Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
१८ ]
[ प्रस्तावनासंग्रहे
१४. रोहणागिरिः खलु रत्नानां विविधजातिगुणसम्पन्नानां सुमहर्घाणां प्रभवभूमिरभिगीयते, तस्य चात्र चिन्तामणिसदृशदेवाधिष्ठित सप्रभाव महिम भ्राजिरत्नस्य प्रभवत्वेन निर्देशविधया पूज्याऽऽगमनदीष्णाः एवं सूचयन्ति यद् श्रुतज्ञानाऽऽगमपठनपाठनाऽऽदि महत्त्वपूर्णशक्तिविकासे प्रत्यलं, ततश्च चमत्कारास्तु वामकरलीलायमानाश्चागमधरस्य । एवञ्च आगमानां सर्वातिशायिमहत्त्वं ख्यापितम् ।
१५. अत्र स्पष्टनामाऽनिर्देशेऽपि सन्दर्भसङ्गतिवशतः पूज्यपादश्रीदेवद्धगरणीनां परामर्शः ।
अथवा योगशास्त्राऽऽदिमताऽनुसारं 'श्रीस्कन्दिलाचार्यपादैरपि पुस्तकारूढत्त्वं श्रुतस्य कारितमितिप्रसिद्धपक्षान्तरस्यापि सङग्रहार्थमनिर्दिष्टनाम्नैव 'पूज्यपादाः' इत्युल्लेखः कृतो भवेत् ।
१६. एतत्पदेन श्रुतस्य पुस्तकाऽऽरोहणप्रसङ्गे श्रुतधरगीतार्थसूरिपादानां सम्मीलनं पाश्र्चात्त्यानां पाठे शङ्काशङ कुव्यालोडनाऽक्षमत्वसूचकं ध्वनितम् ।
१७. तत्त्वज्ञानस्य या श्रीः तस्याः वलभी-वंशपंजररूपा छदिः तस्यां, अर्थात् श्रुतज्ञानस्य पुस्तका - Ssरोहणभूमित्वेनैदंयुगीनभव्यानां श्रुतज्ञानाधाररूपा हि सा नगरी 'वलभी' पदेन सान्वर्थं व्यज्यते ।
१८. विशसितं = कर्त्तितम् प्रबलस्य कर्मबलस्य = कर्मसैन्यस्य केतनं = ध्वजः येनेति विग्रहः ।
१९. अर्हाणां = योग्यानां एतेन गुर्वनुज्ञया धारणाऽऽदिशक्ति-परिणतिनैर्मल्य-विनीताऽऽदिगुणसम्पन्नानामेव पुस्तकानामुपयोग करणेऽधिकृतिरिति व्यज्यते ।
२०. अर्ह = योग्यं, संयमानुकूलमिति यावत ।
एतेन श्रुतज्ञानपठनादिव्याजेन गुर्वननुज्ञया मर्यादाविलोपेन वा मोहवृद्धिहेतुभूतसुन्दरमोहक-रूपरागाऽऽदिमत्पदार्थानां ज्ञानोपकरणव्याजेनाऽपि ग्रहणं न हि युक्तिमदिति पूज्यपादाss ममर्मज्ञसूरिपादाः सूचयन्ति ।
२१. श्रीमाँश्चासौ तत्त्वभूतानामर्थानां दीपने स्वरूपप्रकाशने दीप्तः = तेजस्वी यः प्रदीपस्तस्योपमा यस्यैतादृशश्वासौ तत्त्वार्थश्चेति व्युत्पत्तिरर्थानुसारिणी अत्र सङ्गच्छनीया ।
२२. सर्वदा = सर्वकालम् आशासनव्यवस्थां प्रभवति योऽसौ इत्येतादृशार्थेऽत्र 'सार्वदिक' पदं विज्ञेयम् । २३. परमार्थस्य = मोक्षसाधनारूपस्य यः पंथाः = रत्नत्रयीसमाराधनलक्षणः तत् प्रधानमवधारणं = 1 - निश्चयात्मकसङ्कल्पनं येषां तैरिति विग्रहोत्र समूहनीयः ।
२४. 'नाऽभविष्यवि' - त्यस्याप्रेतन 'चक्षुरूद्घाटन'- मित्यनेन सहाऽन्वयो विज्ञेयः ।
२५. सकलजन्तुजातस्याऽसाधारणसातस्य वितरणे वित्तं = निपुणं, पारमार्थिकतत्त्वप्रधानं च यदसाधारणाचरणम्, तस्यावगमनमवबोधस्तद्रूपज्योतिरन्तरा इति पदसङ्गतिर्विज्ञेया ।
२६. दुष्षमासमये उद्भूताः अनेके वाचालाः ये कुतीर्थिकाः तैर्वाचालितं = मुखरीकृतं यत् दिगन्तरालं, तेना

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188