SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २८ ] [ प्रस्तावना संग्रह तथाविधो विशेषोऽतिरिच्य दैवसिकपाक्षिके, तत्र दैवसिकप्रतिक्रमणे श्रमणसत्कं प्रतिक्रमणं सव्याख्याकमाविष्कृतपूर्वमेवैतत्कोशाध्यक्षादिभिः, पाक्षिकावश्यके चावश्यकमनगाराणामे ४ तन्मुख्यतयेत्युपक्रान्तं मुद्रितु तैरेव । परं ग्रन्थरत्न ऽत्रोपक्रान्त विचारणीयमेतद्विचारचणानाम् यदुत - कस्कोऽस्य विधाता ? कथास्य रचनाधारभूतः कालः ? कस्मै वा निर्मितं ? के वाऽधिकाराः ? कस्कोऽत्र विवरिता ? कदा कतमस्य भूमण्डलस्य मण्डनं ? इत्यादि प्रश्नवृन्दम् । तत्र प्रथमं तावद्विदितप्रवचनरहस्यानां विदितचरमेतद्यदुत पाक्षिकं प्रतिक्रमणं श्रीमजिनपादैः प्रणीतं जिनाज्ञानुसारिसाधुसन्ततिहिताय सप्रतिक्रमणधर्मप्रतिपादनादिना तथा च ४५ तदात्वमेवैतस्य, न चास्य श्रूयते परावर्त्तादि, भाषाऽपि च सूत्रानुसारिण्येवात्र, दशवैकालिकादिश्रुतानां यदुत्कीर्त्तनमत्र तत्समग्रश्रुतस्थविरकृतिस्मरणीयताज्ञापनाय लेखनकाले स्थापितमिति नकोऽप्यनाश्वासस्तीर्थानुसारिणां न चर्ते सूरिक्रमविश्रम्भमन्तरा च श्रुतस्थविरप्रत्ययं साक्षाद्वीरविभुव्याख्यातमपि प्रमाणयितुं पार्यते केनापि, तथा चेतराऽऽगमग्रन्थादावपि पश्चात्कालभाव - वृत्तान्ताद्यवेक्ष्यत इति न कोप्यनाश्वासः ४६ पूर्वोक्तादेव हेतोः ४७ पूर्वोक्तानां । एवं च विधातारोऽस्य श्रीमद्गणभृत्पादाः सङ्कलितं च लेखनकाल एवंविधतया सूरिसमूहैरेवमेवच यतिप्रतिक्रमणादावप्यवसेयं, तथा च किमिदमे तादृशमभूत्तदेति संशयानास्तीर्थबाह्या निरस्ता श्रद्धानशून्याः, विधानाने हाऽपि निर्णीतप्राय एवानेन गणभृतां विधातृत्वेन, किमन्यद्वा स्यात् प्रतिक्रमणं, आवश्यकं च तेषामपि पूज्यात्मानामावश्यकानुष्ठानमिति सत्तैचास्य तदानीं, तीर्थप्रवृत्तिकालश्चास्य रचनाधारभूतस्तदैव च विधेयमेतदिवसावसान इति कृत्वा, भ्रमणसूत्रं ५२ तत्सहचरं चैतदपि विरचितमिति निर्गीयते, अनभ्युपगमस्तु कैश्चिजिनवरे - न्द्रादीनां तदुदितानां यत्सद्धान्तानामपि च क्रियते इति न सोऽनाश्वासनिदानमवितथश्रद्धावतां, तथा स्वान्यात्मशुद्धिरेवार्थोऽस्य निर्माणे हेतुरनन्तरः, परम्परया तु समेपामेव तीर्थकराध्यानुसारिणामपवर्गावाप्तिरस्त्येवेति । * ५ ४ ५ ५. अवधारणीयं चेदमथ धीधनैरत्र यदुत - यद्यत्स्वीक्रियते तत्र तत्र भवेदेवातिचारजातं कर्मोंदयादिना, स्त्रीकृते च सावद्यत्यागाऽनवद्यासेवने यावज्जीवं वाचंयमैः तत्र सावद्यत्याग एव चोपस्थापनावेलायां पञ्च महाव्रतान्यारोप्य " शिक्षके दृढीक्रियते इति रात्रिभोजनविरमणषष्ठानां महाव्रतानां पञ्चानां प्रतिक्रान्तिः स्वाध्यायस्य चानवद्ययोगमूलरूपस्याऽ " " वाचितादावतिचारजाते प्रतिक्रन्तव्यमिति श्रतोत्कीर्त्तनाऽत्र कीर्त्तिता पर्यन्ते सूरिभिः, ० मध्ये सावद्याद्यकादिस्थानप्रतिक्रमणं तु सावद्यातिचारजातप्रतिक्रमाय सामान्येनेति सामान्यतोऽधिकारनिर्देशः । ५
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy