________________
पूज्यागमोद्धारक श्रीलिखितप्रस्तावनाविषमपदार्थ सूचिका आनन्द-लहरी - टिप्पणी
३- श्रीस्याद्वादभाषा प्रस्तावना
१. धारणाशक्तिविशेषरूपा ह्यवधानधीः, निर्णयकारिका ह्येषा गोयते मतिज्ञानावान्तरभेदरूपेति बोध्यमत्र समीक्षावद्भिः ।
२. ततः = प्रमाणद्वारा जायमानपदार्थज्ञानादित्यर्थः ।
३. दुरवगाहदुरूहतर्कजालसञ्चरणादिष्वसामर्थ्यरूपमत्र बुद्धेः सुकुमारत्वमत्र विज्ञेयम् ।
४. प्रसक्तं = विषयानुगतं, अनुप्रसक्तं = प्रकृतोपयोगित्वेन परम्परयाऽपि विषयानुगतम् एतयोरराख्यानेन = निरुपणेन ख्यातः महिमा एकप्रन्थसज्ज्ञानप्रयासेन नैकपदार्थ प्रचुरतरज्ञान सम्पन्नताकरणरूपः येषांः ते इति व्युत्पत्तिरर्थानुसारं विज्ञेयाऽत्र ।
५. स्वस्य = अभिमतस्य, जिनोक्तस्येति यावत् समयस्य = सिद्धान्तस्य अवगमे - ज्ञाने हृदयं चेतः तत्परतारूपं येषां तेषामिति समासेन स्वमतजिज्ञासूनामिति भावः ।
६. सप्रभेदे यथार्ह = बालजीवधारणाशक्ति अनुरूपं विस्तरः ययोस्ते ।
एतद्धि 'प्रमारणे' इत्यस्य विशेषणम्, तयोः व्युत्पत्तिः = स्पष्टबोधं कारयितु' 'नयान् प्रतिपाद्ये'त्य सम्बन्धो ज्ञेयः ।
७. निखिलानां =समस्तानां दर्शनानामागम-वचनानां = मूलभूतशास्त्रवाक्याणां मूलभूतान् इतिव्युत्पादनीयमत्र, विशेषणं चैतत् “नयान्" इत्यस्य ज्ञेयम् ।
८. 'इति ह आस = इति' व्युत्पत्त्या एवमत्र पुरा आसीदिति आप्ताभिजनक्रमागततत्तद्व्यक्तिस्थल विशेषाणां घटनादिकानाञ्च मौखिकवार्त्ताणां सङ्कलनम् = इतिहासः । भिन्नभिन्न देशकालेषु घटितघटनानां केनापि प्रकारेण लिपिबद्धरूपतया सङ्कलनम् = इतिवृत्तम् ।
एते विरले यत्र काले तस्मिन् काले उत्पन्नः इति व्युत्पत्तिमर्धसङ्गतिद्वारा कृत्वा दुर्लभैतिह्यसामग्रीको ह्ययं काल इति ध्वननाऽत्र पूज्यवर्यैः विहिता ।
९. 'संवत्' शब्दोहि वर्षावाची अव्ययश्च तथाप्यत्र “प्रकृतिवदनुकरण" मिति न्यायेन षष्ठीबहुवचनं सङ्गमनीयम् ।
१०. ' वर्त्तना' शब्दो यत्रास्तित्व- विद्यमानतार्थपरकोS - वबोध्यः ।