________________
स्या० भा० प्रस्तावना]
[२३ चक्राणैश्च पूज्यैरेनं ग्रन्थं प्रान्तव्युत्पादिता जीवादयः पदार्था नित्यानित्यत्वादिधर्मसंवलिता ज्ञानादिधर्मभिन्नाभिन्ना भाष्यतया अभिप्रेता इति यथार्थाभिधाऽस्य 'स्यावादभाषेति, प्रमाणादिनिरूपणं तु तदङ्गमिति तदपि "तथैवाहतं गणिभिः, स्याद्वादानुगतं प्रमाणादि वा निर्णेयतयाभिप्रेतमत्रात्रभवद्भिरिति तथाऽभिधाऽस्य ।
तत्रभवद्भिः के के कृता ग्रन्था ? इति न ज्ञायते इयत्ता, परं प्रश्नोत्तरसङ्ग्रहावसाने काव्यकल्पलतामकरन्द-स्यावादभाषेति प्रत्यक्षोपलब्धेस्तैस्त्रितयं ग्रन्थानां प्रतेने १ प्रश्नोत्तरसमुच्चयः (सेनप्रश्नापराभिधानः) २ काव्यकल्पलतामकरन्दः ३ स्याद्वादभाषेति च, पश्चाच्च "प्रश्नोत्तरादविष्यन् विहिताः कदाचिद्गन्थाः परं न ते ज्ञायन्ते तदुल्ल खादिदर्शनाऽभावात् , दुर्लभाश्च प्रतयोऽधुनानेककारणत इति तु निर्णीतं प्रस्तावनाकत भिरनेकैस्तथापि भविष्यन्ति सुलभाः प्रतयस्तदवलोकनानि च श्रेष्ठिवर्यदेवचन्द्रलालभ्रातृनियमितपुस्तकोद्धारकोशादित्याशासे सागरान्त आनन्दाभिधानोहं श्रमणसङ्घकृपाभिलाषुकः, प्रार्थये च प्रमाय॑ प्रमादजातामशुद्धिम् वाचयन्त्वेतद् ग्रन्थरत्नम् इति वाचनीयवाचनानिबद्धकक्षान् सज्जनान् , बद्धाञ्जलिश्च तेभ्योऽयं ये ज्ञापयेरनशुद्धि मदीयां मिथ्यादुष्कृतमुररीकृत्याशुद्धिसत्कं याचे चात्मना सर्वान् यत् यथायथमवबुध्यात्रत्यं पदार्थजातं श्रद्दधातु सजनगणः, आचरतु च यथोपदिष्टमागमानुरागरक्तो "निद्वन्द्वपदाप्तय इति ॥ भृगुकच्छे रचिता वै,
आनन्दयुतेन सागरेण मया । माघे सुपौर्णमास्याम् ,
ऋषि-रस-नव-चन्द्र-हायने (१९६७) शुभदा ॥११॥
जैनागम-प्रधानता हा ! हा ! भीषणकाल एष न यतः सत्यार्थदृब्धौ रताः , सूर्याद्याः प्रचुराश्च पुस्तकपरावर्तोद्यताः वादिनः । भूमीशा विबुधाश्च पक्षपतिता दाक्षिण्यलोभोद्यता , अल्पा मार्गरतास्तथापि जयवानाप्तागमः शुद्धवाक् ॥
पू० आगमोद्धाक श्री रचितश्री आगम महिमा श्लो० २३९