SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्री आगमोद्धारकालेखित प्रस्तावना संग्रह स्वरूपे श्री आनन्दरत्नाकरे चतुर्थं रत्नं पाक्षिकसूत्रस्योपक्रमः विदितपूर्वमेतद्विदुषां सुतरां यदुत प्रथमान्तिमतीर्थानुसारिणां मुनिवर्याणां नियतैव कल्पमर्यादा, कल्पचाचेलक्यादि प्रभेदेन तत्र तत्र तत्रभवद्भिः सूरिप्रवरैः प्रतिपाद्यत एव दशधा, स्थितिकल्पिकाश्चात एव मुनिपुङ्गवाः, एतादृशः सर्वेप्येत आचेलक्यादयः कल्पास्तृतीयौषधकल्पा एव सामान्येन, तथापि "साम्य- 'तत्प्ररूप कचतुर्विंशत्यात्मस्तव-तदर्शकगुणवत्प्रतिपत्ति-स्वीकृतानवद्यवृत्तिसावद्यनिवृत्ति विषयकातिचारालोचनादिमिथ्यादुष्कृतदाना-शुद्धदुषणदुषकायोत्सर्गावर्गानवाप्ता -- वाप्तगुण स्थैर्यात्मकावश्य विधेयावश्यकानन्यस्वरूपः प्रतिक्रमणकल्पो विशेषेण तथाविधोऽत एव चापश्चिमतीर्थपतिशासनोल्लेखे 'सप्रतिक्रमणो धर्म' इति तत्र तत्र गणभृत्पादै रविकलसाधनसामग्रीसावधानानगारशिरोमणिवर्णनादौ स्पष्टतरं वर्ण्यते । १२ तथा च निष्प्रतिक्रमणाः श्रीमद्वीरजिनपतिशासन वहिर्भूता एवावबोद्धव्याः, सङ्गिरन्ते च केचिदनवद्यपारमर्षतत्वावगमशून्या यदुत - "प्रतिक्रमणं तावत्प्रमत्तान्तानामेव, "समणेण सावएण ये” त्याद्यागमोऽपि तादृशश्रमणानामेव तत्कर्चव्यताख्यायकतयानुगमनीयः, अन्यथा ""नो सन्त्यावश्यकानि षडि" ति वचनमा' वक्ष्यद्विरोधं बाधकमपि चावश्यकाकरणे तेषामेव ये प्रमादपङ्कजालनिमग्नाः, स्पष्टं चैतत् “प्रमाद्यावश्यकत्यागादि” त्यत्रेति ।", परं नैते मीमांसन्ते मांसलमीमांसाजुषोऽपि मीमांसितमभियुक्ततमैः स्पष्टं यदुत - किं समग्रमप्यह: तेऽप्रमत्ततयावतिष्ठन्ते सर्वदा प्रतिक्रमणकाले वा केवलमायात्यप्रमत्तत्वमावश्य ४ कावारकमिति कृत्वा ? प्रथमे प्रथितोऽकीर्त्तिपटहस्तादृशामाप्तागमचाधितवादिनां यनो नान्तमुहूर्त्तमतिवृत्य विद्यतेऽप्रमत्तभावोऽपि प्रमाद्यतो वाऽऽ" वासकानुष्ठानकाले तु "तदवाप्त्यां ̈तदकरणमिति वचनं कस्य न हास्याय स्यात् प्रेक्षावतः १ यतः किमितरेऽनुष्ठानकालेऽप्यावश्यकानां प्रमत्तास्तेषां वा " तथाविधानामनुमतमनुष्ठानमेतेषामभियुक्तैर्भवेदिति विचार्यतां क्षणं निरीक्षणचक्षुष्कैः । १४ १८ २०
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy