनं गृहं संसाररूपं, तत उद्विग्नाः तथा च संवेगः=तीव्रमोक्षाभिलाषः, तस्य वेगः प्रवर्धमानगतिः, तेन परिवृढाः पूज्याः, ततश्व दुरन्ता .... द्विग्नाश्च संवेगवेगपरिवृढाश्चेति द्वन्द्वसमास:, तेषामिति व्युत्पत्तिरत्र ज्ञेया ।
२४.
निखिलैः=समस्तप्राणिभिः अभीप्सितं च तत् अनूनं सम्पूर्ण च तत् शर्म= सुखं तस्यास्पदं = स्थानम् इति ।
अथवा निखिलानामभीप्सितानाम् अनूनशर्मणः आस्पदमिति ।
अथवा निखिलैरभीप्सितस्य अनूनशर्मण आस्पदमिति ।
एतद्धि पदं निराबाध - शाश्वत - मोक्षाऽऽख्यपदसूचकं विज्ञेयम् ।
२५. चोक्षः = निर्मलः कलङ्करहितः एतत्पदेनान्यतीर्यैः मुक्तखरूपेऽपि भगवति तीर्थनिकारा दिना हेतुना पुनरवतरण लीला प्रदर्शनाऽऽदिकलङ्काञ्चितत्वमभिमन्यते तस्यासारत्वं व्यज्यते ।
२६. अधिगतम् = लोकालोकयोरवलोकने लम्पटस्य केवलाऽऽलोकस्य श्रियाः आलिंगनं यैस्तैरिति व्युत्पत्तिरत्र विज्ञेया ।
२७. तस्य कर्मणः इति
२८. 'उत' 'इति' स्वस्वरुपं = स्वस्मिन् स्वरुपे स्थिरं वस्तु प्रतिरूपवस्त्वा = सादृश्यवता वस्तुना स्वरूपरूपं निरुपयेत्' इति शब्दसंयोजना विज्ञेया, परं तात्पर्यसङ्गतिः सम्यक् नाऽवबुध्यते इत्यत उद्य धीधनैरत्र सम्यङ् गुरुनिश्रया ।