Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 96
________________ छन्दो० ३५० ] परं यावन्नाधिजग्मे विदुषा २४शकलितशङ्कादो छन्दोऽनुशासन मनेकच्छन्दोविज्ञानपोपं न तावद्यथावदुच्चारः काव्यानां निर्दोषत्वाधानं च सम्पनीपद्यते, कौतस्कुती च २ छन्दोभङ्ग-विरतिप्रभृतिविवेकवाग्मिता तु ? तदवश्यमादरणीय मखण्डपण्डानुगत विचाराणां २८धीसाराणामेतदपि२६ ३०प्रागुदीरितानीरितानुशासनत्रयी वेति न तत्र काचन ३'विचारकणिका वेविद्यते २२विद्याव्रततिततिभूरुहां २३उज्झितमुहां २ स्वीकुर्वताम्हाम् । आविर्भावयितारश्चानवद्याऽनुशासनचतुष्काऽनुशासनाऽलंभविष्ण्वनुशासनचतुष्कस्य प्रसिद्धतमाः, जीवनवृत्तमपि च तत्रभवतां भगवतां न केनाप्यविदितमाबालगोपाङ्गनं ख्याततरं समासेने तरथाकरणे तु नैव ३"तस्य तथा समीहा६ शक्तिश्च, ४°प्रस्तुताऽपश्चिमानुशासनमानातिरेकतरस्य तस्य मध्यमतयाऽपि भावान्न ४२तत्रापि यत्नो, न च योग्योपि मादृशोऽयं जनस्तादृगितिहाससाधनहीनसाधनतया यथावत्तया। ____परं सत्लु भरत-जयदेव-पिङ्गलाऽऽदिपणीतेप्वनेकेष्वनवद्येषु छन्दोऽनुशासनेषु किमिति ४ २सुवामधुरीकारकरणमिव किमिव न बोमवीति हास्यास्पदमेतद्रचनमिति चतुरचक्रचेतसि च वा स्यात् ! नच तच्चतुरं विचक्षणचक्रवालशोभा-(चङ्गता) वहं, यतो ४४नेदृग्गुम्फ सुगमं वा तेष्वेकतरमपि । अन्यच्च तत्र तत्र केवलवेदोपयोगिच्छन्दोनुशासनेनाऽऽपादितं ४५तत्तद्विशेषोपयोगि, प्रस्तुतं केवल-लोकोपयोगि-च्छन्दोऽनुशासनसमर्थमाविर्भावयाञ्चक्रुराराध्यतममनुशासनम् । एतच्च निःशेषस्यास्यानुशासनस्याभ्यासाद्यथावत् स्यादवधारितं परमाऽऽद्यश्लोकेऽपि तावत् भगवद्भिः 'लोकोपयोगिनां वक्ष्ये, छन्दसामनुशासनम्' इत्युत्तरार्द्धन निदर्शितम् । शब्दाऽनुशासनादिभिः समानकर्तृकत्वं तूदाजहू : 'सिद्धशब्द-काव्यानुशासनः' इत्यनेन स्वयमेव भगवन्तः, दृब्धं चेदं श्रीमद्भिश्चौलुक्येश्वरे श्रीपरमाईतकुमारपाले मारिघोषडिण्डिमवादके शासति राज्यम् , यत उपलभ्यते तत्र तत्र श्रीसिद्धराजस्याऽस्य च राजर्षेः स्तुतिरुद्राहियमाणेति । अत्र चाऽध्यायाऽष्टकं प्रणीतं ४ प्रज्ञाऽवदातत्व ऽवज्ञातपुरन्दरगुरुभिस्तत्रादौ सज्ञाऽऽद्याऽध्याये द्वितीये च जाति शेष-जातिदण्डकानां छन्दांसि चत्वारि शतानि अधिकान्येकादशभिः, अत्र च क्षन्तव्यमागो दृष्टिदोषजं यत्सप्तनवत्यधिकशतद्वय्यतिक्रमेऽपिच्छन्दसा पुनश्चतुर्नवत्यधिकाच्छतमानादकारम्भो जातोऽस्ति । तृतीये चाऽध्यायेऽर्धसमवृत्तानि हरिणप्लूताद्यानि अतिरुचिराऽवसानानि वक्त्रप्रकरणं चाऽनुष्टुभिः ।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188