Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
२८ ]
[ प्रस्तावना संग्रह
तथाविधो विशेषोऽतिरिच्य दैवसिकपाक्षिके, तत्र दैवसिकप्रतिक्रमणे श्रमणसत्कं प्रतिक्रमणं सव्याख्याकमाविष्कृतपूर्वमेवैतत्कोशाध्यक्षादिभिः, पाक्षिकावश्यके चावश्यकमनगाराणामे ४ तन्मुख्यतयेत्युपक्रान्तं मुद्रितु तैरेव ।
परं ग्रन्थरत्न ऽत्रोपक्रान्त विचारणीयमेतद्विचारचणानाम् यदुत - कस्कोऽस्य विधाता ? कथास्य रचनाधारभूतः कालः ? कस्मै वा निर्मितं ? के वाऽधिकाराः ? कस्कोऽत्र विवरिता ? कदा कतमस्य भूमण्डलस्य मण्डनं ? इत्यादि प्रश्नवृन्दम् ।
तत्र प्रथमं तावद्विदितप्रवचनरहस्यानां विदितचरमेतद्यदुत पाक्षिकं प्रतिक्रमणं श्रीमजिनपादैः प्रणीतं जिनाज्ञानुसारिसाधुसन्ततिहिताय सप्रतिक्रमणधर्मप्रतिपादनादिना तथा च ४५ तदात्वमेवैतस्य, न चास्य श्रूयते परावर्त्तादि, भाषाऽपि च सूत्रानुसारिण्येवात्र, दशवैकालिकादिश्रुतानां यदुत्कीर्त्तनमत्र तत्समग्रश्रुतस्थविरकृतिस्मरणीयताज्ञापनाय लेखनकाले स्थापितमिति नकोऽप्यनाश्वासस्तीर्थानुसारिणां न चर्ते सूरिक्रमविश्रम्भमन्तरा च श्रुतस्थविरप्रत्ययं साक्षाद्वीरविभुव्याख्यातमपि प्रमाणयितुं पार्यते केनापि, तथा चेतराऽऽगमग्रन्थादावपि पश्चात्कालभाव - वृत्तान्ताद्यवेक्ष्यत इति न कोप्यनाश्वासः ४६ पूर्वोक्तादेव हेतोः ४७ पूर्वोक्तानां ।
एवं च विधातारोऽस्य श्रीमद्गणभृत्पादाः सङ्कलितं च लेखनकाल एवंविधतया सूरिसमूहैरेवमेवच यतिप्रतिक्रमणादावप्यवसेयं, तथा च किमिदमे तादृशमभूत्तदेति संशयानास्तीर्थबाह्या निरस्ता श्रद्धानशून्याः, विधानाने हाऽपि निर्णीतप्राय एवानेन गणभृतां विधातृत्वेन, किमन्यद्वा स्यात् प्रतिक्रमणं, आवश्यकं च तेषामपि पूज्यात्मानामावश्यकानुष्ठानमिति सत्तैचास्य तदानीं, तीर्थप्रवृत्तिकालश्चास्य रचनाधारभूतस्तदैव च विधेयमेतदिवसावसान इति कृत्वा, भ्रमणसूत्रं ५२ तत्सहचरं चैतदपि विरचितमिति निर्गीयते, अनभ्युपगमस्तु कैश्चिजिनवरे - न्द्रादीनां तदुदितानां यत्सद्धान्तानामपि च क्रियते इति न सोऽनाश्वासनिदानमवितथश्रद्धावतां, तथा स्वान्यात्मशुद्धिरेवार्थोऽस्य निर्माणे हेतुरनन्तरः, परम्परया तु समेपामेव तीर्थकराध्यानुसारिणामपवर्गावाप्तिरस्त्येवेति ।
*
५
४
५
५.
अवधारणीयं चेदमथ धीधनैरत्र यदुत - यद्यत्स्वीक्रियते तत्र तत्र भवेदेवातिचारजातं कर्मोंदयादिना, स्त्रीकृते च सावद्यत्यागाऽनवद्यासेवने यावज्जीवं वाचंयमैः तत्र सावद्यत्याग एव चोपस्थापनावेलायां पञ्च महाव्रतान्यारोप्य " शिक्षके दृढीक्रियते इति रात्रिभोजनविरमणषष्ठानां महाव्रतानां पञ्चानां प्रतिक्रान्तिः स्वाध्यायस्य चानवद्ययोगमूलरूपस्याऽ " " वाचितादावतिचारजाते प्रतिक्रन्तव्यमिति श्रतोत्कीर्त्तनाऽत्र कीर्त्तिता पर्यन्ते सूरिभिः, ० मध्ये सावद्याद्यकादिस्थानप्रतिक्रमणं तु सावद्यातिचारजातप्रतिक्रमाय सामान्येनेति सामान्यतोऽधिकारनिर्देशः ।
५

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188