________________
वन्दारु० उपक्रमः ] शासनधुराधरणधौरेय-परमेष्ठिपदभूषित मोक्षसार्थवाह--पुरुषपञ्चकद्रव्यभावस्तुतिरूपात् सूत्रादारभ्ययावत् सर्वाऽतिचारप्रतिक्रमणकारणतया प्रतिक्रमणसंज्ञितसूत्रपर्यवसानमत्र सूत्रवृन्दम् । ___विशेषश्चाऽऽत्राऽयं यदुत-चैत्यवन्दन-गुरुवन्दन-प्रत्याख्यानसूत्राणां व्याख्याने सम्पत्पदाऽधिकार-वर्णप्रमाण गुरुस्वरूप-वन्दननैकार्थ-वन्द्याऽवन्द्याऽऽवश्यक-प्रत्याख्यानस्वरूप-तद्भङ्गा-ऽऽकारशुद्धि-फलप्रमुखा विवेचिता अधिकारा अधिकारितमैकवेद्या ग्रन्थाऽन्तरेभ्योऽपि च दुरवसेयाः तदसमानोपकारकरणपटिष्ठस्याऽस्य मुद्रणमतीवावश्यकमिति न कस्य चतुरस्य चेतसि पोस्फुर्यात् ।
मुद्रणं चास्य श्रेष्ठिदेवचन्द्रलालभाईत्येतन्नामयुगज्ञानोद्धाराऽऽधारभूतद्रष्यनिचयस्योद्भवाऽऽदि तु निवेदितपूर्वमेव मुद्रितरे श्रीमद्वीतरागस्तवोपक्रमे सविस्तरमिति न तवृत्तान्तनिवेदननेनाऽर्थः । मुद्रणाऽऽधारभूता प्रतिरस्य श्रेष्ठि-श्रीमनःसुखभाईविहितज्ञानोद्धारपुस्तकप्रबन्धादायाता ।
शोधने च क्वचित्क्वचित् द्वासप्तत्यधिकचतुर्दशशतमान (१४७२) विक्रम वर्षीयश्रीभृगुकच्छवास्तयमोदक ज्ञातीय-गोदा-डूंगरलिखापिता प्रतिराधारभूता ।
___ भविष्यन्त्यनेकानि स्खलितानि दृष्टिदोषात् सूत्राऽर्थमौढ्याचेति प्रमार्य प्रेक्षणीयमिदमित्यर्थये ६४परमाऽऽनन्दाऽऽलयावाप्त्यसाधारण-कारण-रत्नत्रयनिचयसादरश्रीश्रमणसङ्घपादपङ्कजमधुपायमानानन्दोदन्वदभिधानः सविनयं ज्ञातस्खलितदोषदुरिताऽनुशयः मिथ्यादुष्कृतं वितीर्य परमपदरसिकः ॥
नवसार्या वरपुर्या पार्श्वजिनेशांहिपूत सफलोया॑म् । वसु-रस-नन्देन्दु(१९६८) वर्षे कृत आनन्देन शिवततये ॥११॥
GENDEDEOEDEOEDEREDEO
मार्मिक व्याख्या रागत्यागी भवेद् देवः,
सङ्गत्यागी गुरुभवेत् । सक्तित्यागी च सम्यक्त्वी, देहत्याग्यव्यये पदे ॥
-पू० आगमोद्धारकाचार्यश्रीप्रणीत
___ यतिधर्मोपदेश गा० ७३६ DEDEDEDDEDEDEEDED