Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
[६३
वन्दारू० टिप्पणं ]
व्युत्पत्त्यर्थस्तु कर्मबीजप्ररोहाऽभाववद्भिरिति भवति, किन्तु तस्य सर्वसिद्धसाधारण्येनाऽत्रव्याख्यानबलेन रुट्या वा तीर्थकतामित्यर्थाऽवगमो न्याय्यः । ६. एतत्पदेनाऽत्र प्रकृतोपयोगि प्रक्रम्यमाणं "सप्रतिक्रमणधर्मवत्त्व" विवक्ष्यते। १०. श्रीउत्तराऽध्ययनप्रभृतिसूत्राऽऽदिषु श्रीपार्श्वसन्तानीयश्रीकेशिगणाधिपवर्णनप्रसङ्ग" इत्यऽध्याहार्य
मत्र तात्पर्यगामिक्या धिया समुपासितगुरुकुलवद्भिः । ११. 'अप्रतिहताश्च ते अप्रतिमाश्च अनन्यसाधारणा ये गुणास्तेषां गणस्तं धारयन्ति ये ते' इति व्युत्पत्तिः । १२. एषा हि गाथा श्रीअनुयोगद्वारसूत्रे (सप्तविंशतितमसूत्रानन्तर तृतीयगाथात्वेन आगमोदयसमितिप्रका
शितमुद्रितपत्राकारपुस्तके एकत्रिंशत्तमपत्रस्य प्रथमपृष्ठौ द्वितीयपङ्क्तौ ,) दृश्यते । १३. शास्त्रकाराणां वचांसि खलु त्रिरूपाणि, तथाहिः
१ प्रभुसम्मितानि, २ मित्रसम्मितानि,
३ कान्तासम्मितानि, १ आज्ञाप्रधानानि निर्विचार समर्पितभावेन स्वीकार्याणि प्रभुसम्मितानि । २ युक्तिप्रधानानि गुणदोषविचारबहुलानि निरवद्यश्रद्धामूलं स्वीकार्याणि-मित्रसम्मितानि । ३ परमोदात्तकरुणाग णि तत्तन्महापुरुषचरित्रप्रसङ्गोल्लेखबहुलानि भाववात्सल्यमूलानि उत्कृष्टधर्मानुरागोज्जीवनबलेन स्वीकार्याणि--कान्तासम्मितानि ।
अत्र हि श्रीऋषभदेव-महावीरप्रभुतीर्थकृतोः शासने दोषे सत्यसति वाऽपि नियतं समयवेलयाऽवश्यं कार्याणि आवश्यकानीति सूचयन्ती ("अवस्सव्वकाय." श्रीअनुयोगद्वारसूत्रगाथा) गाथा
प्रभुसम्मितवचने आज्ञाप्रधानेऽवतरति । १४. "दीन" शब्दो हि "दैङ् हानौ" इतिधातुपाठाधारेण हीनशक्तिकत्वाऽर्थे यौगिकरूपेण भवति रूढिश्च
वर्त्ततेऽशरणाऽऽधाररहित-कान्दिशीकजनस्य विक्लवताऽर्थसूचने, तथापि अत्राऽर्थाऽनुसन्धानतः' यौगिकाऽर्थहीनशक्तित्वं विवक्ष्य 'प्रदीनाना'-मित्यस्याऽहीनशक्तिकानाम् , अर्थात् 'सम्पूर्णशक्तिमता' मित्यर्थसङ्गतिस्तात्पर्यानुरोधेन करणीया।
एतत्पदस्याऽन्वयः अग्रेतनेन "अविचलपदाऽवाप्स्यविकलनिदानत्वे" इत्यनेन सह बोध्यः ।
तेन अविचलं यत् पदं = मोक्षरूपं, तस्याऽवाप्तेरविकलं निदानत्वं, तत्र भदीनानां = सम्पूर्णशक्तिमतां चैत्यवन्दनगुरुवन्दनाऽऽदीनामिति योजना कार्या। १५. अत्र 'तत्' पदेन सम्यक्त्वशुद्धयाऽऽदिना स्वाऽऽत्मविशुद्धिकारकाऽनगारवत् अविचलपदाऽवाप्तिहेतु
भूतचैत्यवन्दनाऽऽदीनामवश्यकर्त्तव्यत्वं बोध्यम्। '.. १६. आवश्यकमित्यर्थः।
स्वार्थे 'इय्' प्रत्ययोऽत्राऽवबोध्यः । १७. 'पूर्वोक्त'-पदेनाऽत्रोपरिनिर्दिष्टमावश्यकक्रियायाः सोपयोगित्वमाद्याऽन्तिमतीर्थकृतां शासनस्य सप्रति
क्रमणधर्मवत्त्वमित्यादि समूहनीयं धीमद्भिः। १८. श्रमणोपासकानामात्मविशोधीच्छावतामित्यर्थः ।

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188