Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 51
________________ पूज्यागमोद्धारक श्रीलिखितप्रस्तावनाविषमपदार्थ सूचिका आनन्द-लहरी - टिप्पणी ३- श्रीस्याद्वादभाषा प्रस्तावना १. धारणाशक्तिविशेषरूपा ह्यवधानधीः, निर्णयकारिका ह्येषा गोयते मतिज्ञानावान्तरभेदरूपेति बोध्यमत्र समीक्षावद्भिः । २. ततः = प्रमाणद्वारा जायमानपदार्थज्ञानादित्यर्थः । ३. दुरवगाहदुरूहतर्कजालसञ्चरणादिष्वसामर्थ्यरूपमत्र बुद्धेः सुकुमारत्वमत्र विज्ञेयम् । ४. प्रसक्तं = विषयानुगतं, अनुप्रसक्तं = प्रकृतोपयोगित्वेन परम्परयाऽपि विषयानुगतम् एतयोरराख्यानेन = निरुपणेन ख्यातः महिमा एकप्रन्थसज्ज्ञानप्रयासेन नैकपदार्थ प्रचुरतरज्ञान सम्पन्नताकरणरूपः येषांः ते इति व्युत्पत्तिरर्थानुसारं विज्ञेयाऽत्र । ५. स्वस्य = अभिमतस्य, जिनोक्तस्येति यावत् समयस्य = सिद्धान्तस्य अवगमे - ज्ञाने हृदयं चेतः तत्परतारूपं येषां तेषामिति समासेन स्वमतजिज्ञासूनामिति भावः । ६. सप्रभेदे यथार्ह = बालजीवधारणाशक्ति अनुरूपं विस्तरः ययोस्ते । एतद्धि 'प्रमारणे' इत्यस्य विशेषणम्, तयोः व्युत्पत्तिः = स्पष्टबोधं कारयितु' 'नयान् प्रतिपाद्ये'त्य सम्बन्धो ज्ञेयः । ७. निखिलानां =समस्तानां दर्शनानामागम-वचनानां = मूलभूतशास्त्रवाक्याणां मूलभूतान् इतिव्युत्पादनीयमत्र, विशेषणं चैतत् “नयान्" इत्यस्य ज्ञेयम् । ८. 'इति ह आस = इति' व्युत्पत्त्या एवमत्र पुरा आसीदिति आप्ताभिजनक्रमागततत्तद्व्यक्तिस्थल विशेषाणां घटनादिकानाञ्च मौखिकवार्त्ताणां सङ्कलनम् = इतिहासः । भिन्नभिन्न देशकालेषु घटितघटनानां केनापि प्रकारेण लिपिबद्धरूपतया सङ्कलनम् = इतिवृत्तम् । एते विरले यत्र काले तस्मिन् काले उत्पन्नः इति व्युत्पत्तिमर्धसङ्गतिद्वारा कृत्वा दुर्लभैतिह्यसामग्रीको ह्ययं काल इति ध्वननाऽत्र पूज्यवर्यैः विहिता । ९. 'संवत्' शब्दोहि वर्षावाची अव्ययश्च तथाप्यत्र “प्रकृतिवदनुकरण" मिति न्यायेन षष्ठीबहुवचनं सङ्गमनीयम् । १०. ' वर्त्तना' शब्दो यत्रास्तित्व- विद्यमानतार्थपरकोS - वबोध्यः ।

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188