Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 39
________________ १२ ] प्रस्तावनासंग्रहे वस्था सतीमप्यनाहत्यापपुस्तकप्रसारमात्रजायमानबहुद्रव्यव्ययां झटिति पुस्तकप्रसरणप्रगुणां मुद्रणकलां मुख्यतयाऽधिचकार, भगिन्याश्च स्वीयाया विद्युन्मत्या द्रव्यं तत्र सम्मील्य समानीय च कलान्तरोपार्जितं चान्यद्रविणजातं लक्षोन्मितं लक्ष्यं लक्षणविदां, तत्र चादितो मङ्गलाचरणमिव शिष्टानां परममङ्गलभूतमिदमुपचक्रमे मुद्रितुं ज्ञानधनैः साधुभिः संशोध्येति । प्रस्ताव्य व्यवस्थाम् प्रस्ताव्यतेऽधुना प्रक्रान्तो ग्रन्थः कर्तृ श्रोत्रधिकारप्रमाणादिभिः । तत्रावधीयतां तावदवधारणादीधनैरिदम् , यदुत विधातारोऽस्य विहितनिवाराधनमोचनाष्टादशदेशामारिपटहलब्धाकल्पस्थायियशःशरीराः, ४ सार्वत्रिकोटिग्रन्थ ग्रथनलक्षितसर्वज्ञानतारत्ववितीर्णकलिकालसर्वज्ञविरुदाः, अनवद्य चातुर्विद्यविधानख्यातब्रह्मातिगप्रभावाऽष्टादशदेशाधिपतिकुमारपालक्ष्मापालबोधनस्मारितसातिशयमुनिगणाः श्रीमन्तो भगवन्तो हेमचन्द्राचार्याः, तुच्छं चेदं यद् व्यागृणन्त्यलब्धतन्माहात्म्याब्धिमध्याः सार्धत्रिकोटिग्रन्थग्रथनाऽसम्भवमिति, पाठमात्रग्रन्थग्रथनपटीयस्त्वात्तेषाम् , श्रूयत उपलक्ष्यते लेखककुण्डस्थानादिविलोकनेन स्पष्टतरं विदुषामरक्तद्विष्टानां चैतत् । सूरिप्रवराश्चैते कदा कतमं भमण्डलं मण्डयामासुः ? कदा च सूर्यास्तमयेनेव रजनी प्रचारमवाप सूरिवरास्तमयेन कुमतध्वान्तततिः विस्तृतिम् ? कस्मै च योग्यतमाय पुरुषोत्तमाय ५२विधायैनमर्पयामासुः, कश्चाधिकारोऽत्र विद्वद्वन्दवेद्य आत्मकल्याणजनक ? इति प्रवृत्तायां विचारणायाम् निर्णीयते तावत्स्पष्टं स्पष्टितत्वात् “कुमारपालभूपालः प्राप्नोतु फलमोप्सित"मिति श्रीमद्विहितादेवैतदीयश्लोकात्कुमारपालक्ष्मापालसमकालीनत्वम् । कुमारपालभूपालानेहाश्च गुर्जरभूपपट्टावल्यादिविलोकनतो निश्चीयते वैक्रमीयद्वादशशतीयो, यतो विक्रमसंवन्नवनवत्यधिकैकादशशतमिते राज्याभिषेकस्त्रिंशदधिकद्वादशशतके च तस्य स्वर्गम इति । तथाच सूरिपादसमयोऽप्येष एव । स्वचरणन्यायपावितभमण्डलनिणेयोप्यत एव सम्यक्तया जायत एव, यतः ५ पुण्यतमजननिवासतिरस्कृतविबुधालयविबुधालयं श्रीमत्पत्तनपुरमगहिल्लोपपदमभूत्परमार्हतानां राजर्षिपदव्यलतानां श्रीकुमारपालभपानाम् राज्यस्थानम् , तथा च प्रायेण श्रीमतां गूर्जरधरित्र्यामेव विहारस्तत्रत्यागण्यपण्यपूरप्लावितान्तःकरणानामेव च ५४परस्परविरोधदुर्गन्धभृद्वाणीवाचक "सुरगुरुतिरस्कारिभारतीप्राग्भारभूषितवदनमलयनिःसृताविरुद्धपरमागमोदितिश्रवणभाग्यमभूदिति, वास्तव्याश्चैते तत्रभवन्तो भगवन्नो गार्हस्थ्ये गूर्जरीयधन्धूकाख्य एव ग्रामे, एतत्प्रभृतिकं सविस्तरं "वृत्तान्तमुपलभ्यं "श्रीमतां कुमारपालप्रबन्धादिति । स्पष्टमेव चोपरिष्टनिःष्टङ्कितश्लोकोत्तरार्धविचारणेन प्रकटीभविष्यति यदुत श्रीकुमारपालपावनप्राधान्येन प्रणीतिरस्य, किंवदन्ती चेयं तत्र तदनुसारिण्येव च भणितिरवचूर्णिकाराणामपि वीतरागस्तोत्राणां श्रीविशालराजप्रभूणामवचूर्णी, यदुतार्हतधर्मप्राप्तिकालादर्वाक् राजर्षिभिः

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188