________________
कल्प० टिप्पण ]
[ ४७ ४७. तत्पराणामित्यर्थः । ४८. कान्तं महानन्दं यत् पदं मुक्तिरूपं तं प्रदत्ते योऽसौ इति विग्रहः । ४९. अश्रद्वानमूलकयोगाऽकरणरुचिमन्तो हि तृणेनाऽऽत्मानं चिच्छादयिषुचौरवद्धि कूटयुक्तिप्रदर्शनमेवं ___कुर्वन्ति यत्-“योगबहने नोबीकल्प्यवस्तूनामाधाकर्माऽऽदिदोषदुष्त्वं तत्तत्क्रियाऽशुद्धिवसतिशुद्धेरभावः,
कालग्रहणादिविधिसत्यापनाभावःसंवट्टाऽऽउत्तवागयग्रहणमर्यादाशैथिल्यनित्यादिदोषारत्तिबहुधे".
त्येतत्सर्वमसामिति पूज्यागमप्रज्ञावतंसैरभिव्यज्यते । ५०. वैदिकमतावलम्बिभिहि यज्ञादिषु मन्त्रसंस्कृतमांसादेरभक्षणे प्रत्यवायापन्तिः प्ररूप्यते, ततश्च प्रत्य
वायभियाऽपि कैश्चित्तदभक्षणेच्छुभिः मन्त्रसंस्कृतत्वादिधिया निर्दोषत्वमभिमत्य मांसाधुपभोगः क्रियते, तद्वदत्र नीवीमध्ये आधाकर्माऽऽदिदोषदुषभुषभोज्यमेवेति न जहांगीरीयाज्ञा कैरपि बलादापाद्यते
अतः एतव्याजेन योगेऽश्रद्धानं तु प्रबलमोहोदयाभिव्यञ्जकमिति भावः । ५१. अयोग=योगवहनरहितमित्यर्थः । ५२. आवश्यकसूत्रत्र्याख्या सर्वाऽऽगमानां प्राथम्येन लभ्यते, तस्या अपि ज्ञानं धारयता सामान्यसाधूनामप्येतत् सुविदितं यत्
__ "गुरूणां बहिभूमिगमनप्रसङ्गमुपलभ्य साधूनामुपधिविण्टलिकाब्रजं साधुगणत्वेन संनिवेश्य तत्पुरो गम्भीरध्वनिना बिविधाऽऽगमयाचनाऽभिनयं नाटयतां प्रभावकप्रवराणां श्रीवज्रस्वामिनां वाचनामभिलाषुकैः समस्तसाधुभिः वाचनाऽऽचार्यपदप्रदानद्वारा वाचनादानाऽनुग्रहं समभिलषद्भिः विहिताया अनुनयपूर्णप्रार्थनाया: श्रीमद्भिः गुरुवरैः योगवहनपूर्व गुरुनिश्रया श्रुतानध्ययनेन हेतुनाऽस्त्रीकारः कृतः"
इत्येतत्प्रसङ्गस्याऽत्रोल्लेख ऊहनीयः समुपासितगुरुचरणैर्विद्वद्भिज्ञवरैः । ५३. 'विहित' मित्यर्थः । एतत्पदस्याऽग्रेतन 'वाचन'-मित्यनेन सहाऽन्वयो विज्ञेयः । ५४. 'तत्' पदेन पुत्रशोकार्तस्याऽऽनन्दपुराऽधिपतेध्र वसेनस्य निर्देशोऽत्र विज्ञेयः । ५५. अनु अनुकूलमत्राभिमुख्येन अक्षाणां इन्द्रियागामिति विगृह्य समक्षं-प्रत्यक्षमित्यर्थोऽत्र विज्ञेयः । ५६. उत्=उत्कर्षेण गुरुनिश्राऽऽदिना ऊढाः विहिताः तत्तदनुष्ठानाऽऽसेवनाऽऽदिना योगाः श्रुतोपचाररूप
तत्तत्तपोऽनुष्ठानानि यैरितिविग्रहद्वारा सम्यग् यथामर्यादं योगवहनकारिसाधूनामुपलक्षणमत्र विज्ञेयम् । ५७. 'वृति'-पदेन धान्याऽऽदिरक्षणार्थ अभिक्षेत्रं कृषकैः दीयमानकण्टकाद्यनभिभवनीयवस्तुजातभित्तिरूपलक्षिता, या च भाषायां 'वाड़' इति कथ्यते।
अत्र चैतत्पदरूपकेण पूज्यानां श्रीमतां धर्मसागरोपाध्यायानामविच्छिन्नपरम्पराभ्राजिजिनशासनरक्षाप्रयोजकत्वमभिव्यज्यते । ५८. एतेन वाक्यसन्दर्भेग प्रस्तुतायां वृत्तौ कुत्रचित् दृश्यमानसागरशाखीयविदुषां तेजोऽभिभवकरणे
हाऽऽभासं ध्वनन्ती तात्त्विकपर्यालोचनादक्षाणां सुधियां रूचिवैषम्यकारिणी भिष्टकर्करिकान्यायेनाssज्ञानां बुद्धिभेदकारिणी चापेक्षावशंवदत्वपरिहानसूचिका मार्मिकवाक्यपद्धतिः सूचितेत्यस्वारस्यगर्भ
सूच्यतेऽत्र श्रीमद्भिरागमावतारानस्थस्वर्गतैरागमोद्धारकपादैः । ५९. प्रत्र खलु 'आवेश' पदेन तत्तन्निमित्तबलेन सरागसंयमाऽऽदिहेतुना साहजिकोत्पद्यमानोर्मिनातरूपा
ऽप्रशस्तचित्तवृत्तिसूचनं ज्ञेयम् , तेन च सानुबन्धद्वेषस्य विवक्षा जलयष्टिन्यायेन च प्रासंगिकोत्पद्यमा.