________________
ܕ܀܀܀܀܀܀܀܀$
__ पूज्यपादाऽऽगमोद्धारकाचार्यश्रीलिखित प्रस्तावना
विषम-पदाऽर्थसूचिका आनन्दलहरी टिप्पणी (वन्दारुवृत्ति-प्रस्तावना)
१. समस्त सम्-सम्यक्प्रकारेणाऽस्तं-विक्षिप्तं समस्तं सकलम् अज्ञानरूपम् अन्धतमः यस्तेषामिति व्युत्पत्तिरत्राऽवबोध्या।
- इदं हि विशेषणं "अनुष्ठानानां" इति पदस्य विज्ञेयम् । २. मोक्षस्य सर्वकविनिर्जरणरूपस्य प्रोक्षणं-पुङ्खनं ("पुमणु-वधामणु") इति गूर्जर भाषायाम् ) भवति पर्यवसाने येषाम् अनुष्ठानानाम् इति तात्पर्यगामिव्युत्पत्तिरत्रावबोध्या ।
लौकिकशिष्टसमाचारेऽभ्यईणीयवस्तुन प्रोडनेनाऽऽदराऽऽधिक्यसूचनवदत्र जिनशासने आबा. लवृद्धं प्राणिमात्राऽऽत्मशुद्धिकरणेऽमोघसाधनरूप-विविधक्रियाकलापेन मोहाऽपसर्पणं प्रकुर्वतामनुष्ठानानां राजमार्गत्वं संसूचयन्ति गीतार्थपादाः आगमोद्धारकवर्या सूरिप्रष्ठाः।
अपरश्नाऽनुष्ठानानां मोक्षप्रोक्षणपर्यवसानत्वं प्रदश्यैतदपि दध्वनुराचार्यमतल्लिका यत्-प्रावृट्कालीन जलसम्पातलब्धजन्माऽलसकाऽऽदिक्षुद्रजन्तुवृन्दवत् कालविषमताऽऽदिलब्धरूपैःनिवादिभिः विशुद्धाऽऽत्मद्रव्याऽऽलम्बनवादिभिः दुर्निश्चयवाद्वादिप्रमुखैरुद्भावितानां क्रियाप्रतिक्षेप-ज्ञानिनिर्दिष्टकर्तव्याऽपलापाऽऽत्मस्वरूपसंवेदनाऽऽभासप्रभृतिम्वरूपवाचोयुक्तीनां शब्दाऽऽडम्बरफटाऽऽटोपमात्राणामसारत्वमात्महिताऽऽवहदृष्ट्याऽवबोध्यं सद्गुरुचरणसेवालब्धनिर्मलविवेकाऽन्तश्चक्षुष्कैः समीक्षावद्भि
विदुषांवरैरिति। ३. सकलाश्च ते ऐहिकाश्चाऽऽमुष्मिकाश्च अकल्प्याः कल्पनाक्षेत्रातीता ये अर्थाः तेषां कल्पनाकल्पने-रचना
सूत्रण कल्पतरुकल्पे=कल्पवृक्षसदृशे इति व्युत्पत्तिरत्र सङ्गमनीया। . ४. शतक्रतुः इन्द्रस्तमभिव्याप्य कीटकपर्यन्तं सर्वजीवानां रक्षणे चणं निपुणमिति विग्रहोऽवबोध्यः । ५. अत्र च निर्धारणार्थकषष्ठी सप्तम्यर्थेऽवबोध्या, ततश्च प्रानिर्दिष्टं (समस्तसमस्ताऽज्ञानाऽन्धतमसानों
मोक्षप्रोक्षणपर्यवसानानां) विशेषणद्वयं सप्तम्यां परावृत्त्यैवमर्थः सङ्गमनीयोऽत्र, तथाहि-समस्तसमस्ता___ऽज्ञानाऽन्धतमसेषु मोक्षप्रोक्षणपर्यवज्ञानेषु अनुष्ठानेषु (मध्ये) इति । ६. 'प्ररूप्यते' इत्यर्थः । ७. 'आदिः प्रथमः, अन्त्यः चतुर्विंशतितमः ताभ्यामन्ये=द्वाविंशतिसङ्ख्याः , क्षीणाऽष्टकर्मणः ये तेषा
मितिव्युत्पत्तिरत्र । ८. अर्हतां तीर्थकराणामित्यर्थः।
. .