________________
__ श्रीकल्पसूत्रवृत्ति
__सुबोधिका । प्रस्तावना-टिप्पणम्
(आनन्द-लहरीसंज्ञम् )
१. अद्वितीयश्चासौ महिमा च, तद्रूपरत्नानां रत्नाकरस्तम् इति विग्रहः । प्रतिपर्युषणायामाबालगोपाल
प्रथितकीर्तिभाक्त्वेनाऽऽजैनकुलोत्पन्नसामान्यश्राद्धोत्तमयतीनामवश्यश्रवणीयत्वेनाऽक्षरशः यस्याऽपूर्वजनमनश्चमत्कृत्याऽऽधायकमहिमा समेषां प्रथितोऽस्ति, तस्य सूचैतत्पदेन व्यज्यतेऽत्र पूज्यवर्थः
श्रीमद्भिरागमोद्धारकैः। २. एतच्छब्दस्य मुख्यो ह्यर्थ उदारत्व-दातृत्वादिरूपो वर्त्तते, परमत्र लाक्षणिकत्वेन बुद्धिगतौदार्यत्वं विव
क्ष्य तद्वत्सु मूर्धन्याः शेखरा इत्यर्थः करणीयः। ३. श्रेयःभूतं परमकल्याणरूपं यत् निःश्रेयसम्=मोक्षाऽऽख्यं, तस्य निबन्धनानां-दर्शन-ज्ञान-चारित्राणां
निदानभूतं यत् इति विग्रहः। ४. 'प्रणेतृ' शब्देनाऽत्र सङ्कलनाऽपरर्याय-नि!हणा'-प्रणयनरूपं कर्तवरूपमवबोध्यम् । मौलिकी रच
नाऽऽदिरूपं न सङ्गच्छते श्रीमद्भद्रबाहुस्वामिनाम्, दशाश्रुतस्कन्धाऽष्टमाऽध्ययनतया पूर्वगतोद्धृततया
चाऽस्य महामहिमशालिनः श्रीकल्पसूत्रस्य ‘पयुषणाकल्पा'ऽपराऽऽख्यस्य प्रथिततमत्वात् । ५. अयं हि शब्दः आगमिकशैलीपरिचितानां नाभिनवः, यतोऽस्मिन्नेव श्रीकल्पसूत्रे तीर्थकृतांऽतत्तच्छा.
सनोपज्ञमुक्तिमार्गस्य वहमानत्वनिर्देशप्रसंगे 'पट्टपरम्पराऽर्थे 'युग' शब्दः "युगान्तकृभूमि"
पदद्वारा प्रयुक्तोऽस्ति, ततश्चात्र “षष्ठपट्टधरत्वेन"-ति तात्पर्यगर्भोऽर्थोऽवबोध्यः । ६. पीरनिर्वाणसत्कद्वितीयशताब्द्यामित्यर्थः । ७. 'रजनीचर' शब्दो हि सामान्यतः राक्षसार्थवाची वर्तते, परमत्र तुसामान्यतः रात्रिविचरणशीलत्वरूपाऽ.
र्थविवक्षया रात्रौ येषां प्रचारः साहजिक एतादृशपापव्यापाराऽऽसक्तदुर्मतिजनतारूपतात्पर्ये 'रजनिचर' पदं ज्ञेयम्। ८. एतत्पदेन सम्पृक्तत्वार्थो ज्ञेयः । ९. कालश्च परिश्रमश्चेति कालपरिश्रमौ, आयतौ विस्तीर्णौ बहू च तौ कालपरिश्रमौ चेति आयतकालपरि
श्रमी, ताभ्यां लभ्यानि, एतादृशानि यानि पूर्वाणीति समासं कृत्वा तेषां लाभेन विकलानामिति
सम्बन्धयोजना कार्या। १०. इदं हि पदम् समस्तार्थवाचि अत्रापि ज्ञेयम् । ११. 'अवम' शब्दो हि नवीनवाची अप्यस्ति, ततश्च नास्ति अवमं यस्मात् इति विग्रहः । अथवा हीनाऽपर
पर्यायोऽप्यऽवम' शब्दोऽस्ति, अतश्च 'अनवमा'-दित्यस्य 'श्रेष्ठात्' इत्यप्यर्थो भवेत् ।