Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 74
________________ कल्प० टिप्पण ] [ ४७ ४७. तत्पराणामित्यर्थः । ४८. कान्तं महानन्दं यत् पदं मुक्तिरूपं तं प्रदत्ते योऽसौ इति विग्रहः । ४९. अश्रद्वानमूलकयोगाऽकरणरुचिमन्तो हि तृणेनाऽऽत्मानं चिच्छादयिषुचौरवद्धि कूटयुक्तिप्रदर्शनमेवं ___कुर्वन्ति यत्-“योगबहने नोबीकल्प्यवस्तूनामाधाकर्माऽऽदिदोषदुष्त्वं तत्तत्क्रियाऽशुद्धिवसतिशुद्धेरभावः, कालग्रहणादिविधिसत्यापनाभावःसंवट्टाऽऽउत्तवागयग्रहणमर्यादाशैथिल्यनित्यादिदोषारत्तिबहुधे". त्येतत्सर्वमसामिति पूज्यागमप्रज्ञावतंसैरभिव्यज्यते । ५०. वैदिकमतावलम्बिभिहि यज्ञादिषु मन्त्रसंस्कृतमांसादेरभक्षणे प्रत्यवायापन्तिः प्ररूप्यते, ततश्च प्रत्य वायभियाऽपि कैश्चित्तदभक्षणेच्छुभिः मन्त्रसंस्कृतत्वादिधिया निर्दोषत्वमभिमत्य मांसाधुपभोगः क्रियते, तद्वदत्र नीवीमध्ये आधाकर्माऽऽदिदोषदुषभुषभोज्यमेवेति न जहांगीरीयाज्ञा कैरपि बलादापाद्यते अतः एतव्याजेन योगेऽश्रद्धानं तु प्रबलमोहोदयाभिव्यञ्जकमिति भावः । ५१. अयोग=योगवहनरहितमित्यर्थः । ५२. आवश्यकसूत्रत्र्याख्या सर्वाऽऽगमानां प्राथम्येन लभ्यते, तस्या अपि ज्ञानं धारयता सामान्यसाधूनामप्येतत् सुविदितं यत् __ "गुरूणां बहिभूमिगमनप्रसङ्गमुपलभ्य साधूनामुपधिविण्टलिकाब्रजं साधुगणत्वेन संनिवेश्य तत्पुरो गम्भीरध्वनिना बिविधाऽऽगमयाचनाऽभिनयं नाटयतां प्रभावकप्रवराणां श्रीवज्रस्वामिनां वाचनामभिलाषुकैः समस्तसाधुभिः वाचनाऽऽचार्यपदप्रदानद्वारा वाचनादानाऽनुग्रहं समभिलषद्भिः विहिताया अनुनयपूर्णप्रार्थनाया: श्रीमद्भिः गुरुवरैः योगवहनपूर्व गुरुनिश्रया श्रुतानध्ययनेन हेतुनाऽस्त्रीकारः कृतः" इत्येतत्प्रसङ्गस्याऽत्रोल्लेख ऊहनीयः समुपासितगुरुचरणैर्विद्वद्भिज्ञवरैः । ५३. 'विहित' मित्यर्थः । एतत्पदस्याऽग्रेतन 'वाचन'-मित्यनेन सहाऽन्वयो विज्ञेयः । ५४. 'तत्' पदेन पुत्रशोकार्तस्याऽऽनन्दपुराऽधिपतेध्र वसेनस्य निर्देशोऽत्र विज्ञेयः । ५५. अनु अनुकूलमत्राभिमुख्येन अक्षाणां इन्द्रियागामिति विगृह्य समक्षं-प्रत्यक्षमित्यर्थोऽत्र विज्ञेयः । ५६. उत्=उत्कर्षेण गुरुनिश्राऽऽदिना ऊढाः विहिताः तत्तदनुष्ठानाऽऽसेवनाऽऽदिना योगाः श्रुतोपचाररूप तत्तत्तपोऽनुष्ठानानि यैरितिविग्रहद्वारा सम्यग् यथामर्यादं योगवहनकारिसाधूनामुपलक्षणमत्र विज्ञेयम् । ५७. 'वृति'-पदेन धान्याऽऽदिरक्षणार्थ अभिक्षेत्रं कृषकैः दीयमानकण्टकाद्यनभिभवनीयवस्तुजातभित्तिरूपलक्षिता, या च भाषायां 'वाड़' इति कथ्यते। अत्र चैतत्पदरूपकेण पूज्यानां श्रीमतां धर्मसागरोपाध्यायानामविच्छिन्नपरम्पराभ्राजिजिनशासनरक्षाप्रयोजकत्वमभिव्यज्यते । ५८. एतेन वाक्यसन्दर्भेग प्रस्तुतायां वृत्तौ कुत्रचित् दृश्यमानसागरशाखीयविदुषां तेजोऽभिभवकरणे हाऽऽभासं ध्वनन्ती तात्त्विकपर्यालोचनादक्षाणां सुधियां रूचिवैषम्यकारिणी भिष्टकर्करिकान्यायेनाssज्ञानां बुद्धिभेदकारिणी चापेक्षावशंवदत्वपरिहानसूचिका मार्मिकवाक्यपद्धतिः सूचितेत्यस्वारस्यगर्भ सूच्यतेऽत्र श्रीमद्भिरागमावतारानस्थस्वर्गतैरागमोद्धारकपादैः । ५९. प्रत्र खलु 'आवेश' पदेन तत्तन्निमित्तबलेन सरागसंयमाऽऽदिहेतुना साहजिकोत्पद्यमानोर्मिनातरूपा ऽप्रशस्तचित्तवृत्तिसूचनं ज्ञेयम् , तेन च सानुबन्धद्वेषस्य विवक्षा जलयष्टिन्यायेन च प्रासंगिकोत्पद्यमा.

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188