SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [६३ वन्दारू० टिप्पणं ] व्युत्पत्त्यर्थस्तु कर्मबीजप्ररोहाऽभाववद्भिरिति भवति, किन्तु तस्य सर्वसिद्धसाधारण्येनाऽत्रव्याख्यानबलेन रुट्या वा तीर्थकतामित्यर्थाऽवगमो न्याय्यः । ६. एतत्पदेनाऽत्र प्रकृतोपयोगि प्रक्रम्यमाणं "सप्रतिक्रमणधर्मवत्त्व" विवक्ष्यते। १०. श्रीउत्तराऽध्ययनप्रभृतिसूत्राऽऽदिषु श्रीपार्श्वसन्तानीयश्रीकेशिगणाधिपवर्णनप्रसङ्ग" इत्यऽध्याहार्य मत्र तात्पर्यगामिक्या धिया समुपासितगुरुकुलवद्भिः । ११. 'अप्रतिहताश्च ते अप्रतिमाश्च अनन्यसाधारणा ये गुणास्तेषां गणस्तं धारयन्ति ये ते' इति व्युत्पत्तिः । १२. एषा हि गाथा श्रीअनुयोगद्वारसूत्रे (सप्तविंशतितमसूत्रानन्तर तृतीयगाथात्वेन आगमोदयसमितिप्रका शितमुद्रितपत्राकारपुस्तके एकत्रिंशत्तमपत्रस्य प्रथमपृष्ठौ द्वितीयपङ्क्तौ ,) दृश्यते । १३. शास्त्रकाराणां वचांसि खलु त्रिरूपाणि, तथाहिः १ प्रभुसम्मितानि, २ मित्रसम्मितानि, ३ कान्तासम्मितानि, १ आज्ञाप्रधानानि निर्विचार समर्पितभावेन स्वीकार्याणि प्रभुसम्मितानि । २ युक्तिप्रधानानि गुणदोषविचारबहुलानि निरवद्यश्रद्धामूलं स्वीकार्याणि-मित्रसम्मितानि । ३ परमोदात्तकरुणाग णि तत्तन्महापुरुषचरित्रप्रसङ्गोल्लेखबहुलानि भाववात्सल्यमूलानि उत्कृष्टधर्मानुरागोज्जीवनबलेन स्वीकार्याणि--कान्तासम्मितानि । अत्र हि श्रीऋषभदेव-महावीरप्रभुतीर्थकृतोः शासने दोषे सत्यसति वाऽपि नियतं समयवेलयाऽवश्यं कार्याणि आवश्यकानीति सूचयन्ती ("अवस्सव्वकाय." श्रीअनुयोगद्वारसूत्रगाथा) गाथा प्रभुसम्मितवचने आज्ञाप्रधानेऽवतरति । १४. "दीन" शब्दो हि "दैङ् हानौ" इतिधातुपाठाधारेण हीनशक्तिकत्वाऽर्थे यौगिकरूपेण भवति रूढिश्च वर्त्ततेऽशरणाऽऽधाररहित-कान्दिशीकजनस्य विक्लवताऽर्थसूचने, तथापि अत्राऽर्थाऽनुसन्धानतः' यौगिकाऽर्थहीनशक्तित्वं विवक्ष्य 'प्रदीनाना'-मित्यस्याऽहीनशक्तिकानाम् , अर्थात् 'सम्पूर्णशक्तिमता' मित्यर्थसङ्गतिस्तात्पर्यानुरोधेन करणीया। एतत्पदस्याऽन्वयः अग्रेतनेन "अविचलपदाऽवाप्स्यविकलनिदानत्वे" इत्यनेन सह बोध्यः । तेन अविचलं यत् पदं = मोक्षरूपं, तस्याऽवाप्तेरविकलं निदानत्वं, तत्र भदीनानां = सम्पूर्णशक्तिमतां चैत्यवन्दनगुरुवन्दनाऽऽदीनामिति योजना कार्या। १५. अत्र 'तत्' पदेन सम्यक्त्वशुद्धयाऽऽदिना स्वाऽऽत्मविशुद्धिकारकाऽनगारवत् अविचलपदाऽवाप्तिहेतु भूतचैत्यवन्दनाऽऽदीनामवश्यकर्त्तव्यत्वं बोध्यम्। '.. १६. आवश्यकमित्यर्थः। स्वार्थे 'इय्' प्रत्ययोऽत्राऽवबोध्यः । १७. 'पूर्वोक्त'-पदेनाऽत्रोपरिनिर्दिष्टमावश्यकक्रियायाः सोपयोगित्वमाद्याऽन्तिमतीर्थकृतां शासनस्य सप्रति क्रमणधर्मवत्त्वमित्यादि समूहनीयं धीमद्भिः। १८. श्रमणोपासकानामात्मविशोधीच्छावतामित्यर्थः ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy