SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रस्तावनासंग्रहे ३२. नैकप्राचीनशाखा-कुल-गण सूचकत्वेन प्रामाणिकैतिह्यसन्दर्भसङ्गामकत्वेन शिलालेखस्यापि पूज्यत्वाऽर्थ सूचकमिदं विशेषणं सापेक्षतया सङ्गमनीयमत्र । ३३. तस्या: आचार्यपञ्चशत्याः विश्वास प्रामाणिकत्वेन निश्चितिं ऋते विना अर्हता-तीर्थकृता आख्या तोऽपि निरपितोऽपि आगमः श्रतज्ञान विश्वासं='पुस्तकारूढो हि आगमः प्रामाणिक' इति प्रथिति न अर्हेत्=नोचितत्वेन मान्यो भवेदिति अर्थानुसारिणी अन्वययोजना पदानाभवबोध्या। ३४. अन्यथा-वाचनासमये सङ्गतानामाचार्याणां पश्वशत्याऽर्पितया प्रामाणिकत्वमुद्रया विश्वासार्हाणां पुस्तकाऽऽरूढाऽऽगमानां प्रामाणिकत्वव्यवस्थारूपवस्तुस्वीकाराऽभावेहि तत्रभवन्नाम्नैव-श्रीमत्पूज्य. देवद्धिगरणीऽऽक्षमाश्रमणनाम्नैव सर्व पुस्तकारोह्यमाणं श्रुतम् आविष्कृत्य प्रतिपाद्य स्वमनीषाकल्पिवतं-स्त्रमतिकल्पनाप्रथितम् प्रख्यापयेत्-माननीयं भवेत् इति दुरूहाऽनिष्ठाऽऽपत्तिप्रदर्शनेन पूज्याऽऽगममर्मज्ञाऽऽचार्यपादैः श्रीदेवद्धिगणिपादानां श्रुतस्य पुस्तकारोहणादिकं तत्कालीनाऽऽप्ताऽभिजनाऽऽचार्यपञ्चशतीमान्यतरत्वं संसूचितम् । ३५. यथा चाऽन्ययूथिकैः दर्शनान्तरीयैः पुराणानां स्वमतिकल्पनया विरचनां कृत्वा तत्तदाऽऽप्तजनाऽभि सन्धिमूलकत्वव्यवस्था विशकलिता, तथा चात्र जातं भवेत् इति तर्कोत्प्रेक्षाऽत्र बोध्या। ३६. पर्यवसाने अष्टमव्याख्यानप्रान्त्यभागे स्थितं स्थविरावल्याः भेदरुप-पृथगर्थसूचकं श्लोकयुग्मं पुस्तका ऽऽरोहणाऽऽगमवाचनाकारकश्रीयुतदेवाड़िगणिपादपरिचयावहामिति तात्पर्यगमकविग्रहाऽऽधारेणाऽत्र सङ्गतिः कार्या। ३७. 'तत्' पदेनाऽर्वाचीनत्वाऽभावः प्राचीनत्वं वाऽवबोध्यम् । ३८. इदं हि पदं नवमब्याख्यानसूचकं विज्ञेयम् ।। ३९. सद्गतेः निदानरूपे सदाचारे लोलुपाः सततमुद्युक्तास्तानिति विग्रहमत्र सम्प्रधार्य सदाचारपालन निबद्धकक्षानिति भावार्थोऽत्र विज्ञेयः । ४०. भूयोभूयः लुप्यन्ते कर्मादिभिः जीवाः ययेति लोलुपा वासना, सा न विद्यते येषां ते इत्यलोलुपास्तान , मोहोद्रेकरूपवासनारहितानित्यर्थः । ४१. सुष्टु धर्मो विद्यते यस्य स इत्येतादृश सुधर्मा पदेन लक्षणाविधया प्रथमदेवलोकस्य तद्वासिदेवानां तदिन्द्रस्य वा ग्रहणं विधायोपलक्षणात् सर्वैः देवैः अंनते अंहिपने यस्य सः एतादृशसुधर्मा-सुधस्विामीसंज्ञपंचमगणधरः स आदौ यत्र, तथा देवद्धिगणिक्षमाश्रमणः पर्यवसाने यत्र तानिति समा सेनाऽत्राऽर्थसंयोजना गमनीया धीधनैः। । ४२. नवमव्याख्याने पर्युषणाव्यावर्णनमादौ प्रतिलेखनोदे शश्चान्ते' इति-सूचकमेतत् पदमत्र । ४३. एतद्धि पदमप्रेतन “भनन्ता.. "धर्माऽऽधारस्य वर्षाऽऽवासस्य" इत्येतेन सह संयोजनीयं । ४४. अर्हत्ता=अर्हतीति अईन्-योग्यस्तस्य भावः अर्हत्ता योग्यता तस्य अवलोकनेन, एतत्पदस्य वर्षावासस्ये त्यनेन सह सम्बन्धः गमनीयः। ४५. निशीथमर्द्धरात्रमुच्यते" इत्यभिधानसंग्रहोक्तेः प्रस्तुतकल्पसूत्रस्य दशाश्रुतस्कन्धगतत्वहेतुकच्छेद. सूत्रीयगोपनीयत्वं वर्षावासस्थितिकल्पस्य पञ्चरात्रिकमर्यादया प्रारभ्यमाणत्वं संसूच्यते । ४६. एतद्धिपदं बुद्धिरूपपिटकतोऽन्यूनपदमात्राबिन्दुकं यथावस्थितमेव मूलसूत्रस्य श्रद्धाबहुलं पठनं विधेय मिति सूचयति ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy