Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
वीत० स्तोत्र० प्रस्ता०]
[११ स्पष्टितं च स्पष्टमेतत्स्पष्टतमबोधकिरणैयुगप्रधानप्रवरैः २"श्रीमत्तत्वार्थदीपनप्रदीप्रप्रदीपोपमतत्वार्थ-२२सार्वदिकसाधुकल्पकल्पनकल्पवृहत्कल्पप्रभृतिषु परमार्थपथप्रधानावधारणैः, अन्यथातु २"नाभविष्यदेव २"सकलजन्तुजातासाधारण पातवितरणविज्ञपारमार्थिकतत्वप्रधानासाधारणाचरणावगमनज्योतिरन्तरा विवेकचक्षुरुद्वाटनमैदयुगीनानां २ दुष्पमासमयोद्भूतानेकवाचालकुतीर्थिकवाचालितदिगन्तरालानुपलभ्यदिगालोकानाम् , २ तदन्तरेण च कथङ्कारमभविष्यत् सदाचारसौधसोपानारोहोऽप्या रुढानार्यजनप्रबलासङ्गजातप्रबलानार्याचारप्रभावेऽत्र युगे धर्मजिघृक्षाऽपि ! आस्तां २ तावद् दूरादेवानवगतद्रव्यभावानुकम्पाप्रथनप्रत्यलधर्ममार्ग-कामस्नेहदृष्टिरागमदिरोन्मत्तविहितानेकदुर्गमविध्नसरित्सवोत्तरणाधिगतशमसाम्राज्यसाधनसावधानसर्वसङ्गपरित्यागमहाव्रताङ्गीकारादिविधानं स्याद् 3°भवेयुश्चारम्भपरिग्रहासक्तप्रबलमिथ्यात्वमोहमदिराविह्वलान्तःकरणाविरतिराक्षसीजग्धजीवस्वरुपरमणतासत्तचा एव मुनय इति शासनोन्मूलनमित्यलम् प्रसक्तानुप्रसङ्गन ।
विरचिताश्च वीतरागचरणसरोजकिजल्कमधुकराभैः श्रीवस्तुपाल-कुमारपाल-साधुपेथडादिभिरनेके कोशा ज्ञानयुतिद्युतिकोशा इव भव्याब्जोबोधिनो वीतरागमतानूनमहिमासरिच्छ्रोतः प्रभवपृथ्वीधरायमानाः परञ्च हुण्डावसर्पिणीपञ्चमाररजनीरजनीचरायमाणदुष्टम्लेच्छादिभूमिपैरज्ञानतत्यवष्टब्धहृदयैर्यत्याभासैः श्रावकाभासैश्च तचातत्वविवेचनविमुखतास्वीकृतपुस्तकद्रव्यैर्विनाशिता ज्वालिताः, क्षिप्ता जलेऽतनुप्रवाहे, चिता भित्तौ, हीनाचारैनीताश्च हानि स्वीयानाचारोपद्रवरक्षणबद्धबुद्धिभिः, तथाच शेपाः शेषीभूता एवोद्भावयन्ति शासनोद्भावनामसमप्रभावनाम् ।
___ तत्रापि निःस्सचाद्देशस्य, अतिह्नसीयस्त्वाद्धर्मबुद्धः, परायणत्वान्मानगिर्यारोहे, अनवबुद्धत्वात्तत्वातच्चमार्गस्य, पलायितप्रायत्वाज्ज्ञानस्य, व्याप्तत्वादनार्यभाषारुचेः, तुन्दपरिमृजबहुलत्वाल्लोकानाम् , संस्कारहीनत्वान्मतेः, अरुचेः संस्कृतभाषायाः, पूत्कारप्रायत्वगणनावतारित्वात्प्राकृतग्रन्थानाम-राजभाषावादार्यभाषाया, अनार्यभाषाया अविरतत्वान्नराणाम् , ४ जेमनवारविस्तारितजयपताकिन्वाज्जनानाम् , 'वाद्यशब्दवाचालितत्वाद्यशसः, चन्द्रोदयाद्युपकरणकरणमावोत्तीर्णमतिप्राग्भारत्वादचिमताम् , ४गौर्जर्याद्यपभ्रंशभाषाप्रधानत्वात्पूजाकारणप्रवणोपदेशकानाम् , विरलतमीभतान्येवाधुना सिद्धान्त साधनसिद्धान्तपुस्तकानि, नातः परं विज्ञानामस्ति विषादपदमन्यत् जगत्रयेऽपि ।
४"परं अवलोक्यैतद्विवेकविलोचनेन स्थापयामास गूर्जरदेशीयश्रीसुरतपत्तनीयगुलाबचन्द्राख्यो देवचन्द्रतनुजोऽविगीतसिद्धान्तप्रसोधनपटुप्रसाधितज्ञानदिवाकर-श्रीमद्गणमत्प्रभृतिसकलवाङ्मयवितानविस्तारणलब्धावतारः, स्ववस्तृदेवचन्द्रपादव्यवस्थापितसप्ततिसहस्र(७००००) मानद्रम्मव्यवस्थायां पुस्तकप्रसारणप्रवणान् शेषानपस्तित्कार्यवाहकात्र जीवनचन्द्रनगीनचन्द्रादीन् परस्कृत्य, व्यवस्थाम् तत्र चानेकतरगूढतचप्रकाशनप्रभाकरसिद्धान्तलेखनव्य

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188