________________
कल्प० टिप्पणीः ]
[ ४५ १२. पर्युषणापर्वणि प्रतिवर्ष वाच्यमानायां श्रीकल्पसूत्रसुबोधिकावृत्तावन्यत्र च बहुत्र ग्रन्थेषु यथोत्तर
द्विगुणहस्तिप्रभितमषीपुञ्जविलेख्यत्वं पूर्वाणां व्यावणितमस्ति, ततश्च यथोत्तरं द्विगुणवृद्धया नवमपूर्वस्य षट्पञ्चाशदधिकद्विशत ( २५६ ) हस्तिमितमषीलेख्यत्वमापद्यते, अनन्न्तरपूर्वस्याष्टमस्य हिं
यथोत्तरवृद्धयाऽष्टाविंशत्यधिकशत १२८ हस्तिमितमषीलेख्यत्वात् । १३. आप्ताऽभिजनाऽभिसन्ध्यनुसारं पञ्चधनुःशतभितत्वमेतेषां हस्तिनामभिमन्तव्यं सुज्ञैः । १४. एषा हि सार्द्धगाथा श्रीअभिधानचिन्तामणौ (देवाधिदेवकाण्ड श्लो० ३३-३४३) समुपलभ्यते । १५. लोकश्च अलोकश्च लोकाऽलोकी, तयोरालोकः-ज्ञानं, तस्याऽऽभोगः विस्तारः तस्मै प्रत्यलं समर्थ एता' दृशं यत् केवलं केवलज्ञानं तेनाऽलङ्कता ये महर्षयः केवलिनः, तेषां तुल्यया प्ररूपणया रुषितन्वं
सहितत्वं तस्मात् इति विग्रहः । १६. दशाश्रुतस्कन्धसम्बन्धिन्यामिति भावः, 'चूर्णी' इत्यत्राऽस्य सम्बन्धः।। १७. श्रीस्थानाङ्गसूत्रे प्रथमस्थाने (सू० ७५ पत्र ५६ पृ० १ पं० ८) समुपलभ्यते ह्ययमुल्लेखः । १८. सर्वसत्त्वोपकृतिदक्षानामागमानां पुरुषाऽऽकारेण स्थापनायाः 'नन्दिचूरिण' गाथया संपूचितायाः पूज्याऽऽ
गमोद्धारकादैः सर्वप्रथमं चित्रापितायाः सूर्यपुराऽऽगममन्दिरभूमिगृहे स्थापितायाश्च "प्रागमपुरुषे". तिसज्ञया प्रथितायाः अत्र विवक्षाऽस्ति ।
आगम-पुरुषसम्बन्धिमौलिकस्वरूपजिज्ञासुभिः टिप्पणीसम्पादकस्य गूर्जरभाषालिखितं "श्रीप्रागमपुरुषनु रहस्य" संज्ञपुस्तकमवेक्षणीयं धीधनैः । १९. श्रीकल्पसूत्रचरमभागीयसूत्रोल्लेखोऽयम् । २०. शङ्काऽर्थक "आरेका" पदवत् इदमपि पदं शङ्कार्थकमेवेति विज्ञायते । २१. एतदपि 'श्रीकल्पसूत्र' चरमसूत्रीयमिति । २२. एतस्मिन् प्रकृते 'श्रीकल्पसूत्रे'। २३. नवमपूर्वस्थानामित्यर्थः । २४. श्रीफल्पसूत्रम् । २५. चरमसूत्रनिर्दिष्यरूपेण श्रीमहावीरप्रभुनिर्दिष्टम् । २६. 'प्रज्ञापना' सूत्रं हि स्थविरेऽऽरार्यश्यामाचार्यः सङ्कलितं, तथापि उपयोगिनां तेषां तेषां सूत्राणामानु
पूर्वीश अक्षरानुपातिसमावशे कृतेऽपि कुत्र कुत्र यथाई सोचस्यापि कृतत्वात् 'विरचित'-मितिप्रथिते
रपि समीचीनत्वमवधार्यम् । २७. उच्छृखलैः=कुतर्कबलजीविभिः वादिविशेषः प्रेरितः इति भावः । २८. श्रीवीर-पार्श्व नेमि-ऋषभतीर्थकृतां हि चरितानां प्रान्त्यभागे समुल्लिखितेषु सप्तमे हि व्याख्याने भीनेमि
चरित्रादूर्ध्व श्रीऋषभचरित्रादागुल्लिखितेषु जिनान्तरेषु चेत्यर्थः । २९. अष्टमे हि व्याख्याने । ३०. श्रीकल्पसूत्रस्य पुस्तकारूढीकृतस्येत्यर्थः । ३१. मथुरापार्श्ववर्तिकंकालीटोलासंज्ञप्रोत्तुङ्गलघुगिरितुल्यप्रदेशखननलब्धस्य ब्रिटिशगवर्मेट व्यवस्थापि
तस्य प्रचुरतरविशिष्टैतिह्यसामग्रीजातस्य समुल्ले खोऽत्राऽऽगमावतारः भीमद्भिविहितोऽस्ति ।