________________
स्या० भा० प्रस्तावना]
[२७
ननु निष्फलं तर्हि “नो सन्ती"-त्यादि "प्रमायावे"-त्यादि च वर्णनं वर्णन'चणानां सूरीणां गुणस्थानक्रमारोहगमिति चेत् अस्तु भवादृशामधः२२स्थानान्वेषणपरतया श्रीमतामपि तेषां कलङ्कदान नदीष्णानां २४तत्तथा.
वस्तुतस्तु पूज्यपादैरप्रमत्ततामहिमाख्यापकतापरमन्वशासीदं, तथा चाऽऽ-"त्मशोधि कारकाणी' त्यध्याहृत्य व्याख्येयं, तदेवश्च 'आवश्यकानि तत्रात्मशद्धिविधायकानि न सन्ति' इति फलितोऽर्थः स्यात्तत एव चानन्तरमूचिवांसोऽनूचानप्रवरा यदुत-२७"सततध्यानसंयोगाच्छुडिः स्वाभाविकी यत" इति, श्रुत्वा चैवमुपवर्ण्यमानं फलमग्रमत्तताया यो विजह्यात्कश्चित्तानीति२८ शिष्टवान् “प्रमाद्यावे"-त्यादिना, विगतप्रमादस्तु तथानुष्ठानप्रवत्त एव स्यात्नच तस्य तजिहासा भवेत् स्वप्नेऽप्य भव्यानामिवानादिकालीनसंसारजिहासेवावाप्ताश्चाप्रमत्ता एव वन्दनककायोत्सर्गप्रतिक्रमणादिप्रवत्ता अनेक महात्मानोऽपवर्ग शीतलाचार्यभागिनेयाद्या इत्यलमप्रस्तुतेन ।
स्थितं चेदं यदपश्चिमपरमेश्वरपथानुसारिणः कुर्वन्त्येवावश्यकं सामायिकाद्यध्ययनपटकरूपं, तदपि पञ्चधा, देवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिकभेदात् , 3°एतद्भवीय-प्रतिभवीये अपीति तु निरक्षराणां प्रलपितं, यतो नातीतका ठाद्भिन्ने एते, अनागतप्रतिक्रान्तिस्तु नाऽऽप्ताऽऽगममूला “अईयं पउिक्कमामी" त्यादिवचनात् , प्रत्याख्यानरूपापि सा नान्यभवीया स्यात् , न च सात्र परिगणनीयाऽऽवश्यकप्रकरणे, आराधनावसरे तु ३२"जमिहभवियमण्णभविय"-मित्यादि यत्प्रोच्यते प्रवचनवेदिभिस्तत् सामान्यालोचनादिरूपतया विरताविरत प्रभृतिसाधारण्येनैव च, प्रतिक्रान्तं च ४"इह वा भवे अनेसु घे"-त्यनेन तदिति उनार्थवत्ताधिक्यस्यावश्यकयोः, यहा संलेखनाराधनारूपं तदिति नावश्यकता तस्य, प्रतिनियत कालानुष्ठ यत्वाभावात् विधानाभावात् । अविधानेपि प्रायश्चित्तासेवनानेहोऽभावाच्च तथाऽस्य कल्पत्वे तु स्युरेवैते दैवसिकादिवदिति कृतम् प्रसक्तानुप्रसक्तन ।
___ अवश्यं च पञ्चधाप्येतदनुष्ठे यमाद्यान्तिमयति पतिसमाराधनतत्परयतिभिः ४०"दुण्हं पण पडिक्कमणे"-तिप्रवचनवचनात् , नतु 'मध्यमत्रिजगत्पतिमार्गानुसारिवत्तद्वयमेव, वक्रजडानामैदंयुगीनानामेषामेवंविधकर्नव्यहत्वस्यैव समादेशादुपकारकत्वात् अप्रमादवर्धकत्वाच्च ।
किश्च प्रत्यहं देवसिकरात्रिके विधेये अधुनातनैमुनिवरिष्ठः, प्रतिपक्षं प्रतिचतुर्मासं प्रतिसंवत्सरं च तत्काल एव तत्तत् विधेयं नतु द्वाविंशतिजिनपतिमार्गानुगानगारस्तोमवत् ४२ "दुण्हं सय दुकाल”-मित्यादिवचनात् कारणजात एव प्रतिक्रमणद्वयं चेति, श्रावकास्तु वीतरागवानुसारिणोऽपि सर्वविरतानुसारिण इति न तेषां पार्थक्येन प्रतिक्रमणादिव्यवस्थेति तत्त्वं ।।
प्रतिक्रमणेषु च सत्स्वपि कालादिभेदेन पञ्चविधेषु विहायोत्सर्गाऽऽ'दिसामान्यभेदं नकोपि