Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
प्रस्तावनासंग्रहे ३२. नैकप्राचीनशाखा-कुल-गण सूचकत्वेन प्रामाणिकैतिह्यसन्दर्भसङ्गामकत्वेन शिलालेखस्यापि पूज्यत्वाऽर्थ
सूचकमिदं विशेषणं सापेक्षतया सङ्गमनीयमत्र । ३३. तस्या: आचार्यपञ्चशत्याः विश्वास प्रामाणिकत्वेन निश्चितिं ऋते विना अर्हता-तीर्थकृता आख्या
तोऽपि निरपितोऽपि आगमः श्रतज्ञान विश्वासं='पुस्तकारूढो हि आगमः प्रामाणिक' इति प्रथिति न
अर्हेत्=नोचितत्वेन मान्यो भवेदिति अर्थानुसारिणी अन्वययोजना पदानाभवबोध्या। ३४. अन्यथा-वाचनासमये सङ्गतानामाचार्याणां पश्वशत्याऽर्पितया प्रामाणिकत्वमुद्रया विश्वासार्हाणां
पुस्तकाऽऽरूढाऽऽगमानां प्रामाणिकत्वव्यवस्थारूपवस्तुस्वीकाराऽभावेहि तत्रभवन्नाम्नैव-श्रीमत्पूज्य. देवद्धिगरणीऽऽक्षमाश्रमणनाम्नैव सर्व पुस्तकारोह्यमाणं श्रुतम् आविष्कृत्य प्रतिपाद्य स्वमनीषाकल्पिवतं-स्त्रमतिकल्पनाप्रथितम् प्रख्यापयेत्-माननीयं भवेत्
इति दुरूहाऽनिष्ठाऽऽपत्तिप्रदर्शनेन पूज्याऽऽगममर्मज्ञाऽऽचार्यपादैः श्रीदेवद्धिगणिपादानां श्रुतस्य पुस्तकारोहणादिकं तत्कालीनाऽऽप्ताऽभिजनाऽऽचार्यपञ्चशतीमान्यतरत्वं संसूचितम् । ३५. यथा चाऽन्ययूथिकैः दर्शनान्तरीयैः पुराणानां स्वमतिकल्पनया विरचनां कृत्वा तत्तदाऽऽप्तजनाऽभि
सन्धिमूलकत्वव्यवस्था विशकलिता, तथा चात्र जातं भवेत् इति तर्कोत्प्रेक्षाऽत्र बोध्या। ३६. पर्यवसाने अष्टमव्याख्यानप्रान्त्यभागे स्थितं स्थविरावल्याः भेदरुप-पृथगर्थसूचकं श्लोकयुग्मं पुस्तका
ऽऽरोहणाऽऽगमवाचनाकारकश्रीयुतदेवाड़िगणिपादपरिचयावहामिति तात्पर्यगमकविग्रहाऽऽधारेणाऽत्र
सङ्गतिः कार्या। ३७. 'तत्' पदेनाऽर्वाचीनत्वाऽभावः प्राचीनत्वं वाऽवबोध्यम् । ३८. इदं हि पदं नवमब्याख्यानसूचकं विज्ञेयम् ।। ३९. सद्गतेः निदानरूपे सदाचारे लोलुपाः सततमुद्युक्तास्तानिति विग्रहमत्र सम्प्रधार्य सदाचारपालन
निबद्धकक्षानिति भावार्थोऽत्र विज्ञेयः । ४०. भूयोभूयः लुप्यन्ते कर्मादिभिः जीवाः ययेति लोलुपा वासना, सा न विद्यते येषां ते इत्यलोलुपास्तान ,
मोहोद्रेकरूपवासनारहितानित्यर्थः । ४१. सुष्टु धर्मो विद्यते यस्य स इत्येतादृश सुधर्मा पदेन लक्षणाविधया प्रथमदेवलोकस्य तद्वासिदेवानां
तदिन्द्रस्य वा ग्रहणं विधायोपलक्षणात् सर्वैः देवैः अंनते अंहिपने यस्य सः एतादृशसुधर्मा-सुधस्विामीसंज्ञपंचमगणधरः स आदौ यत्र, तथा देवद्धिगणिक्षमाश्रमणः पर्यवसाने यत्र तानिति समा
सेनाऽत्राऽर्थसंयोजना गमनीया धीधनैः। । ४२. नवमव्याख्याने पर्युषणाव्यावर्णनमादौ प्रतिलेखनोदे शश्चान्ते' इति-सूचकमेतत् पदमत्र । ४३. एतद्धि पदमप्रेतन “भनन्ता.. "धर्माऽऽधारस्य वर्षाऽऽवासस्य" इत्येतेन सह संयोजनीयं । ४४. अर्हत्ता=अर्हतीति अईन्-योग्यस्तस्य भावः अर्हत्ता योग्यता तस्य अवलोकनेन, एतत्पदस्य वर्षावासस्ये
त्यनेन सह सम्बन्धः गमनीयः। ४५. निशीथमर्द्धरात्रमुच्यते" इत्यभिधानसंग्रहोक्तेः प्रस्तुतकल्पसूत्रस्य दशाश्रुतस्कन्धगतत्वहेतुकच्छेद.
सूत्रीयगोपनीयत्वं वर्षावासस्थितिकल्पस्य पञ्चरात्रिकमर्यादया प्रारभ्यमाणत्वं संसूच्यते । ४६. एतद्धिपदं बुद्धिरूपपिटकतोऽन्यूनपदमात्राबिन्दुकं यथावस्थितमेव मूलसूत्रस्य श्रद्धाबहुलं पठनं विधेय
मिति सूचयति ।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188