Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/003007/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेी-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः १२ पटुतमबोधलोचनश्रीमद्धरिभद्रसरिविहितो ॥ योगदृष्टिसमुच्चयः॥ ( स्वोपज्ञवृत्तियुतः) मंशोधका-इटालीनीसुदन्तर्गत-पावीयावास्तव्यः प्राफेसर एल. सुएली. डी. पी एच. प्रकाशकः-देवचन्द्र लालभाई व्यवस्थापत्रकार्यवाहकः-शाह नगीनभाई घेलाभाई. मुम्बय्याम् राब्द २४३९ विक्रमाब्द १९६९ इसुवर्ष १९१२ सिटी प्रेस मुद्रणालय, चंदुलाल छगनलाल इत्यनेन मुदितम्. प्रति ४७५. निष्क्रयः ३ आणकाः Page #2 -------------------------------------------------------------------------- ________________ Page #3 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचन्द लालभाई जव्हेरी. जन्म १९०९ वैक्रमाब्दे कार्तिकशुक्लैकादश्यां सूर्यपुरे. निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्णतृतीयायाम्, मुम्बय्याम्. The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 1906 A. D. Bombay. आ. श्री. कैलास नागर सरि ज्ञान मंदिर श्री महावीर जैन आराधना केन्द्र, कोबा Page #4 -------------------------------------------------------------------------- ________________ Page #5 -------------------------------------------------------------------------- ________________ PREFACE. “ Yoga-drishti-samuchchaya " is a work on the philosophy of Yoga written by one of the most eminent among the Jain writers of the past “Shri Hari. bhadra Suri. " The commentary on it is also written by the author. Another commentary (rearor ) on this work is written by "Shri Sadhuraja Gani," which we hope to bring out in course of time. Shri Haribhadra Suri is well-known as a writer of numerous works of great value and importance. About sixty of his works are available at present. No precise date can be assigned to his various works, but it is certain that the writer flourished in the sixth century of the Vikrama era. We have been able ere this to publish Shoda Shaka by the same author, which forms the “sixth” volume of this series, and we hope to publish his other works as it suits us. We do not think it needful to say anything more regarding this work, as sufficient has been said about it in the introductions, written by Panyasa Shri Anandasagar, and Prof. L. Suali, Ph. D. in Sanscrit, and in English respectively. In conclusion we take this opportunity to express our best thanks to Prof. Suali for editing and writing introduction to this work, as also for going throuýb the proof-sheets, and we are also thankful to Panyasa Shri Anandasagar for writing his learned introduction in Sangcrit. This work is the twelfth" of the series publish. ed by the Trust. November 1912.) Naginbhai Ghelabhai, 325, Javeri Bazar;ļ a trustee, for himself and Borabay. co-trustees. Page #6 -------------------------------------------------------------------------- ________________ ( ४ ) ॥ योगदृष्टयु पोद्घातः ॥ || श्रीगणधरेन्द्राय बोभवतु नतिततयः ॥ अवधारयन्तु अनवधृतधिषणाधिगमाधरीकृतधिषणधिषणास्तत्रभवन्तः शुभवन्तः सैदम्पर्यं प्रकरणमेतदुपदीक्रियमाणममानमानोन्मानवितरणचणमुद्वीक्ष्याक्षताद्यन्तेक्षणीयं यदुत प्रणेतारोऽस्य स्या द्वादज्योतिष्पतिप्रभामचयावाप्ताबाधबोध्यपदार्थप्रकरमतिहतानादिकालीन शुभेतरवासनाभिव्यञ्जकपशुवधागम्यगमाद्यनार्यकार्यकारणबद्ध - कक्षजैमिनीयावाध्यप्रत्यक्षादिप्रमाणप्रचयममितिप्रचेयप्रमेयस मुदयापह्नवप्रचुरप्रेक्षामसरश्रीव्यासादिमतगणाः श्रीश्वेताम्बरगणाग्रणीपदमतिष्ठिताः श्रीमन्तो हरिभद्रसूरयः । प्रादुर्भविष्यत्येव पर्यनुयोजकानां परमपदपदानपट्वन्याबाधबोध मेप्सूनामखिलाखिल बोधराधौरेयमान्या प्रश्नततिरस्मिन्यदुत कदा किमर्थं चाविर्भावो बोभूयाञ्चक्रेऽस्य ग्रन्थचक्रे ? । तत्र प्रथमे तावत्पर्यनुयोगे - " पंचसए पणसीए, विकम'कालाओ झत्ति अत्यमिओ । हरिभदस्ररिसूरो, धम्मरओ देउ मुक्ख सुहं" ५३ | इतिविचारसारसारोदाहारात् स्पष्टं स्पष्टीभवति स्पष्टतमयथार्थेतिहासप्रन्याभ्यासानां वैक्रमीये शतके पष्ठे सूरीणामज्ञानध्वान्तततितिरस्करणतरणीनां भूमण्डलभामिनीतिलकायिता सत्ता । ये चानवबुसिद्धान्ततत्त्वाः संगिरन्ते यदुत न स्यात्तावन्मात्रेऽन्तराले सति व्यवस्थितागमव्यावर्णनं विस्तृततरं, सिद्धान्तपुस्तकारोहकालोऽपि यतः स एवेति भाव्यमनेहसाचीनेनेति, तदयुक्ततमता प्रतिभापथमापतिष्यति तदीयां चतुश्चत्वारिंशदधिकग्रन्थ चतुर्दशशती मवाप्तबोधैर्वार्धक्येऽपि विनिर्मितां प्रायश्चित्तरूपतया स्वीकृतां कृतधीविषयविषयां विलोककानां विवेचकानां व्यक्तं विद्युधव्यक्तीनां सामर्थ्यप्रतिभानं तत्र, तथाच ❤ • Page #7 -------------------------------------------------------------------------- ________________ ( ५ ) नोक्ताशङ्काकणिकापि, अन्यच्च पुस्तकव्यवस्थाया व्यवस्थया विद्वद्भिः संभूय भूयो भव्यभव्याववोध निबन्धनबन्धुरतोद्बोधनेन प्रतिष्ठितत्वान्न तत्कालो लोकोक्तिमसारवनवीन कृतिख्यातिवद्वात्र त्राणकारी तेषां यथायथं । तत्त्वार्थसाधकतत्त्वार्थवृत्ति कृत्सिद्धसेन गणीनां वचनततिमुपजीविनः श्रीमन्त: साधु साधितसाध्या इति तदवक्तमाः स्पष्टतममित्यपि न विचारचणचर्वणीयं यतः " तथाचाह महामतिः " इत्यादिवाक्यवृन्देन वर्णितो महामतिः सिद्धसेनदिवाकरो यथार्थाभिधानः कुविकल्पविश्वच्छायाछेदनच्छेकशतसहस्रग्रन्थग्रयनाबोधतमस्त्यवष्टधान्तःकरण विकासकरण कोविदतमत्वाद्, यतो दरीदृश्यन्त एव पूज्यपादवर्णितानां " प्रसिद्धानां प्रमाणानां" इत्यादीनां वचनवृन्दानां श्रीमद्दिवाकरपादमणीतेष्वेव न्यायावतारादिषु मूलत आविर्भावाः । श्रीमत्सिद्धसेन गणयस्तु द्वितीयाध्यायवृत्तौ संज्ञां व्याख्यायन्तो व्याख्यासुवर्णितवन्तः श्रीनन्दी सूत्रीयां हारिभद्रीं, तथाच द्वयेषां श्रीमदिवाकरगणिपदोपाधीनां सूरीणां पार्थक्यविलोकने स्पष्टं प्रतिभास्यति श्रीमतां तत्कालीनत्वं । यच्च श्रीमत्सिद्धर्षि समकालीनतामाकलय्य स्वान्तेन ध्वस्तज्ञानधाम्ना प्रतिपाद्यते तेषामर्वाचीनता " आचार्यहरिभद्रो मे, धर्मबोधकरो गुरुः " इतिभवप्रपञ्च प्रपञ्चनपटुपमितभवप्रपञ्चां कथामालम्बमानेन, तदपि पूर्वापरविचारशून्यमेव, यतो वक्ति महात्मासौ स्वयं “ अनागतं परिज्ञाय " इति । तथा च नैते समकालीना द्वये । नच चर्च्यमेतत् यदुत गुरुशिष्यादिव्यवहारो नासमकालीन इति । यतो व्यवहारविशेषाणां विशेषतया व्यवहारात् । नचात्र व्यवहारव्याहृतिरस्ति, किन्तु ख्यातात्मन उपकारित्वमदृश्येनापि विहितं महास्मना । नच विवादः स्वयंख्यातरि लब्धख्यातौ ख्यातरि । तथा चोपमितिञ्चयः प्रथमः प्रस्तावः " ये च मम सदुपदेशदायिनो Page #8 -------------------------------------------------------------------------- ________________ भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैतिः समस्तोऽपि मदीयवृत्तान्तः, स्वसंवेदनसंसिद्धमेतदस्माकमिति" __ " देशकालव्यवहितानामपि जन्तनां छमस्थावस्थायामपि वर्तमानाः" तथाच निर्विवादं विद्वद्वन्दवेयं निर्णयमेनमातिष्ठामहे यन्नेते पूज्यपादाः श्रीमतः सिद्धसेनगणेरर्वाचीनाः सिद्धः समकालीनाश्च; किन्तु प्राचीनाः पूर्वोक्तग्रन्थसंमतशरद्वत्तवार्तशरीरवृत्तयः । अत एव च "कतिपयमवचनार्थतारतारकविशेषानुपदिदर्शयिषुः" इति श्रीमदभय. देवमभूक्तं पश्चाशकीयं वाक्यं क्राम्यति मतिमतां मनसि, नेदीयस्त्वात्यूर्वविच्छेदस्य केपाञ्चित्तदर्थानां तैरवधारणादेतोः । अपि चात एवो. दीरितं “पटुतमबोधलोचनतया" इति, तथा च प्रभुपभविष्णुवदनमल. यनिसृतानां प्रकरणमुगन्धीनां कुतः प्रादुर्भावो वरीवर्तमानवोतरागागमाम्बरे तथाविधवचनब जानवलोकनादिति कल्पितं कूटकल्पनाकल्पनकोविदः कुट्टितं निष्टङ्कनीयं । प्रयोजनं सामान्यतो विदितं लोकरूढितत्यभावलब्धप्रभवग्रन्यविशेष ‘सिद्धान्तसारादि ' विलोकनतः प्रायश्चित्तस्य प्रतिपत्तिः पश्चेन्द्रियरचयपरासुकरणकल्पनाकर्तननदीष्णुः, तथापि व्यक्तं "आत्मानुस्मरणाय च" (२०५) अतः परोपकारोऽपि' (२०६) इति समालोकनात् लोककानामात्मान्योपकार इति प्रतिभापथमागमिष्यति । अभिधेयनिर्णये तु यद्यप्यन्यैः “ योगश्चित्तत्तिनिरोधः" (पा १-२) इति लक्षितं, तथापि शून्यतायां मूर्छिताद्यनेकावस्थाया Page #9 -------------------------------------------------------------------------- ________________ (७) मपि तथाभावादन्यथापि च "तदा द्रष्टुः स्वरूपेऽवस्थान" (पा० १३) इति फलानुकूल्याभावाल्लक्षणं लक्षितं लक्षणैकचक्षुष्कैः प्रभुभिर्भावसारं " मोक्षयोजनभावेन " (११) इति वाक्येन ताटगमोक्षानुकूल चेष्टामात्रस्य योगलक्षगलक्ष्यत्वं । तयाच को भेदो भवतां गुप्तेोगेस्योति निरस्ततरां । एपेव चेच्छाशास्त्रसामर्थपर्यन्तानुधावनधौरेयो धारणाऽन्यथा सामर्थ्यस्य व्याघातादित्यलं प्रसक्तानुप्रसक्तेन । अत्राभिधेयस्य योगस्य बालबोधानुसारी विभागश्चिकोर्षित इति प्रथमं "मित्रा तारा बला दीपा स्थिरा काना प्रभापरा" इति नायत उदिश्य दृष्टयोऽटौ तत्स्वरूपं तत्रत्यो बोधः खेदादिदोषापनोदोऽद्वेषादिगुणमाप्तिश्च यथाययं निष्टडिना । विपश्चिद्विज्ञानवेयं चात्र सञ्चारितं चारित्र वषिमाधारैः योगवीजानि, शिष्टानुसारिता, अवश्चकयोगत्रयं, अवेद्यसंवेद्यपदं, भवाभिनन्दिलक्षणानि, कुतर्कनरर्थक्य, शास्त्राधान्यं, सर्वज्ञमताभेदः, माणिवैचित्र्यनिवन्धनदेशनावैचित्र्यं इत्याया चतुर्था दृष्टः, आक्षेपकज्ञान, भवव्याधिक्षयः, नित्यानित्यैकान्तनिरासः, गोत्रकुलमत्तचक्रयोगस्वरूपं, इच्छाप्रत्तिस्थिरसिद्धियमस्वरूपं, इत्यादि चासमाप्तः । संपादितं चैवं श्रीमद्भिर्मोसमभिलाषुकानां गुणस्थानन्दमिव विचारणीयतमं योगाङ्गादिकामनावतां दृष्टयष्टकं क्रमभावि । तथाचास्य वितते. वावश्यकी मुद्रगति आरब्धमेतन्मुद्रापयितुं इटाल्यावविषयनिवासिना विद्वद्वर्येण सुएलीत्याहानेन, चित्रतरं चैतदेव यदुत न यत्र तादृशोभाषाध्यापकाः तद्भाषाप्रचुरपुस्तकमाप्तिस्तत्परिचयश्च धर्मश्चान्य एव बाह्यदृष्टया तथापि प्रस्तुतप्रकरणे तेन परिश्रमः प्रारब्धः, समाप्तश्च निर्वतनः । मुद्रणं तु गौर्जरीयसुरतपत्तनाभिजनश्रेष्ठिवर्यदेवचन्द्रलालभ्रातृनियुक्तपुस्तकोद्धारमात्रोपयोगिलक्षद्रम्मव्यवस्थापत्रनियमितकुसीदव्ययव्यवस्थाकारकवेष्ठि-नगीनभ्रातृभिरनुष्ठितं । प्रान्ते प्रार्थये विगतमार्थनाथान सजनान्मान्यतमान् इदं यदुत ग्रन्थकृतां शोधकस्य मुद्रापास्य Page #10 -------------------------------------------------------------------------- ________________ ( ८ ) चरितं चि निधी सफलीकार्या कृतिस्तेषां यथावदाद्यन्तावलोकनेन तदुक्तानुशीलनेन च यथाशक्तीति सज्जनमनोऽनुसारिसरलसरण्यनुगन्तानन्दोदन्वान् । स्तम्भपार्श्वप्रभोः पादैर्भव्येच्छाकल्पशाखिभिः । समृद्धे स्तम्भतीर्थेऽयमुपोद्घात उपस्कृतः ||१|| वसुरसनन्दनिशेशप्रमिते भाद्रेऽसि त्रयोदश्याम् । आनन्देनानन्दे, यथार्थवार्त्तः समो ह्येषः ॥ २ ॥ Page #11 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः । ॥ नमो जिनाय ॥ २ योगतन्त्रप्रत्यासन्नभूतस्य योगदृष्टिसमुच्चयस्य व्याख्या मारभ्यते । इह चादावेवाचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थं श्लोकसूत्रमुपन्यस्तवान्नवेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन योगं तद्दष्टिभेदतः ॥ १ ॥ इति । तत्र शिष्टानामयं समयो यदुत "शिष्टाः कचिदिष्ट वस्तुनि प्रवर्तमानाः सन्त इदेवतानमस्कारपूर्वकं प्रवर्तन्ते " । अयमप्याचार्यो न हि न शिष्ट इति, अतस्तत्समयप्रतिपालनाय । तथा चोक्तम्शिष्टानामेष समयस्ते सर्वत्र शुभे किल । प्रवर्तन्ते सदैवेष्टदेवतास्तवपूर्वकम् ॥ इत्यादि ॥ तथा " श्रेयांस बहुविघ्नानि भवन्ति । इत्युक्तं चश्रेयांस बहुविघ्नानि भवन्ति महतामपि । abc १ C adds नमः २ c इहैवादावेवाचार्यः ३ क्षे ४ AD कर्मणि ५ A D premit किल ६ Comits from श्रेयांसि down to च Page #12 -------------------------------------------------------------------------- ________________ अश्रेयसि प्रवृत्तानां कापि यान्ति विनायकाः ॥ इति । इदं प्रकरणं तु सम्यग्ज्ञानहेतुत्वाच्छ्योभूतम् । अतो मा भूद्विघ्न इति विघ्नविनायकोपशान्तये । तथा प्रेक्षावतां प्रवृत्यर्थ प्रयोजनादिप्रतिपादनार्थं च । तथा चोक्तम् सर्वस्यैव शास्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तकेन गृह्यते ॥ न चाप्यविषयस्यह? शक्यं वक्तुं प्रयोजनम् । काकदन्तपरीक्षादेस्तत्प्रयोगाप्रसिद्धितः२॥ अस्येदं फलमित्येवं योगः संबन्ध उच्यते । तदुक्त्यन्तर्गतत्वेन न पृथकैश्चिदिष्यते ॥ इत्यादि । तत्र " नत्वेच्छायोगतोऽयोग योगिगम्यं जिनोत्तमम् । वीरं " इत्यनेनेष्टदेवतास्तवमाह; " वक्ष्ये समासेन योगं तदृष्टिभेदतः" इत्यनेन तु प्रयोजनादित्रयमिति श्लोकसूत्रसमुदायार्थः ॥ अवयवार्थस्तु " नत्वा" प्रणम्य "वीरं" इति योगः । कथमित्याह " इच्छायोगतः" इति । क्रियाविशेषणमाह । इच्छायोगेन । शास्त्रयोगसामर्थ्ययोगव्यवच्छेदार्थमेतत् । इष्टव्यवच्छेदश्वायं तदनधिकारित्वेन प्रकरणारम्भेष मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रवृत्तिप्रदर्शनार्थः । एतेषां च त्रयाणामपि योगानां स्वरूपमनन्तरमेव वक्ष्यति । किंवि• १D चाप्यथेविषयस्येह २ A प्रसिद्धतः ३ ) ०त्येव ४ A D श्रीवीरं ५A प्रकरणकारस्येष्ट ६A एषां Page #13 -------------------------------------------------------------------------- ________________ ( ३ ) शिष्टं वीरमित्याह “जिनोत्तमं " इति वस्तुविशेषणम् । इह रागादिजेतृत्वात्सर्व एव विशिष्टश्रुतधरादयो जिना उच्यन्ते । तथा । श्रुतजिनाः, अवधिजिनाः, मनःपर्यायज्ञानजिनाः केवलिजिनाश्च । तेषामुत्तमः केवलित्वात्तीर्थ करत्वाच्च । अनेन भगवतस्तथा भव्यत्वाक्षिप्तवरबोधिलाभगर्भाद्वात्सल्योपात्तानुत्तरपुण्यस्वरूपतीर्थंकर नामक - 1 विपाकफलरूपां परंपरार्थसंपादनीं कर्मकायावस्थामाह । अयमेव विशिष्यते " अयोगं " इति । कायवाङ्मनः कर्म योगः, अविद्यमानयोगोऽयोगः, तम् । अनेन च भगवतः शैलेश्यवस्थोत्तरकालभाविनीं समस्त कर्मावगमरूपां तथाभव्यत्व परिक्षयोद्भूत परमज्ञानसुखलक्षणां कृतकृत्यतया निष्ठितार्थी परमफलरूपां तत्त्वकायावस्थामिति । अत एवाह “ योगिगम्यं " इतेि । योगिनां गम्यो योगिगम्यः, तम् । योगिनो ST श्रुतजिनादयो गृह्यन्ते । अनेनापि भगवतो ज्योगिमिय्यादृष्टिगम्यत्वव्यवच्छेदमाह । एतज्जिज्ञासाया अपि चरमयथाप्रवृत्त करणभावित्वादन्यदा तदनुपपत्तिरिति । "वीरं" इतेि चान्वर्थसंज्ञेयं, महावीर्यविराजनात्तपः कर्मविदारणेन कपायादिशत्रु जयात्केवल श्री स्वयंग्रहणेन र विक्रान्तो वीरः तम् । इत्थमनेन यथाभूतान्यासाधारणगुणोत्कीर्तनरूपत्वाद्भावस्तवस्येष्टदेवतास्तवमा हेति । इष्टत्वं च गुणतो गुणप्रकर्षरूपत्वाद्भगवतः देवतात्वं च परमगत्यवाप्त्यति । " वक्ष्ये समासेन योगं तद्दृष्टिभेदतः" इत्यनेन तु प्रयोजनादित्रयमाह । कथमित्युच्यते " वक्ष्ये " अभिधास्ये "योग" मित्रादिलक्षणं, “समासेन " संक्षेपेण, विस्तरेण तु पूर्वाचार्यैरेवायमुक्तोऽप्युत्तराध्ययनयोग निर्णया दिपु, " १ A C व्यथामवृत्ति ० २ B श्रीरूपग्रहणेन ० ३ B द्वावस्तव रूपस्येष्टदेवता | C०द्वावस्वस्तत्र स्येष्टदेवता ० YA omita . Q Page #14 -------------------------------------------------------------------------- ________________ "तदृष्टिभेदनः" इति योगदृष्टिभेदेन । तदत्र समासतो योगाभिधानं करनन्तरं प्रयोजनम् । परंपराप्रयोजन र तु निर्वाणमेव, शुद्धाशयतस्तथा सत्वहितप्रहत्तेरस्याचावन्ध्यनिर्वाणवीजत्वादिति।अभिधेयं योग एव । साध्यसाधनलक्षणः संवन्ध इति क्षुण्णो ऽयं मार्गः । श्रोतृणां त्वनन्तरप्रयोजनं करणार्थपरिज्ञानं, परंपराप्रयोजनं त्वमीपामपि निर्वाण मेव, प्रकरणार्थपरिज्ञानादौचित्येनात्रै प्रहत्तेरस्याश्चाप्यवन्ध्यनिर्वाणवीजत्वादिति ॥ एवं संपादिनेष्टदेवतास्तवायोजनायभिधाय प्रकरणोपकारक प्रासङ्गिकमभिधातुमाह इहवेच्छादियोगानां स्वरूपमभिधीयते । योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः ॥ २॥ " इहैव " इति प्रक्रमे । किमित्याह "इच्छादियोगानां" इति । इच्छायोगशास्त्रयोगसामर्थ्य योगानाम् । किमतः। आह " स्वरूपमभिधीयते” इति स्वलक्षणमुच्यते । किमर्थमेतदित्याह " योगिनामुपकाराय " इति । योगिनोत्र कुलयोगिनः प्रवृत्तचक्रा गृह्यन्ते व. क्ष्यमाग लक्षणाः, न निष्पन्नयोगा वक्ष्यमाणलक्षणा एव । तेषामत उपकाराभावात् , तदितरेषामेवोपकारार्थम् । उपकारश्चातो योगहृदयावबोधः कायमभिधीयत इत्याह " व्यक्तं " स्पष्टं न चाप्रस्तुतमप्येतदित्याह "योगप्रसङ्गतः" इति मित्रादियोगप्रसङ्गेन प्रसङ्गाख्यतन्त्रयुत्याक्षिप्तमित्यर्थः॥ १ B ( नन्तर० २ C परंपरं प्र० ३ । (' देवतास्तवः प्रयोजना Page #15 -------------------------------------------------------------------------- ________________ (५) इच्छायोगस्वरूपप्रतिपादनायाह -- कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनो ऽपि प्रमादतः । विकलो धर्मयोगो यः स इच्छायोग उच्यते ॥३॥ कर्तुमिच्छोः कस्यचिनियाजमेव तथाविधक्षयोपशमभावेन । अयमेव विशिष्यते । किंविशिष्टस्यास्य चिकीर्षोः " श्रुतार्थस्य" शुतागमस्य, अर्थशब्दस्यागमवचनत्वात् , अर्यतेऽनेन तत्त्वं इति कृत्वा । अयमपि कदाचिदज्ञान्येव भवति, क्षयोपशमवैचिच्यात् । अत आह "ज्ञानिनोऽपि" अवगतानुष्ठेयतत्त्वार्थस्यापीति योऽर्थः । एवंभूतस्यापि सतः किमित्याह " प्रमादतः" प्रमादेन विकथादिना " विकलः" असंपूर्णः कालादिवैकल्यमाश्रित्य "धर्मयोगः " धमव्यापारः " यः" इति बन्दनादिविषयः “स इच्छायोग उच्यते" इच्छाप्रधानत्वं चास्य तथाकालादावपि करणादिति ।। शास्त्र योगस्वरूपाभिवित्सयाहशास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसाविकलस्तथा ॥ ४॥ "शास्त्रयोगस्तु" इति । शास्त्रप्रधानो योगः शास्त्रयोगः प्रक्रमाधर्मव्यापार एव । स पुनः " इह" योगतन्त्रे विज्ञेयः । कस्य १ A omits आह २ D किंलक्षणस्यास्य ३ A वचनता BC अर्थशब्द आगमवचनः 2A प्रमादतः ( यथाशक्त्या० ५ ( तीव्रयोगेन Page #16 -------------------------------------------------------------------------- ________________ (६) कीडगित्याह " यथाशक्ति" शक्त्यनुरूपं " अप्रमादिनः" विकयादिप्रमादरहितस्य । अयमेव विशिष्यते " श्राद्धस्य" तथाविधमोहापगमात्संप्रत्ययात्मिकादिश्रद्धावतः " तीव्रबोधेन " पटुबोधेन हेतुभू. तेन " वचसा" आगमेन " विकलः" अखण्डः, तथाकालादिवेकल्यावाधया; न पटवोऽतिचारदोपज्ञा इति ॥ सामर्थ्ययोगलक्षणमाहशास्त्रसंदर्शितोपायस्तदतिकान्तगोचरः । शक्त्युदेकादिशेषेण सामर्थ्याख्योऽ यमुत्तमः ॥ ५॥ " शानसंदर्भितोपायः" इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात् । “ तदतिक्रान्तगोचरः " इति शास्त्रातिक्रान्तविषयः । कुत इत्याह "शक्त्युकात् " इति शक्तिप्राबल्यात् । “ विशेषेण " इति न सामान्येन शास्त्रातिकान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य । “सामर्थ्याख्योऽयं " इति सामर्थ्ययोगाभिधानोऽयं योगः " उत्तमः" सर्वप्रधानः, तद्भावभावित्वात्, आक्षेपेण प्रधानफलकरणत्वादिति ।। एतत्समर्थनार्यवाहसिद्धयाख्यपदसंप्राप्तिहेतुभेदान तत्त्वतः । शास्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ॥ ६॥ सिद्धयाख्यपदसंप्राप्तिहेतुभेदा मोक्षाभिधानपदसंप्राप्तिकारणविक्षेषाः सम्यग्दर्शनादयः । किमित्याह " न तत्त्वतः " न तत्त्वभावेन १ A सिदा० २ सिद्धा Page #17 -------------------------------------------------------------------------- ________________ ( ७ ७ ) " परमार्थतः " शास्त्रादेवावगम्यन्ते" " । न चैवमपि शास्त्रवैयर्थ्यमित्याह “ सर्वथैवेह योगिभिः " इति सर्वैरेव प्रकारैरिह लोके साधुभिः, अनन्तभेदत्वात्तेषामिति ॥ सर्वथा तत्परिच्छेदे शास्त्रादेवाभ्युपगम्यमाने दोषमाह 16 सर्वथा तत्परिच्छेदात् साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ॥ ७ ॥ ર सर्वथा सर्वैः प्रकारैराक्षेपफलसाधकत्वादिभिः । तत्परिच्छेदाच्छास्त्रादेव सिद्धयाख्यपद संप्राप्ति हेतु भेदपरिच्छेदात् । किमित्याह साक्षात्कारित्वयोगतः " केवलेनेव साक्षात्कारित्वेन योगात्कारणात्, " तत्सर्वज्ञत्वसंसिद्धेः " श्रोतृयोगिसर्वज्ञत्वसंसिदेः, अधिकृतहेतुभेदानामनेन सर्वथा परिच्छेदायोगात् ततश्च " तदा " श्रवणकाल एव " सिद्धिपदातितः " मुक्तिपदाप्तेः, अयोगिकेषालित्वस्यापि शास्त्रादेव सद्भावावगतिप्रसङ्गादिति ॥ ४ स्यादेतत् । अस्त्वेवमपि का नो बाधा, इत्यत्राह। न चैतदेवं यत्तस्मात्प्रातिभज्ञानसंगतः । सामर्थ्ययोगो ऽवाच्यो ऽस्ति सर्वज्ञत्वादिसाधनम् ॥ ८ ॥ / न चैतदेवगनन्तरोदितं शास्त्रादयोगिकेवलित्वावगमे ऽपि सिद्धयसिद्धेः । यस्मादेवं, तस्मात्प्रातिभज्ञानसंगतो मार्गानुसारिप्रकृष्टोहा १ BC शाखादेवागमादेवावगम्यन्ते २ A सिद्धा ३ A परिच्छेदाद्योगात् ४ A सिद्ध० Page #18 -------------------------------------------------------------------------- ________________ ख्यज्ञानयुक्तः । किमित्याह " सामर्थ्ययोगः" सामर्थ्यप्रधानो योगः सामर्थ्य योगः प्रक्रमाद्धर्मव्यापार एव क्षपकश्रेणिगतो गृह्यते; अयं " अवाच्यो ऽस्ति" तद्योगिनो संवेदनसिद्धः " सर्वज्ञत्वादिसाधनं" आक्षेपेणातः सर्वज्ञत्वसिद्धेः । आह । इदमपि मातिभं श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गः । न चैतत्केवलं, सामर्थ्ययोगकार्यत्वादस्य । एवं च सिद्धयाख्यपदसंप्राप्तिहेतुभेदास्तत्वतः१ शास्त्रादेवावगम्यन्त इति ॥ __ अत्रोच्यते । नैतच्छ्रतं न केवलं न च झानान्तरमिति, रात्रि दिवारुणोदयवत् । अरुणोदयो हि न रात्रि दिवातिरिक्तो न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन तदतिरिक्तं न च तयोरेकमपि वक्तुं शक्यते । तत्काल एव तथोत्कृष्टक्षयोपशमवतो भावात् श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान श्रुतं क्षायोपशमिकत्वादशेपद्रव्यपर्यायाविषयत्वान केवलमिति । इष्टं चैतत्तारकनिरीक्षणादिज्ञानशब्दवाच्यमपरैरपीत्यदोषः । सामर्थ्ययोगभेदाभिधानायाहविधायं धर्मसंन्यासयोगसंन्याससंज्ञितः । सायोपशमिका धर्मा योगाः कायादिकर्म तु ॥ ९ ॥ द्विधा द्विभकारो ऽयं सामर्थ्ययोगः । कथमित्याह " धर्मसंन्यासयोगसंन्याससंज्ञितः" इति । धर्मसंन्याससंज्ञा संजातास्येति धर्मः १A सिद्धाख्य० २ D पार्यते ३ । धर्मसंन्यासो यो Page #19 -------------------------------------------------------------------------- ________________ संन्याससंज्ञितः । “तारकादिभ्य इतच" । एवं योगसंन्याससंज्ञा संजातास्यति योगसंन्याससंज्ञितः। संज्ञा चेह तथा संज्ञायत इति कृत्वा स तत्स्वरूपमेव गृह्यते । क एते धर्माः के वा योगा इत्याह "क्षायोपशमिका धर्माः" क्षयोपशमनित्ताः क्षान्त्यादयः, “योगाः कायादिकर्म तु" योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादयः ॥ एवमेष द्विधा सामर्थ्ययोग इति यो यदा भवति सं तदाभिधातुमाइ । दितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्व दितीय इति तदिदः ॥१०॥ द्वितीयापूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्वितीयग्रहणं प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः। अपूर्वकरणं त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु धर्मस्थानेषु वर्तमानस्य तथासंजातपूर्वो ग्रन्थिभेदादिफल उच्यते । तत्र प्रथमेऽस्मिन् ग्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफलः, सम्यग्दर्शनं च प्रशमादिलिङ्ग आत्मपरिणामः । यथोक्तं "प्रशमसंवेगनिर्वेदानुकम्पास्तित्वाभिव्यक्तिलक्षणं तत्त्वार्यश्रद्धानं सम्यग्दर्शनं " इति । यथाप्राधान्यमयमुपन्यासो चारुश्च पश्चानुपूयेति समयविदः । द्वितीये त्वस्मिंस्तथाविधकमंस्थितेस्तथाविधसंख्येयसागरोपमातिक्रमभाविनि किमित्याह " प्रथमस्तात्त्विको भवेत् " इति । प्रथमो धर्मसंन्याससंज्ञितः सामर्थ्ययोगस्तात्त्विकः पारमार्थिको भवेत् , क्षपकश्रेणियोगिनः क्षायोपशमिक १ पाणिनि, ५, २, ३६ २। कारणादयः Comp, Tattvarthadhiyamas 1, 2, and the comir. 3D omits Page #20 -------------------------------------------------------------------------- ________________ क्षान्त्यादिधर्मनिवृत्तेः । अतोऽयमित्यमुपन्यास इति । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसंन्यासायाः प्रव्रज्यायाः ज्ञानयोगप्रतिपत्तिरूपत्वात् । अत एवास्या' भवविरक्त एवाधिकार्यु. क्तः। यथोक्तं “अथ प्रव्रज्याई आर्यदेशोत्पमः, विशिष्टजातिकुलान्वितः क्षीणपायकर्ममलबुद्धिः “दुर्लभं मानुष्यं जन्ममरणनिमित्तं, संपदश्चपलाः, विषया दुःखहेतवः, संयोगो वियोगः, प्रतिक्षणं मरणं, दारुणो विषाकः' इत्यवगतसंसारनैर्गुण्यः', तत एव तद्विरक्तः, प्रतनुकषायः, अल्पहास्यादिः, कृतमः, विनीतः, प्रागपि राजामात्यपौरजनबहुमतः, अद्रोहकारी, कल्याणाः , श्राद्धः, समुपसंपन्नश्च" इति । न ह्यनीदृशो ज्ञानयोगमाराधयति न चेदृशो ना. राधयतीति भावनीयम् । सर्वज्ञवचनमागमः, तत्रायमनिरूपितार्थ इति “आयोज्यकरणादर्घ " इति केवलाभोगेनाचिन्त्यवीर्यतया योज्यं तथा तथा तत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस्तथावस्थानभावे कृतिरायोज्यकरणम् । शैलेश्यवस्थाफलमेतत् । अत एवाह "द्वितीय इति तद्विदः" योगसंन्याससंज्ञितः सामर्थ्ययोग इति तद्विदोऽभिदधति शैलेश्यवस्थायामस्य भावात् । सर्वमिदमागमिकं वस्तु तथा चैतत्संवाद्यर्थम् ? A, marginal addition 99501: R The passage is quoted from Haribhadra's Dharmabindu, IV, 6, with some variations. ३ Dharmabindas reads क्षीणमायकर्ममलः, अत एव वि. मलबुद्धिः ४ ( इत्येव गतं ५ Dharmabindre adds स्थिर: ६ B omits योगसंन्यासं तद्विदो' Page #21 -------------------------------------------------------------------------- ________________ (११) करणं अहापवत्तं अपुव्वमणियट्टिमेव भव्याणं । इयरेसिं पढमं चिय भण्णइ करणं ति परिणामो ॥१।। जा गण्ठी ता पढमं गण्ठि समइच्छओ भवे वीयं । अणियट्टीकरणं पुण सम्मत्तपुरक्कडे जीवे ।। २ ॥ गण्ठि त्ति सुदुन्भेओ कक्खडघणरूढगूढगण्ठि व्व । जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो ॥ ३ ॥ एत्तो विवजओ खलु भिए यरिम सम्मणाणं तु । थोवं पि सुपरिसुद्धं सच्चासम्मोहहेउ ति ॥ ४॥ सम्मत्तंमि उ लढे पलियपुहत्तेण सावओ होइ । चरणोवसमखयाणं सागरसंखन्तरा होन्ति ॥ ५॥ इत्यादि लेशतः परिभावितार्थमेतत् ॥ यत आयोज्यकरणादूर्ध्व द्वितीयः अतस्त्वयोगो योगानां योगः पर उदाहतः। मोक्षयोजनभावेन सर्वसंन्यासलक्षणः ॥ ११ ॥ अत एव शैलेश्यवस्थायां योगसंन्यासात्कारणात् । अयोगो योगाभावः । योगानां मित्रादीनाम् । मध्य इति गम्यते । किमित्याह " योगः परः "२ प्रधानः " उदाहृतः" इति । कथमित्याह "मोक्षयोजनभावेन" हेतुना योजनाद्योग इति कृत्वा स्वरूपमस्याह "सर्वसंन्यासलक्षणः" अधर्मधर्मसंन्यासयोरप्यत्र परिशृद्धिभावादिति॥ एवमेतत्स्वरूपमभिधाय प्रकृतोपयोगमाह । १ A योगादीनां २ D omita Page #22 -------------------------------------------------------------------------- ________________ (१२) एतत्रयमनाश्रित्य विशेषणैतदुद्भवाः। योगदृष्टय उच्यन्ते अष्टौ सामान्यतस्तु ताः ॥१२॥ एतत्रयमिच्छायोगादिलक्षणमनाश्रित्यानङ्गीकृत्य विशेषेणास्मादियमित्येवंलक्षणेन । किमित्याह " एतदुद्भवाः । योगदृष्टय उच्यन्ते" मित्राद्याः " अष्टौ सामान्यतस्तु नाः " दृष्टय इति ।। ताश्चैताःमित्रा तारा बला दीपा स्थिरा कान्ता प्रभा परा नामानि योगदृष्टीनां लक्षणं च निबोधत ॥ १३॥ ___ तत्र मित्रेव मित्रा तारेव तारेत्यादि यथार्थान्येव नामानि योगदृष्टीनाम् । लक्षणं चासां वक्ष्यमाणलक्षणं निबोधत शृणुतेत्यर्थः । इहौघदृष्टिव्यवच्छेदार्थ योगदृष्टिग्रहणमिति ॥ तामभिधातुमाहसमेघामेघराठ्यादौ सग्रहाद्यर्भकादिवत् । ओघदृष्टिरिह ज्ञेया मिथ्यादृष्टीतराश्रया ॥ १४ ॥ इहौघडष्टिानावरणीयादिकर्मक्षयोपशमवैचित्र्याच्चित्रा समेघामेघ च तद्राच्यादि च, आदिशब्दादिधसपरिग्रहः, तस्मिन् । सग्रहादिश्चासौ अर्भकादिश्चेति विग्रहः । प्रथमादिशब्दादग्रहपरिग्रहः', द्वितीयादिशब्दादनकपरिग्रहः । ओघदृष्टिः सामान्यदर्शनं भवाभिनन्दिसत्त्वविषया। मिथ्यादृष्टिश्वेतरश्च मिथ्यादृष्टीतरी, तदाश्रया । काचायुपहतो मिथ्यादृष्टिः, तदनुपहतस्त्वितर इत्यक्षरगमनिका । भावार्थस्तु । एका समेघायां रात्रौ दृष्टिः किंचिन्मात्राहिणी, अपरा त्वमेघायां मनागधिक १ zommits परिग्रहः Page #23 -------------------------------------------------------------------------- ________________ तरग्राहिणीति । आदिशब्दादिवसग्रह इति । तदेका समेघे दिवसे तथापरामेघ इति । अस्ति चानयोर्विशेषः । इयमपि सग्रहस्य द्रष्टः, आदिशब्दादग्रहस्य च । भवत्यनयोरपि विशेषः, चित्रविभ्रमादिमेदात् । इयमप्यर्भकस्य द्रष्टुः, आदिशब्दादनकस्य च । अस्त्यनयोरपि भेदो विवेकवैकल्यादिभेदात् । इयमपि मिथ्यादृष्टेः काचाग्रुपहतलोचनस्य, इनरस्य तदनुपहतलोचनस्येति । यथैप दृष्टिभेद एकस्मिन्नपि दृश्ये चित्रोपाधिभेदात् , तथा पारलौकिकेऽपि प्रमेये क्षयोपशमवैचिच्यतश्चित्रः प्रतिपत्तिभेद इति । एतनिबन्धनो ऽयं दर्शनभेद इति योगाचार्याः। न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां यथाविषयं नयाभेदावबोधभावादिति । प्रत्तिरप्यमीपां परार्थ शुद्धबोधभावेन विनिवृत्ताग्रहतया मैत्र्यादिपारताव्येण गम्भीरोदाराशयत्वात् चारिचरिकसंजीवन्यचरकचारणनीत्येत्यलं प्रसङ्गेन ॥ प्रकृतं प्रस्तुमः । प्रकृता च मित्रादिभेदभिन्ना योगदृष्टिः, इयं चे. त्यमष्टधेति निदर्शनमात्रमधिकृत्याहतृणगोमयकाष्ठाग्निकणदीपप्रभोपमा । रत्नतारार्कचन्द्रामाः सदृष्टेदृष्टिरष्टधा ॥ १५॥ इहाधिकृतदृष्टिबोधः खल्वर्थोक्त एव तृणाग्निकणायुदाहरणसाधर्म्यतो निरूप्यते । सामान्येन सदृष्टेयोगिनो दृष्टिबोधलक्षणाष्टधा भवति । तृणाग्निकणोपमा मित्रायां, गोमयाग्निकणोपमा तारायां, काष्ठाग्निकणोपमा बलायां, दीपप्रभोपमा दीपायाम् । तथाविधप्रकाशमात्रादिनेह साधयं यदाह मित्रायां वोधस्तृणाग्निकणसदृशो भवति, न तत्वतोऽभीष्टकार्यक्षमः, सम्यक्प्रयोगकालं यावदनवस्थानादल्पवीर्यतया पटुस्मृतिबीजसंस्काराधानानुपपत्तेः, ततश्च विकलप्रयोगभावादावतो वन्दनादिकार्यायोगादिति । तारायां तु वोधो गोमयाग्निक Page #24 -------------------------------------------------------------------------- ________________ णसदृशः। अयमप्येवंकल्प एव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात, अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः, तदभावे प्रयोगवैकल्यात् , ततस्तथा तत्कार्याभावादिति । बलायामप्येष काष्ठाग्निकणकल्पो विशिष्ट ईषदुक्तबोधद्वयात् , तद्भवतोऽत्र मनाक् स्थितिवीर्ये, अतः पटुपाया स्मृतिरिह प्रयोगसमये तद्भाचे घार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीपायां त्वेष दोपप्रभातुल्यो विशिष्टतर उक्तवोषत्रयात् , अतोऽत्रोदने स्थितिवीर्ये तत्पद्व्यापि प्रयोगसमये स्मृतिः । एवं भावतो ऽप्यत्र द्रव्यप्रयोगो बन्धनादौ तथा भक्तितो यत्र भेदप्रत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समविदः । स्थिरा तु भिन्नग्रन्थेरेव भवति तदवोधो रत्नभासमानस्तद्भावो प्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत्परितोषहेतुःप्रायेण परिधानादियोनिरिति। कान्तायां तु ताराभासमान एषः । अतः स्थित एव प्रकृत्या निरतिचारमात्रानुष्ठानं शुद्धोपयोगानुसारि विशिष्टाप्रमादसचिवं विनियोगप्रधानगम्भीरोदाराशयमिति । प्रभायां पुनरर्कभा:समानो बोधः, स ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पावसरः, प्रशमसारं सुखमिह । अकिंचिस्कराण्यत्रान्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्संनिधी वैरादिनाशः परानुग्रहकता, औचित्ययोगो विनेयेषु, तथावन्ध्या सक्रियेति । परायां पुनदृष्टिचन्द्रचन्द्रिकाभासमानो बोधः सद्ध्यानरूप एव सर्वदा विकल्परहितो मतः, तदभावनोत्तमं सुखं, आरूढावरोहणवन्नानुष्ठानं प्रतिक्रमणपरोपकारित्वं यथा भव्यत्वं तथा पूर्ववदवन्ध्या क्रियेति । एवं सामान्येन सदृष्टेर्योगिनो दृष्टिरष्टधेत्यष्टप्रकारा । अत्राह । ग्रन्थिभेदे सदृष्टित्वं स च दीर्घोत्तरकालमिति कथं सदृष्टेदृष्टिरष्टधेति। उच्यते । अवन्ध्यसदृष्टिहेतुत्वेन मित्रादिदृष्टीनामपि सतीत्वादिति वर्षोलकनि. पत्ताविक्षुरसकज्जवगुरुकल्पाः खल्वेताः खण्डसर्करामत्स्याण्डवर्षोलकसगाशेनरा इत्याचार्याः । इक्ष्वादीनामेव तथाभवनादिति रुच्यादि Page #25 -------------------------------------------------------------------------- ________________ गोचरा एवैताः, एतेषामेव संवेगमाधुर्योपपत्तेः । इक्षुकल्पत्वादिति नलादिकल्पास्तथाभव्याः, संवेगमाधुर्यशून्यत्वात् । अनेन सर्वथा परिणामिक्षणिकात्मवादे दृष्टिभेदाभावमाह, तत्तथाभवनानुपपत्तेरिति । इयं च सकलयोगिदर्शनसाधारणेति यथाविधानां यथा भवति तथाविधानां तथाभिधातुमाह यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता ॥ १६ ॥ यमादियोगयुक्तानामिति । इह यमादयो योगाङ्गत्वाघोगा उ. च्यन्ते । यथोक्तं " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टावङ्गानि ११ । तदेवं यमादियोगप्रत्यनीकाशयपरिहारेण । एते ऽपि चाष्टावेव । तथा चोक्तम् । खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्गासङ्गैः । युक्तानि हि चित्तानि प्रपञ्चतो वर्जयेन्मतिमान् ।। तदेव तत्परिहारेणापि क्रमेणैपाष्टधेति । एवमद्वेषादिगुणस्थानमिति यत एतान्यप्यष्टावेव । यथोक्तम् । अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका तत्त्वे ॥ एवं क्रमेणैषा सदृष्टिः सतां मुनीनां भगवत्पतञ्जलितदन्तभास्करबन्धुभगवदन्तवादीनां योगिनामित्यर्थः । मता इष्टा । एतत्साकल्यं चर प्रतिदृष्टि दर्शयिष्यामः ।। ? Patanjali Y. S. II, 29. omiti २ Page #26 -------------------------------------------------------------------------- ________________ (१६) सांमतं दृष्टिशब्दार्थाभिधानायाहसच्छुद्धासंगतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः ॥ १७ ॥ "सच्छ्रद्धासंगतो बोधः" इत्यनेनासच्छद्भाव्यवच्छेदमाह । असच्छद्धा चेह शास्त्रबाह्या स्वाभिप्रायतस्तथाविधासदहात्मिका गृह्यते, तवैकल्यात् " सच्छ्रद्धासंगतः ” इति । एवंभूतो बोधोऽवगमः । किमित्याह " दृष्टिरित्यभिधीयते " । दर्शनं दृष्टिरिति कृत्वा नि प्रत्यपायतया । फलत एतामेवाह " असत्पत्तिव्याघातात् " इति तथा श्राद्धतया शास्त्रविरुद्धप्रवृत्तिव्याघातेन । किमित्याह " सत्पत्र त्तिपदावहः " इति शास्त्राविरुद्ध प्रतिपदावहोऽवेद्यसंवेद्यपरित्यागेन वेद्यसंवेद्यपदमापक इत्यर्थः । वेद्यपदरूपत्वेऽपि स्थिरादिदृष्टीनां सामान्यलक्षणत्वादस्यैवमप्यदोष इति । अथवा सत्प्रवृत्तिपदं परमार्थतः शैलेशीपदमिति तदावहत्वे न कश्चिदोष इति ॥ एपा च परिस्थूरभेदादष्टधा, अन्यथा बहुभेदेत्यभिधातुमाहइयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः मूक्ष्मभेदतः ॥१८॥ इयं चानन्तरोदितलक्षणा दृष्टिः। आवरणपायभेदादावरणापगमभेदेन परिस्थूरनीत्या । अष्टविधा स्मृता पूर्वाचार्यः सामान्येन मू. क्ष्मक्षिकामनाहत्य । विशेषास्तु भेदाः पुनः सदृष्टभूयांसोऽतिबहवः सूक्ष्मभेदतोऽनन्तभेदत्वादर्शनादीनां मिथ पदस्थानपतितत्वाभिधानादिति ॥ MSS. दृष्टिरवाभिधीयते Page #27 -------------------------------------------------------------------------- ________________ Hds ( १७ ) इह च दृष्टिसमुच्चयेप्रतिपातयुताश्चाद्याश्चतस्त्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥१९॥ प्रतिपातयुता भ्रंशोपेताः । आद्याश्चतस्रो दृष्टयो मित्रादिरूपाः । एता अपि च प्रतिपातयुता अपि तथा कर्मवैचित्र्यात् , न तु प्रतिपातयुता एव ताभ्यस्तदुत्तरभावादिति नोत्तरास्तथा न स्थिराधास्तेन प्रकारेण प्रतिपातयुता इति । यत एवं सापाया अपि दुर्गतिहेतुत्वेनैतास्ता एता एव । कथामित्याह " प्रतिपातेन " भ्रंशेन नेतरा न २ स्थिरायाः सापाया इति । आह । कथं श्रेणिकादीनामेतदप्रतिपातादपायः । उच्यते । एतदभावोपातकर्मसामर्थेन । अत एवोक्तं प्रतिपातेन तु.संभवमात्रमधिकृत्य "सापाया अपि" । तथापि प्रायोवृत्तिविषयत्वात्सूत्रस्यैवमुपन्यासः। अथवा सदृष्ट्यपाते सत्यप्यपायोऽप्यनपाय एव वज्रतन्दुलवत्पाकेन तदाशयस्य कायदुःखभावेऽपि क्रियानुपपत्तेरित्येवमुपन्यासः । योगाचार्या एवात्र प्रमाणमिति । अतः प्रतिपातेन नेतरा इति स्थितम् ।। इहादिप्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभावतश्चरणस्योपजायते ॥ २० ॥ "प्रयाणभङ्गाभावेन" इति कन्यकुब्जादिगमने ऽनवतरमयाणकं, अनेनापि । निशि रात्रौ । स्वापसमः पुनः स्वापतुल्यस्तु । किमित्याह ? A onits २ A. omits ३ 18 D omit Page #28 -------------------------------------------------------------------------- ________________ (१८) "विधातः" प्रतिबन्धः " दिव्यभावतः" जन्मनः सकाशात् “चरणस्य " चारित्रस्य " : पजायते' तथाविधौदयिकभावयोगेन तदभावे तु पुनस्तत्रैव प्रवृत्तिः स्वापविगमे ऽनवरतप्रयाणे च? कन्यकुब्जगन्तुगमनप्रवृत्तिवत् ॥ इदानीं प्रतिदृष्टिसाकल्येन योगयोजनामुपदर्शयन्नाहमित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चापरत्र तु ॥ २१ ॥ मित्रायां दृष्टौ । दर्शनं मन्दं स्वल्पो बोधः, तृणाग्निकणोद्योतेन सदृशः । यम अहिंसादिलक्षण इच्छादिकस्तथा यथोक्तं "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः "। एते चेच्छाप्रवृत्तिस्थैर्यसिद्धिभेदा इति वक्ष्यति । अखेदो देवकार्यादौ, आदिशब्दाद्गुरुकार्यपरिग्रहः । तथा तथोपनत एतस्मिंस्तथापरितोषान्न खेदोऽत्रापि तु प्रवृत्तिरेव शिरोगुरुत्वादिदोषभावेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषश्चामत्सरश्च । अपरत्र त्वदेवकार्यादौ तथा तत्त्ववेदितया मात्सर्यवीर्यबीजभावे ऽपि तद्भावाङ्कुरानुदयात्तत्त्वानुष्ठानमधिकृत्य कर्मण्यस्याशयः । अतोऽस्यापरत्र न चिन्ता तद्भावेऽपि करुणांशबीजस्यैवेपत्स्फुरणमिति ॥ अस्यां दृष्टौ व्यवस्थितो योगी यत्साधयति तदभिधित्सयाहकरोति योगबीजानामुपादानमिहस्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ॥ २२ ॥ करोति तत्त्वकरणेन । योगबीजानां वक्ष्यमाणलक्षणानाम् । उ. ? A omits Page #29 -------------------------------------------------------------------------- ________________ पादानं ग्रहणम् । इहस्थितो मित्रायां दृष्टो मैत्रो योगीत्यर्थः । किविशिष्टानां योगवीजानामित्याह " अवन्ध्यमोक्षहेतनां" इति । न हि योगबीजं न योगफलं नाम योगश्च मोक्षफल इति । इति योगविदो विशिष्टा एव योगाचार्या विदुरिति जानते ॥ सांप्रतं योगबीजान्युपन्यस्यन्नाहरजिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगवीजमनुत्तमम् ॥ २३ ॥ जिनेषु भगवदर्हत्सु । कुशलं चित्तं द्वेषायभावेन प्रीत्यादिमत् । अनेन मनोयोगवृत्तिमाह । तन्नमस्कार च जिननमस्कार एव च तथा मनोयोगप्रेरित इति । अनेन तु वाग्योगत्तिम् । प्रगामादि च पञ्चाङ्गादिलक्षणं; आदिशब्दान्मण्डलादिग्रहः । “ संशुद्धं " इत्यसं. शुद्धव्यवच्छेदार्थमेतत् , तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगवीजत्वानुपपत्तेः । एतत्सर्वमेव सामस्त्यप्रत्येकभावाभ्यां योगवीजं मोक्षयोजकानुष्ठानकारणम् । " अनुत्तमं " इति सर्वप्रधान विषयप्राधान्यादिति ॥ यदैतद्भवति तत्समयमभिधातुमाह चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । संशुद्धमेतन्नियमानान्यदापीति तदिदः ॥ २४ ॥ " चरमे पुद्गलावर्ते " इति पुद्गलानामावर्तास्तथा तथा तत्त१A C omit २ A योगवीजमुप० ३ Comits चरमे पुद्गलावते 8 AC omit Page #30 -------------------------------------------------------------------------- ________________ ( २०) द्रहणसत्यागाभ्यामिति पुद्गलावाः " एते चानादौ संसारे तथाभव्यत्वाक्षिप्ताः कस्यचित्कियन्तोऽपि" इति वचननामाण्याचरमपदे चरमावर्ताभिधानात् । अत्रापि कारणमाह "तथाभन्यत्वपाकतः" इति तथाभव्यत्वपाकेन ततस्तस्मान्मिथ्यात्वकटुकत्वनिवृत्त्या मनाक् माधुयसिद्धेः। संशुद्धमेतजिनेषु कुशलादि चित्तम् । नियमानियमेन तथाभव्यत्वपाकभावेन वर्मणां तथा, अन्यदा संशुद्धवदसंशृद्धानुपपत्तेः । अत एवाह " नान्यदापि " नान्यस्मिन्नपि काले प्राक् पश्वाच्च क्लिष्टाशयविशुद्धतराशययोगात् । " इति तद्विदः" इत्येवं योगविदोऽभिदधति ॥ एवमस्य समस्तस्य' समयमभिधायैतदभिधित्सया वाहउपादेयधियात्यन्तं संज्ञाविष्कम्भणान्वितम् । फलाभिसंधिरहितं संशुद्धं ह्येतदीदृशम् । २५॥ उपादेयधियोपादयबुद्धया, अत्यन्तं सर्वास्यापोहेन तथापरिपाकात्सम्यग्ज्ञानपूर्वरूपत्वेन । संज्ञाविष्कम्भणान्वितं क्षयोपशमवैचित्र्यादाहा. दिसंज्ञोदयाभावयुक्तम् । संज्ञा आहारादिभेदेन दश । तथा चार्षम् । "कइविहा णं भन्ते सन्ना पन्नत्ता । गोयमा, दसविहा । आहारसना, भयसन्ना, मेहुणसन्ना,परिग्गहसन्ना, कोहसन्ना,माणसन्ना, मायासन्ना, लोभसन्ना, ओहसन्ना, लोगसन्ना" इति । एतत्संपयुक्ताशयानुष्ठानं सुन्दरमप्यभ्युदयाय न निःश्रेयसावाप्तये परिशुद्धयभावाद्भवभोगनिःस्पृहाशयप्रभवमेतदिति योगिनः फलाभिसंधिरहितं भवान्तर्गतफला १ B( ह्यनादौ 2 BC omit Comp, 5710154İ (edited by L. Suali), 9, 60, 1, Page #31 -------------------------------------------------------------------------- ________________ , ( २१ ) भिसंध्यभावेन । आह । असंभव्येव संज्ञाविष्कम्भणे पूर्वोदितफलाभिसंधिः | सत्यमेतत् तद्भवान्तर्गतफलमधिकृत्येह तु तदन्यभवान्ततमपि सामानिकादिलक्षणफलमधिकृत्य गृह्यते तदभिसंधेरसुन्दरस्वात्तदुपात्तस्यास्य स्वतः प्रतिबन्धसारत्वतः । एतद्रहितं चेदमपवर्गसाधनं, स्वमतिबन्धसारं तु तत्स्थानस्थितिकार्य एव तथा स्वभावत्वात्, गौतमभगवद्ध मानवत् एवंभूतस्यैव योगनिष्पादकत्वात् । न ह्यशालिवीजात्कालेनापि शाल्यङ्कुरः । एतत्त्वभिन्नग्रन्थेरपि तदेवं भवति चरमयथाप्रवृत्तिकरणसामर्थ्येन तथाविधक्षयोपशमसारत्वादप्रमत्तयतेः सरागस्यैव वीतरागभावकल्पम् । यथाहुर्योगाचार्याः | योगबीज चित्तं भवसमुद्रनिमग्नस्येषदुन्मज्जनाभोगः तत्सत्यतिशय शैथिल्यकारी प्रकृतेः प्रथम विपियेक्षातदा कृतकारिणी समुज्जासनागमोपायनं च इतस्तदुचितचिन्तासमावेशक्रुद्ध न्थिपर्वतपरमवज्रं नियमाद्भेदकारि भावचारिकपलायनकालघण्ठ। तदपसारकारिणी समासेनत्यादि । अतः संशुद्धं तदीदृशमेतदिति जिनकुशलचिन्तादि । एतच्च तथाविधकालादिभावेन तत्तत्स्वभावतया फलपाकारम्भसदृशमिति । न चेदमेव केवलं योगत्रीजमिति तदन्तराभिधित्सयाहआचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । । वैयावृत्त्यं च विधिवच्छ्रुद्धाशयविशेषतः ।। २६ ।। आचार्यादिष्वप्याचार्योपाध्यायतपस्व्यादिष्वप्येतदेव कुशलचितादि विशुद्धं संशुद्धमेवेत्यर्थः । किंविशिष्टेषु । आह " भावयोगिषु" न द्रव्याचार्यादिष्वधर्मज लक्षणेषु कूटरूपे खल्वकूटबुद्धेरप्यसुन्दरत्वात् । नैतदेव केवलं योगबीजम् । किं तर्हि । “वैयावृत्त्यं च " व्यावृत्त। १ A omits संशुद्धम् Page #32 -------------------------------------------------------------------------- ________________ (२२) भावलक्षणमाहारादिना विधिवत्सूत्रोक्तविधियुक्तं पुरुषायपेक्षयेत्यर्थः । यदाह। पुरिसन्तस्सुवयारं उवयारं च-प्पणो य णाऊणं । कुज्जा चेयावडियं आणं काऊं निरासेसो ॥ इत्यादि । अत एवाह "शुद्धाशयविशेषतः" शुद्धचित्तप्रवन्धविशेषेण ।। अयं च तथाविधकालभावनेत्युक्तमायं वीजान्तरमाह । भवोदेगश्व सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥२७॥ भवोद्वेगश्च संसारोद्वेगश्च जन्मादिरूपतया भवत्यस्य सहजो नेष्टयोगादिनिमित्तः, तस्यार्तध्यानरूपत्वात् । उक्तं च । प्रत्युत्पन्नात्तु दुःखानिदो द्वेप ईदृशः न वैराग्यमित्यादि योगवीजमिति वर्तते ।। तथा द्रव्याभिग्रहणपालनमोषधादिसमादानमधिकृत्या भवाभिग्रहस्य विशिष्टक्षयोपशमभावरूपस्याभिग्रन्थेरसंभवाद्रव्याभिग्रहणम् । तथा सिद्धान्तमाश्रित्यार्थ न तु कामादिशास्त्राणि । किमित्याह "विधिना" न्यायात्तधनसत्प्रयोगादिलक्षणेन । किमित्याह "लेखनादि च" योगबीजमनुत्तममिति ॥ आदिशब्दार्थमाह । लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च ॥२८॥ १ संपदानमयिः Page #33 -------------------------------------------------------------------------- ________________ ( २३ ) लेखना सत्पुस्तकेषु, पूजना पुष्पवस्त्रादिभिः, दानं पुस्तकादेः, श्रवणं व्याख्यानस्य, वाचना स्वयमेव, अस्योद्ग्रहो विधिग्रहणं, अस्यैव प्रकाशना गृहीतस्य भव्येषु, अथ स्वाध्यायो वाचनादिः, अस्यैव चिन्तना ग्रन्थार्थतः, अस्यैव भावनेति चैतद्गोचरैव योगवीजमिति योगः॥ तथा। बीजश्रुतौ च संवेगात्प्रतिपत्तिः स्थिराशया। तदुपादेयभावश्च परिशुद्धो महोदयः ॥ २९ ॥ बीजश्रुतौ च यथोक्तगोचरायां संवेगाच्छदाविशेषाप्रतिपत्तिः " एवमेतत् " इत्येवंरूपा स्थिराशया तथाविधचित्तप्रबन्धविस्रोतसिकाभावेन । तपादेयभावश्व बोजश्रुत्युपादेयभावश्च परिशुद्धः फलौत्सुक्याभावेन महोदयः । त एवानुषङ्गिकाभ्युदयतो निःश्रेयससाधनादिति ॥ एवमेतद्योगबीजोपादानं यथा जायते तथाभिधातुमाह एतद्भावमले क्षीणे प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो महत्कार्य न यत्कचित् ॥३०॥ एतदनन्तरोदितं योगबीजोपादानं भावमले तत्तत्पुहलादिसंबन्धयोग्यतालक्षणे क्षीणे सति न स्तोके किं तु प्रभूतपुद्रलपरावर्ताक्षेपके जायते हि प्रादुर्भवति नृणां पुंसाम् । प्राय एतेऽधिकारिण इति नृग्रहणं, अन्यथा चातुर्गतिकमेतत्पभूत एव क्षीणे नाल्प इत्याह "करोत्यव्यक्तचैतन्यः" हिताहितविवेकशून्यो बालः "न महत्कार्य" अर्थानुष्ठानादि " यत्कचित् " किं तु व्यक्तचैतन्य एवं करोति यदास्य क्षयोऽभिमतः ।। Page #34 -------------------------------------------------------------------------- ________________ (२४ ) तदुपदर्शयन्नाहे चरमे पुद्गलावते क्षयश्वास्योपपद्यते । जीवानां लक्षणं तत्र यत एतदुदाहतम् ।। ३१ ॥ चरमे पुदलावते यथोदितलक्षणे क्षयश्चास्योपपद्यते भावमलस्य जीवानां लक्षणं तत्र चरमे पुद्गलावते यत एतदुदाहृतं वक्ष्यमाणमिति ।। यदुदाहृतं तदभिधातुमाहदुःखितेषु दयात्यन्तमद्देषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाविशेषतः ॥ ३२ ॥ दुःखितेषु शरीरादिना दुःखेन दयात्यन्तं सानुशयत्वमित्यर्थः । अद्वेषोऽमत्सरः । केष्वित्याह " गुणवत्सु च " विद्यादिगुणयुक्तेषु । औचित्यात्सेवनं चैव शास्त्रानुसारेण सर्वत्रैव दीनादावविशेषतः सामान्येन ॥ यतश्चैवमतःएवंविधस्य जीवस्य भद्रमूर्तेर्महात्मनः । शुभो निमित्तसंयोगो जायतेऽवञ्चकोदयात् ॥३३॥ एवंविधस्यानन्तरोदितलक्षणयोगिनो भद्रमूर्तः प्रियदर्शनस्य महात्मनः सवीर्ययोगेन । किमित्याह "शुभः" प्रशस्तः । क इत्याह " निमित्तसंयोगः" सद्योगादिसंयोगः सद्योगादीनामेव निःश्रेयस. साधननिमित्तत्वात् । जायते । कुत इत्याह " अवश्चकोदयात् " वक्ष्यमाणसमाधिविशेषोदयादित्यर्थः । १ A तदादर्शयन्नाह Page #35 -------------------------------------------------------------------------- ________________ ( २५) "अवश्चकोदयात्" इत्युक्तं; अत एतत्स्वरूपप्रतिपिपादयिषयाहयोगक्रियाफलाख्यं यच्छ्रयते ऽवञ्चकत्रयम् । साधनाश्रित्य परममिषुलक्ष्यक्रियापमम् ॥ ३४ ॥ योगक्रियाफलाख्यं यस्माच्छ्रयते ऽवञ्चकत्रयमागमे “ योगावश्वकः क्रियावश्चकः फलावश्चकः" इति वचनात् । अव्यक्तसमाधिरेवैष तदधिकारे पाठात , चित्रक्षयोपशमतस्तथाविध आशयविशेष इति । एतच साधनाश्रित्य साधवो मुनयः परममवञ्चकत्रयं स्वरूपतस्त्वेतदिधुलक्ष्यक्रियोपमं शरस्य लक्ष्यक्रिया तत्प्रधानतया तदविसं. वादिन्येव, अन्यथा लक्ष्यक्रियात्वायोगात् । एवं साधूनाश्रित्य योगावश्वकस्तयोगाविसंवादी । एवं तद्वन्दनादिक्रिया तत्फलं चाश्रित्यैष एवमेव द्रव्यत इति ॥ - एतदपि यनिमित्तं तदभिधातुमाहएतच्च सत्प्रणामादिनिमित्तं समये स्थितम् । अस्य हेतुश्व परमस्तथाभावमलाल्पता ॥ ३५॥ एतच्चावञ्चकत्रयं सत्यगामादिनिमित्तं साधुवन्दनादिनिमित्तनित्यर्थः । समये स्थितं सिद्धान्ते प्रतिष्ठितम् । अस्य सत्मणामादेहेतुश्च परमः । क इत्याह " तथाभावमलाल्पता" कर्मसंवन्धयोग्यताल्पता रत्नादिमलापगमे ज्योत्स्नादिप्रवृत्तिवदिति योगाचार्याः ॥ प्रकृतवस्तृपोद्वलनाय व्यतिरेकसारमाहनास्मिन् घने यतः सत्सु तत्प्रतीतिर्महोदया। किं सम्यग् रूपमादने कदाचिद्मन्दलोचनः ॥३६॥ Page #36 -------------------------------------------------------------------------- ________________ ( २६ ) नास्मिन् भावमले घने प्रबले यतः सत्सु साधुषु तत्प्रतीतिः । किंविशिष्टेत्याह " महोदया" अभ्युदयादिसाधकत्वेन । प्रतिवस्तूप मयाऽमुमेवार्थमाह " किं सम्यग् रूपमादत्ते " लक्षणव्यञ्जनादिकात्स्न्येन " कदाचिद्मन्द लोचनः " इन्द्रियदोषान्नादत्त एवेत्यर्थः ॥ अधुनान्वयसारमधिकृत वस्तु समर्थनायैवाहअल्पव्याधिर्यथा लोके विकारैर्न बाध्यते । चेष्टते चेष्टसिद्ध वृत्त्यैवायं तथा हिते ॥ ३७ ॥ अल्पव्याधिः क्षीणप्रायरोगः । यथा लोके कश्चित्तद्विकारै: कवादिभिर्न वा यते व्याघेरल्पत्वेन न वाध्यते । किं चेत्याह “ चेष्टते च " राजसेवाद" " कुटुम्बारिपालनाय । एष दृष्टान्तोऽयमर्योपनय" व " धमयोनिरूपया । एतच्च " धृतिः श्रद्धा सुविविदिषा विज्ञप्तिरिति धर्मयोनयः " इति वचनात् । तदनया हेतुभूतयायं योगी तथाल्पव्याधि पुरुषव स्थिरा कार्यवृत्तिनिरोधेन हिते हितविषये दानादौ चेष्टत इति || एतदनन्तरोदितमखिलमेव यदोपजायते तदभिधातुमाहयथाप्रवृत्तिकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ||३८|| यथाप्रवृत्तिकरणे माग्व्यावणितस्वरूपे । चरमे पर्यन्नवर्तिनि । अल्पमलत्वतः कारणात् । आसन्नग्रन्थिभेदस्य सतः समस्तमनन्तरोदितं जायंत द एतदिति ॥ अथवा चरमं यथाप्रवृत्तमिदमपूर्वमेवेत्याहअपूर्वासनभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ ३९ ॥ Page #37 -------------------------------------------------------------------------- ________________ (२७ ) अपूर्वासनभावेन हेतुना । तथा व्यभिचारवियोगतः कारणात् । तत्त्वतः परमार्थेनापूर्वमेवेदं चरमं यथाप्रत्तमिति योगविदो विदुरेवं योगविदो जानत इति भावः ।। इहैव गुणस्थानयोजनमाहप्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥४०॥ प्रथममायं यद्गुणस्थानं मिथ्यादृष्ट्याख्यं सामान्येनोपवर्णितमागमे "मिच्छदिही सा सायणाइ" इति वचनात् । अस्यां तु तदवस्थायामित्यस्यामेव मुख्य निरुपचरितम् । कुत इत्याह "अन्वर्थयोगतः" एवगुणभावेन गुणस्थानोपपत्तेरित्युक्ता मित्रा ॥ अधुना तारोच्यते । तदत्राहतारायां तु मनाकस्पष्टं नियमश्च तथाविधः । अनुढेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥४१॥ तारायां पुनदृष्टौ । किमित्याह " मनाक्स्पष्ट दर्शनमिति, अतः “नियमश्च तथाविधः" शौचादिरिच्छादिरूप एवं "शौचसंतोपतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति वचनात् । तदत्र द्वितीययोगात्पतिपत्तिरपि मित्रायां खेतदभाव एव तथाविधक्षयो. पशमाभावात् । तथानुद्वेगो हितारम्भे पारलौकिके ऽवेदसहितः, अत एव तत्सिद्धिः । तथा जिज्ञासा तत्त्वगोचरा द्वेषत एव तत्प्रतिपत्त्यानुगुण्यमिति ॥ अस्यां दृष्टौर यदन्यद्गुणजातं भवति तदाह१ Patanjali Y. S. II, 32 २ A. omits Page #38 -------------------------------------------------------------------------- ________________ भवत्यस्यां तथाच्छिन्ना प्रीतिर्योगकथास्वलम् । शुद्धयोगेषु नियमाद्वहुमानश्च योगिषु ॥ ४२ ॥ भवत्यस्यां दृष्टौ । तथा तेन प्रकारेण । अच्छिन्ना भावप्रतिबन्धसारतया । प्रीतिर्योगकथास्वलमत्यर्थ तथा शुद्धयोगेष्वकल्कमधानेषु नियमेन बहुमानश्च योमिषु भवति ॥ न केवलमयम् । कि चयथाशक्तयुषचारश्च योगवृद्धिफलप्रदः। योगिनां नियमादेव तदनुग्रहधीयुतः ॥ ४३ ॥ यथाशक्त्युक्ते शक्त्यौचित्येनेत्यर्थः । किमित्याह " उपचारश्च" ग्रासादिसंपादनेन यथोक्तयोगिविति प्रक्रमः । स एव विशिष्यते । "योगटद्धिफलमदः" तत्सम्यक्परिणामेन “योगिनां नियमादेव" नान्यथा तद्वियातहेतुरिति "तदनुग्रहधीयुतः" उपचारसंपादकानुग्रहबुद्धियुक्त इत्यर्थः ॥ अयमेव विशिष्यतेलाभान्तरफलश्चास्य श्रद्धायुक्तो हितोदयः। क्षुद्रोपद्रवहानिश्च शिष्टसम्मतता तथा ।। ४४ ॥ लाभान्तरफलश्चास्योपचारकर्तुः, शुद्धोपचारपुण्यात्तथाविपाकभावात् । अत एव श्रद्धायुक्त उपचार इति प्रक्रमः । हितोदयः पूर्ववत् । क्षुद्रोपद्रवहानिश्च भवति । अत एव व्याध्यादिनाशः। शिष्टसम्मतता तथा । अत एवास्यातिसुन्दरो बहुमानः ॥ तथा । mamrpan ? B omits Page #39 -------------------------------------------------------------------------- ________________ ( २९) भयं नातीव भवजं कृत्यहानिन चोचिते। तथानाभोगतो ऽप्युबैर्न चाप्यनुचितक्रिया ॥ ४५ ॥ भयं नातीव भवनं तथाशुभापत्तेः। कृत्यहानिर्न चोचिते सस्मिन्नेव धर्मादरात् । तथानाभोगतो ऽप्युच्चैरत्यर्थं न चाप्यनुचितक्रिया सर्वत्रैव ॥ एवंकृत्ये ऽधिकेऽधिकगत जिज्ञासा लालमान्विता । तुल्ये निजे तु विकले संत्रासो देषवर्जितः ॥ ४६॥ कृत्ये ध्यानादौ । अधिके स्वभूमिकापेक्षया । अधिकगत आचार्यादिवतिनि । जिज्ञासास्य । कथमेतदेवमिति " लालसान्विता" अभिलाषातिरेकयुक्ता । तुल्ये कृत्ये वन्दनादौ निने त्वात्मीय एव विकले कार्योत्सर्गकरणादिना संत्रासो भवत्यात्मनि हानिविरोधको ऽहमिति द्वेषवर्जितो ऽधिके ऽधिकृतदृष्टिसामर्थ्यादिति ॥ दुःखरूपो भवः सर्व उच्छेदो ऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साशेषा ज्ञायते कथम् ॥४७॥ दुःखरूपो भवः सर्वो जन्मजरादिरूपत्वात्। उच्छेदोऽस्य भवस्या कुतो हेतोः । क्षान्त्यादेः । कथं केन प्रकारेण । चित्रा सतां मुनीनां प्रवृत्तिश्चैत्यकर्मादिना प्रकारेण साशेषा ज्ञायते कथं, तदन्यापोहतः ॥ यतःनास्माकं महती प्रज्ञा सुमहान शास्त्रविस्तरः। शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥४०॥ ? A omito Page #40 -------------------------------------------------------------------------- ________________ (३०) नास्माकं महती प्रज्ञा संवादिनी स्वप्रज्ञाविकल्पिते विसंवाददर्शनात् । तथा सुमहान् शास्त्रविस्तरः, तत्तत्पत्तिहेतुत्वात् । । एवं शिष्टाः साधुजनसम्मताः प्रमाणमिह व्यतिकरे तस्मादित्येवमस्यां दृष्टौ मन्यते सदा यतैराचरितं तदेवर यथाशक्ति सामान्येन कर्तु युज्यत इत्यर्थः॥ उक्ता तारा । अधुना वलोच्यते । तदत्राहसुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥ १९ ॥ सुखासनसमायुक्तमिति स्थिरमुखासनवत् । वलायां दृष्टौ दर्शनं प्रागुक्तं दृढं काष्ठादिकणोपमामिति कृत्वा । परा च तत्वशुश्रूपा जिज्ञासा संभवति । न क्षेपो योगगोचरः, तदनुद्वेगज इति कृत्वा ।। अमुमेवार्थमाह । तस्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते । तदभावाच सर्वत्र स्थितमेव सुखासनम् ॥ ५० ॥ तस्यामधिकृतदृष्टौ सत्यामसत्तृष्णा स्थितिनिबन्धनातिरिक्तगो. चरा प्रकृत्यैव स्वभावेनैव प्रवर्तते, विशिष्टशुद्धियोगात् । तदभावा चासत्तृष्णाभावाचः सर्वत्र व्याप्त्या स्थितमेव मुखासनं तथापरिभ्र मणाभावेन ॥ एतदेवाह ? A तत्तत्पत्तिहेतुभूतः। २ B omits ३ C onjts असत्तृष्णाभावाच Page #41 -------------------------------------------------------------------------- ________________ ( ३१ ) अवरापूर्वकं सर्वे गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥ ५१ ॥ 44 अत्वरापूर्वकमनाकुलमित्यर्थः । सर्व सामान्येन । किं तदित्याह गमनं " देवकुलादौ " कृत्यमेव वा " वन्दनादि " प्रणिधानसमायुक्तं " मनःप्रणिधानपुरःसरं " अपायपरिहारतः " दृष्ट्याद्यपायपरिहारेण || उक्तं दर्शनम् । अस्यैव शुश्रूषामाह । । कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ॥ ५२ ॥ कान्तकान्तासमेतस्य कमनीयप्रियतमायुक्तस्य दिव्यगेयश्रुतौ यथा किंनरादिगेयश्रुतावित्यर्थः । यूनो वयःस्थस्य भवति शुश्रूषा श्रोतुमिच्छा तहाचरैव तथास्यां दृष्टौ व्यवस्थितस्य सतस्तत्त्वगोचरा तत्रविषयैव शुश्रूषा भवति ॥ इयं चैवंभूतेत्याहबोधाम्भः स्रोतसचैषा सिरातुल्या सतां मता । अभावे ऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ।। ५३ ॥ atarataar aaiदकप्रवाहस्य चैषा शुश्रूषा सिरातुल्यावन्ध्याक्षयतहीजकल्पतया सतां मता मुनीनामिष्टा । अभावे ऽस्याः शुश्रूषायाः । किमित्याह " श्रुतं व्यर्थ " श्रमफलम् । किंवदित्याह असिरावनिकूपवत् १२ असिरावनौ पृथिव्यां कृपखननं, अतत्खनमेवात्फलत्वादिति || I 44 १ B omits B omits Page #42 -------------------------------------------------------------------------- ________________ ( ३२ ) इहैव व्यतिरेकमा । श्रुताभावे ऽपि भावेऽस्याः शुभभावप्रवृत्तितः। फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ ५४॥ _श्रुताभावेऽपि श्रवणाभावेऽपि भावे ऽस्याः शुश्रूषायाः किमित्याह "शुभभावप्रवृत्तितः" तद्भावस्यैव शुभत्वात् ? " फलं कर्मक्षयाख्यं स्यात् " वचननामाण्येन । एतच परबोधनिबन्धनं प्रधानवोधकारणं, वचनप्रामाण्यादेव ।। योगे ऽक्षेपगुणमाह । शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥ ५५ ॥ शुभयोगसमारम्भे तथाविधध्यानादौ न क्षेपो ऽस्यामधिकृतदृष्टी सत्यां कदाचन भवति । उपायकौशलं चापि तथाविधदेशाध्यासनादि चारु शोभनं तद्विषयं शुभयोगसमारम्भविपयं भवेदिति ॥ तथास्यामेव दृष्टावभ्युच्च यमाह । परिष्कारगतः प्रायो विधातोऽपि न विद्यते । अविघातश्च सावधपरिहारान्महोदयः ॥ ५६ ॥ परिष्कारगत उपकरणात इत्यर्थः। प्रायो वाहुल्येन । विधातो ऽपोच्छाप्रतिबन्धो न विद्यत अस्पो सत्यामिति । अविधातय किंभूतो भवतीत्याह "सावयपरिहारात् " प्रतिषिद्वपरिहारेण "महोदयः" अभ्युदयनिःश्रेयसहेतुरित्यर्थः ॥ उक्ता बला । सांगतं दीप्रामाह । ? 8 शुभभावत्वात् २ C स्यात्कदाचन Page #43 -------------------------------------------------------------------------- ________________ प्राणायामवती दीपा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ॥ ५७ ॥ प्राणायामवती चतुर्थाङ्गभावतः, भावरेचकादिभावात् । दीपा चतुर्थी दृष्टिः। न योगोत्थानवती, तथाविधप्रशान्तवाहितालाभेन । अलमत्यर्थम् । तत्त्वश्रवणसंयुक्ता शुश्रूषाफलभावन । सूक्ष्मबोधविवजिता निपुणबोधरहितेत्यर्थः ॥ भावरेचकादिगुणमाह । प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थ न धर्म प्राणसंकटे ॥५०॥ पाणेभ्योऽपीन्द्रियादिभ्यो गुरुधर्मो महत्तर इत्यर्थः । सत्यामस्यामधिकृतदृष्टौ दीपायामसंशयम् । एतत्कुत इत्याह "प्राणांस्त्यजति धर्मार्थ" तत्त्वोत्सर्गप्रवृत्त्या "न धर्म प्राणसंकटे" त्यजति तत्वोत्सर्गप्रवृत्त्यैव ।। अत्र प्रतिबन्धनमाह। एक एव सुहृद्धर्मो मृतमप्यनुयाति यः। शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥ ५९॥ एक एव सुहृद्धर्मो नान्यः, तल्लक्षणयोगात् । तदाह "मृत. मप्यनुयाति यः" इति " शरीरेण समं नाशं" व्ययं " सर्वमन्यत्तु गच्छति " स्वजनादि ॥ इत्थं सदाशयोपेतस्तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्म बलादेव प्रपद्यते ॥६० ॥ इन्थमेवं सदाशयोपेतः संस्तत्त्वश्रवणतत्पर एतत्प्रधानः प्राणेभ्यः Page #44 -------------------------------------------------------------------------- ________________ ( ३४ ) परमं धर्म बलादेव प्रपद्यते, तत्स्वभावत्वात् । स्वत एव न योगो त्थानमस्य ।। तच्छ्रवणगुणमाह । क्षाराम्भस्त्यागतो यन्मधुरोदकयोगतः । बीजं प्ररोहमाधत्ते तद्वत्तत्त्वश्रुतेर्नरः ॥ ६१ ॥ क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः, तन्माधुर्यानवगमेऽपि स्पष्टसंचित्या बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः, तत्त्वश्रुतेर चिन्त्य - सामर्थ्यान्महाप्रभावत्वादिति ॥ अस्यैव भावार्थमाह । क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ॥ ६२ ॥ क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतोऽतत्त्वश्रवणरूपोऽपि मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा तदङ्गतया तत्त्वश्रुतिरपीति ॥ अस्या एव गुणमाह । अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकयहितावहम् || ६३ || अतस्त्वित्यत एव तच्छ्रुतेः' । किमित्याह “नियमादेव कल्याणं” परोपकारादि " अखिलं नृणां " तत्वश्रुतेस्तथाविधाशयभावात् । तदेव विशिष्यते । गुरुभक्तिसुखोपेतं कल्याणं तदाज्ञया तत्करणस्य तत्त्वतः कल्याणत्वात् । अत एवाह "लोकद्वय हितावहं " अनुबन्धस्य गुरुभक्तिसाध्यत्वादिति ॥ १ B तत्रश्रुतेः Page #45 -------------------------------------------------------------------------- ________________ ( ३५ ) अस्या एव विशेषतः परं फलमाह । गुरुभक्तिप्रभावेन तीर्थदर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥ ६४ ॥ गुरुभक्तिमभावेन गुरुभक्तिसामर्थेन तदुपात्तकर्मविपाकत इत्यर्थः । किमित्याह " तीर्थदर्शनं मतं " भगवद्दर्शनमिष्टम् । कथमित्याह " समापत्त्यादिभेदेन " समापत्तिर्ध्यानतः स्पर्शना तया; आदिशब्दात्तन्नामकर्मबन्धविपाकतद्भावापच्त्युपपत्तिपरिग्रहः । तदेवं विशिord " निर्वाणैकनिबन्धनं " अवन्ध्यमोक्षकारणमसाधारणमित्यर्थः । इह प्रतिषिद्धसूक्ष्मबोधलक्षणाभिधित्सयाहसम्यग्वादिभेदेन लोके यस्तत्त्वनिर्णयः । वेद्यसंवेद्यपदतः सूक्ष्मबोधः स उच्यते ॥ ६५ ॥ सम्यगविपरीतेन विधिना हेत्वादिभेदेनेति हेतुस्वरूपफलभेदेन लोके विद्वत्समवाये यस्तत्त्वनिर्णयः परमार्थपरिच्छेदः । कुत इत्याह “ वेद्यसंवेद्यपदतः " वक्ष्यमाणलक्षणाद्वेद्यसंवेद्यपदात्' । सूक्ष्मबोधः स उच्यते निपुण इत्यर्थः ॥ इहैव विशेषतः प्रवृत्तिनिमित्तमाह । भवाम्भोधिसमुत्तारा कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ||६६ || भवाम्भोधिसमुत्ताराद्भव समुद्रसमुत्तारणाल्लोकोत्तरमवृत्तिहेतुतया । तथा कर्मवज्रविभेदतः कर्मवज्रविभेदेन विभेदतश्च पुनर्ग्रहणतः । ज्ञेयव्याप्तेश्च कार्त्स्न्येनानन्तधर्मात्मकतत्त्वप्रतिपत्त्या सूक्ष्मत्वं निपुणत्वं १ C omits संवैध Page #46 -------------------------------------------------------------------------- ________________ ( ३६ ) बोधस्य नायमत्र तु नायं सूक्ष्मो बोधः । अत्र दीप्रायां दृष्टावधस्त्यासु च तत्त्वतो ग्रन्थिभेदासिद्धेरिति ॥ अवेद्यसंवेद्यपदं यस्मादासु तथोल्वणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ॥ ६७ ॥ अवेद्यसंवेद्यपदं वक्ष्यमाणलक्षणं यस्मादासु मित्राद्यासु चतसृषु दृष्टिषु तथोल्वणं तेन नित्यादिपदप्रकारेण प्रवलमुद्धतमित्यर्थः । पक्षिच्छायाजलचरप्रवृत्त्याभं पक्षिच्छायायां तद्धिया जलचरमवृत्त्याकारम् । अतः परं वेद्यसंवेद्यपदमासु न तात्त्विकमित्यर्थः, ग्रन्थिभेदासिद्धेरित्येतदपि चरमासु चरमयथाप्रवृत्त करणेनैवेत्याचार्याः || किमेतदेवमित्याहअपायशक्तिमालिन्यं सूक्ष्मबोधविबन्धकृत् । ततो ऽयं तत्तत्त्वे कदाचिदुपजायते ॥ ६८ ॥ अपायशक्तिमालिन्यं नरकाद्यपायशक्तिमलिनत्वम् । किमित्याह " सूक्ष्मबोधविबन्धकृत " अपायहेत्वा सेवन क्लिष्टबीजभावेन । नैतद्वतो sपायशक्तिमालिन्यवतो ऽयं बोधः । तस्मात् । " तत्त्वे " इति तत्त्वविषये । कदाचिदुपजायते, अवन्ध्यस्थूर बोधबीजभावादित्यर्थः ॥ यस्मादेवम् अपायदर्शनं तस्माच्छ्रुतदीपान तात्त्विकम् । तदाभालम्बनं त्वस्य तथा पापे प्रवृत्तितः ।। ६९ ।। अपायदर्शनं दोषदर्शनं तस्माच्छ्रुतदीपादागमान तास्विकं न पारमार्थिकमस्येति योगः । तदाभालम्बनं तु परमार्थाभाविषयं पुनर्भ १ B adds नरकाद्यपायशक्तिमालिन्यं Page #47 -------------------------------------------------------------------------- ________________ (३७) वति भ्रान्त्या । कुत इत्याह " तथापाये प्रवृत्तितः" तथा चित्रानाभोगप्रकारेण पापे प्रवृत्तेरिति । अतोऽन्यदुत्तरास्वस्मात्पापे कर्मागसो ऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ॥७॥ अतोऽन्यदुत्तरास्विति प्रक्रमादवेयपदाइन्यवेद्यसंवेद्यपदम् । उतरास्विति स्थिराधासु चतसृषु दृष्टिषु । अस्माद्वेद्यसंवेयपदात्पाएकमंणि हिंसादौ कर्मागसो. ऽपि हि कर्मापराधादपि । किमित्याह "तालोहरदन्यासतुल्या तिः" संवेगसारापाये कचियदि भवति प्रायस्तु न भवत्येवेति । किमित्येवंभूतेत्याहवेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पनर्दर्गत्ययोगतः ॥ ७१॥ वेद्यसंवेद्यपदतो वक्ष्यमाणलक्षणात्संवेगातिशयादित्यतिशयसंवेगेन चरमैव भवत्येषा पापप्रवृत्तिः । कुत इत्याह! " पुनर्दुर्गत्ययोगतः" श्रेणिकायुदाहरणात्पतिपतितसदर्शनानामनन्तसंसारिणामनेकधादुर्गतियोग इति यत्किंचिदेतत् , नाभिमायापरिज्ञानात् क्षायिकसम्यग्दृष्टरेव नैश्चयिकवेद्यसंवेद्यपदभाव इत्यभिप्रायायावहारिकम् । अपितु । एतदेव चारु सत्येतस्मिन् प्रायो दुर्गतावपि मानसदुःखाभावात् , वज्रतन्दुलवदस्य भावपाकायोगात् । अचारु पुनरेकान्तत एव । अतोऽन्यदिति ॥ यदाह अवेद्यसंवेद्यपदमपदं परमार्थतः। पदं तु वेद्यसंवेद्यपदमेव हि योगिनाम् ॥७२॥ १ A omits पाप० इत्याह Page #48 -------------------------------------------------------------------------- ________________ ( ३८ ) 44 अवेद्यसंवेद्यपदमिति मिथ्यादृष्टया शयस्थानम् । अत एवाह अपदं परमार्थतः " यथावस्थितवस्तुतत्त्वतापादनात् । पदं तु पदं पुनर्वेद्यसंवेद्यपदमेव वक्ष्यमाणलक्षणमन्वर्थयोगादिति । तथा चाह वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । तथाप्रवृत्तिबुद्धयापि स्त्र्याद्यागमविशुद्धया || १३ || वेयं वेदनीयं वस्तु स्थित्या तथाभावयोगि सामान्येनाविकल्पकज्ञानग्राद्यमिति योऽर्थः संवेद्यते क्षयोपशमानुरूपं निश्वयबुद्धयापि ज्ञायते यस्मिन्पद आशयस्थाने । किंविशिष्टमित्याह "अपायादिनिबन्धनं" नरकस्वर्गादिकारणम् । स्त्र्यादि । तथा तेन प्रकारेण येन सामान्यानुविद्धमप्रवृत्तिबुद्धयापि तदुपादानत्यागाशयात्मिकया संवेद्यते स्त्र्यादिवेद्यमागम विशुद्धया श्रुतापनीतविपर्ययमलया प्रधानमिदमेव बन्धकारणं प्रेक्षावतामपीति ख्यादिग्रहणम् ॥ तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतस्तन्त्रे वेद्यसंवेद्यमुच्यते ॥ ७४ ॥ तत्पदमिति पदनात्पदमाशयः स्थानं साध्ववस्थानात्परिच्छेदात्सम्यगवस्थानेन भिन्नग्रन्थ्यादिलक्षणं भिन्नमन्धिदेशविरतिरूपम् । किमित्याह " अन्वर्थयोगतः " अन्वर्थयोगेन " तन्त्रे " सिद्धान्ते "वेद्यसंवेद्यमुच्यते " वेयं संवेद्यते ऽनेनेति कृत्वा ॥ तस्मादन्यदाह अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाभिनन्दिविषयं समारोपसमाकुलम् ।। ७५ ।। १ 4 omits वेद्यं संवेद्यते Page #49 -------------------------------------------------------------------------- ________________ ( ३९ ) अवेद्यसंवेद्यपदं विपरीतमतो वेद्यसंवेद्यपदान्मतमिष्टम् । तथाहि । अवेद्यमवेदनीयं वस्तु स्थित्या न तथाभावयोगिसामान्येनाप्यविकल्पकज्ञानग्राह्यं, तथाविधसमानपरिणामानुपपत्तेः । तत्संवेधते । अज्ञानावरणक्षयोपशमानुरूपं निश्चयबुद्धयोपप्लवसारया मृगतृष्णोदकवज्झायते यस्मिन्पदे तत्तथाविधम् । अत एवाह " भवाभिनन्दिविषयं " एतद्भवाभिनन्दी वक्ष्यमाणलक्षणः । समारोपसमाकुलमिति मिथ्यात्वदोपतो ऽपायगमनाभिमुखेन तथापि गलितमित्यर्थः ॥ भवाभिनन्दिलक्षणमाह । क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसंगतः || ७६|| क्षुद्रः कृपणः । लाभरतिर्याञ्चाशीलः । दीनः सदैवाकल्याणदर्शी । मत्सरी परकल्याणदुः स्थितः । भयवान्नित्यभीतः । शठो मायावी | अज्ञो मूर्खः । भवाभिनन्दी संसारबहुमानी । स्यादेवंभूतो निष्फलारम्भसंगतः सर्वत्रातत्त्वाभिनिवेशादिति ॥ यदि नामैवं ततः किमित्याह इत्यसत्परिणामानुविद्धो बोधो न सुन्दरः । तत्संगादेव नियमाद्विषसंपृक्तकान्नवत् ॥ ७७ ॥ इत्येवं भवाभिनन्दिपरिणामे सति अस्यासत्परिणामत्वात् । असत्परिणामानुविद्धो बोधः सामान्येन न सुन्दरः । कुत इत्याह " तरसंगादेव " विवक्षितासत्परिणाम संबन्धादेव " नियमात् " निय मेन । किमिवेत्याह “ विषसंपृक्तकान्नवत् " इति निदर्शनमात्रम् ।। फलत एतदेवाह । Page #50 -------------------------------------------------------------------------- ________________ ( ४० ) Parisa एवेह विपर्यासपरा नराः । हिताहितविवेकान्धा खिद्यन्ते सांप्रक्षिणः ॥७८॥ एतद्वन्तोऽवेद्यपदवन्तः । अत एव कारणात् । इह लोके विपर्यासपरा विपर्यासप्रधाना नराः । किमित्याह " हिताहित विवेकान्धाः " एतद्रहिता इत्यर्थः । अत एवाह “ विद्यन्ते सांप्रतेक्षिणः " वर्तमानदर्शिनः सन्त इति ।। तथा च । जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्दिजन्ते ऽतिमोहतः ॥ ७९ ॥ जन्म प्रादुर्भावलक्षणं, मृत्युः प्राणत्यागरूपः, जरा वयोहान्यात्मिका, व्याधिः कुष्ठादिलक्षणा, रोगो विशुचिकायातङ्कः, शोक इष्टवियोगादिजो मनोविकारः, आदिशब्दाद्धहादिपरिग्रहः, एभिरुपद्रुतं कदर्थितम् । वीक्षमाणा अपि पश्यन्तोऽपि सन्तः । भवं संसारं नोद्विजन्तेऽस्मादिति प्रक्रमः । अतिमहतो हेतोरिति ॥ तथाह्यमीषां किमित्याह कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत् सदा । दुःखे सुखधियाकृष्टा कच्छुकण्डूयकादिवत् ॥८०॥ कुकृत्यं प्राणातिपातारम्भादि कृत्यमाभाति मोहात्, कृत्यं चाहिंसामारम्भादि चाकृत्यवत्सदाभाति मोहादेव । दुःखसमारम्भादौ सुखधिया सुखबुद्धया | आकृष्टा आकर्षिता । किंवदित्याह "कच्छकण्ड्यकादिवत् " कच्छ पामा तस्याः कण्डूयकाः कण्डूयन्त इति कण्डकाः; आदिशब्दात्कुमिप्रतुद्यमानाग्निसेवक कुष्ठिपरिग्रहः || Page #51 -------------------------------------------------------------------------- ________________ अमुमेवार्थ स्पष्टयन्नाह - यथा कण्डूयनेष्वेषां धीर्न कच्छू निवर्तते । भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये ॥ ८१ ॥ कस्यचित्कण्डूयकस्य कण्डूयनातिरेकात्परिक्षणनखस्य सिकताक्षितिनिवासात्कथंचिदनुवाप्ततृणकण्डूविनोदकस्य भिक्षापुटिकाद्यैर्गृहीततृणपूलकन वैद्यपथिकेन दर्शनं बभूव । स तेन तृणमेकं याचितो दत्तं चानेन तत्तस्मै । परितुष्टोऽसौ हृदयेन चिन्तितं च संतोष " अहो धन्यः खल्वयं यस्यैतावन्ति कण्ड्यनानि" । पृष्टश्च स "क्व खल्वेतान्येवमतिप्रभूतान्यवाप्यन्ते "। तेनोक्तम् । “लाटदेशादौ । किं च तवैभिः प्रयोजनम् " । तेनोक्तम् | "कच्छुकण्डूविनोदम् " । पथिक आह । " यद्येवं ततः किमेभिः । कच्छूमेत्र ते सप्तरात्रेणापयनयामि कुरुष्व योगं त्रिफलायाः " । स पुनराह । “कच्छूपगमे कण्डूविनोदाभावे किं फलं जीवितस्य' । तदलं त्रिफलाया | कैतान्यवाप्यन्त इत्येतदेव कथय " इति श्लोकगर्भार्थ ः || अक्षरगमनिका तु । यथा कण्डूयने तथा भवाभिनन्दिनां धीर्न तदिच्छापरिक्षये न भोगेच्छानिवत्तौ तत्त्वानभिज्ञतयैव वयःपरिपाकेऽपि वाजीकरणादरात् । इच्छाग्रहणमिह भोगक्रियोपलक्षणम् ॥ " ( ४१ ) यतश्चैवमतः आत्मानं पाशयत्येते सदासचेष्टया भृशम् । पापल्या जडाः कार्यमविचार्यैव तत्त्वतः ॥८३॥ www आत्मानं जीवं पाशयन्ति गण्डयन्त्येते ऽधिकृतसत्त्वाः सर्वकालमसच्चेष्टया प्राणातिपातारम्भरूपया हेतुभृतया भृशमत्यर्थम् । कया १ A omits ६ Page #52 -------------------------------------------------------------------------- ________________ ( ४२ ) पाशयन्तीत्याह “ पापल्या " ज्ञानावरणीयादिलक्षणया । जडा मन्दाः | कार्यमविचायैव तत्त्वतः परमार्थेन क्षणिककुसुखसक्ततयात्मानं पाशयन्तीति ॥ तथाहि धर्मवीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मषावस्य प्रयतन्तेऽल्पमेधसः ॥ ८३ ॥ धर्मबीजं धर्मकारणं परं प्रधानं प्राप्यासाद्य । किं तदित्याह "मानुष्यं " मानुपत्वं । केत्याह " कर्मभूमिषु " भरताद्यासु । किमित्याह न सत्कर्म " धर्माधानादिरूपायां " अस्य " धर्मबीजस्य " प्रयतन्तेऽल्पमेधसः " अल्पमतय इत्यर्थः ॥ 66 किं तर्हि - बडिशा मिपवत्तुच्छे कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टयं धिगहो दारुणं तमः ॥ ९४ ॥ बडिशामिषवदिति निदर्शनं मत्स्यगलमांसवत् । तुच्छे ऽल्पे । कुसुखे दुष्टभोगजे दारुणोदये रौद्रविपाके समयपरिभाषेयम् । सक्ता गृध्राः । किमित्याह “ त्यजन्ति सच्चेष्टां " धर्मसाधनम् । कर्मदोषो ऽयमित्याह " धिगहो दारुणं तमः " कष्टमज्ञानमिति योऽर्थः ॥ उपसंहरन्नाह - अवेद्यसंवेद्यपदमान्भ्यं दुर्गतिपातकृत् । सत्संगागमयोगेन जेयमेतन्महात्मभिः ||८५|| ? AC D विडिंο Page #53 -------------------------------------------------------------------------- ________________ अवेद्यसंवेद्यपदमुक्तलक्षणमान्ध्यभावरूपम् । अत एवाह “दुगतिपातकृत् " दुर्गतिपातकरणशीलम् । सत्संगागमयोगेन विशिष्टसंगागमसंबन्धेनेत्यर्थः । एकवद्भावः पुरुषप्राधान्यख्यापनपरः । जेयमेतदवेद्यसंवेद्यपदं महात्मभिः पुंभिः,१ अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरो ऽप्यागम इति योगाचार्याः, अयोग्यनियोगासिद्धोरिति ॥ । अत एव जयलिङ्गान्याह । जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतो ऽत्यन्तं कुतर्कविषमग्रहः ॥ ८६ ॥ जीयमाने च नियमादेतस्मिन्नवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । तत्त्वतः परमार्थेन नृणां पुंसां निवर्तते स्वत आत्मनैवापरोपदेशेन, निमित्ताभावे नैमित्तिकाभावात् । अत्यन्तं नितरां सम्यग्ज्ञानयोगात्, आगमत्रामाण्यावगमात् । कुतर्कविषमग्रहो दृष्टापायहेतुत्वेन ग्रह इव ग्रहः॥ किंविशिष्टो ऽयमित्याहबोधरोगः शमापायः श्रद्धाभङ्गो ऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा ।। ८७ ॥ बोधरोगस्तद्यथावस्थितोपघातभावात् । शमापायो ऽसदभिनिवेशजनकत्वात् । श्रद्धाभङ्ग आगमार्थाप्रतिपत्तेः । अभिमानकन्मिथ्याभिमानजनकत्वात् । एवंर कुतर्क आगमनिरपेक्ष इत्यर्थः । किमित्याह "चेतसः" अन्तःकरणस्य "भावशत्रुः " परमार्थरिपुः “अने ? B omits २।। पत्र Page #54 -------------------------------------------------------------------------- ________________ ( ४४ ) कथा " आर्यापवादादिकारणेन ॥ यतश्चैवमतः किमित्याह gasभनिवेशयुक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् ॥ ८८ ॥ कुतर्क उक्त लक्षणे ऽभिनिवेशस्तथा तद्रहरूपः । किमित्याह " न युक्तः " केषामित्याह "मुक्तिवादिनां" संन्यासिनामित्यर्थः । युक्तः पुनः श्रुत आगमे शीले परद्रोहविरतिलक्षणे समाधौ च ध्यानफलभूते महात्मनां मुक्तिवादिनामभिनिवेश युक्त इति ॥ बीजं चास्य परं सिद्धमवन्ध्यं सर्वयोगिनाम् । परार्थ करणं येन परिशुद्धमतोऽत्र च ॥ ९५ ॥ वीजं चास्य श्रुतादेः परं सिद्धं प्रधानं प्रतिष्ठितम् । अवन्ध्यं नियत फलदायि सर्वयोगिनां कुलयोगिप्रभृतीनाम् । किं तदित्याह " परार्थकरणं " परप्रयोजननिष्पादनं “ येन " कारणेन "परिशुद्ध" अन्यानुपघातेन । अतः कारणात् । अत्र च परार्थकरणे युक्तोऽभिनिवेश इति ।। " कुतर्कासारतामेवाभिधातुमाद अविद्यासंगताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ॥९०॥ अविद्यासंगता ज्ञानावरणीयादिसंपृक्ताः । प्रायो बाहुल्येन । विकल्पाः सर्व एव शब्दविकल्पा अर्थविकल्पाश्च यत्तद्योजनात्मको विकपयोजनात्मक गोमयपायसादिविकल्पनेन कुतर्क उक्तलक्षणः । किमनेन तत् । न किंचिदित्यर्थः ॥ किं च Page #55 -------------------------------------------------------------------------- ________________ ( ४५ ) जातिप्रायश्व सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताप्राप्तविकल्पवत् ॥ ९१ ॥ जातिप्रायश्च दूपणाभासप्रायश्च सर्वोऽयं कुतर्कः । प्रतीतिफल - बाधित इति कृत्वा । एतदेवाह " हस्ती व्यापादयत्युक्तौ " मेण्टेन । किमिवेत्याह " प्राप्ताप्राप्तविकल्पवत् " इति । कश्चिन्नैयायिक छात्रः कुतश्चिदागच्छत् । अवशीभूतमत्तहस्त्यारूढेन केनचिदुक्तं; “भोः भोः, त्वरितमपसर; हस्ती व्यापादयति " इति च । तथा परिणतन्यायशास्त्र आह " रे रे बटर किमेवं युक्तिवाह्यं प्रलपसि । तथाहि । किमयं प्राप्तं व्यापादयति किं वाप्राप्तमिति । आद्यपक्षे भवत एव व्यापत्तिप्रसङ्गः, प्राप्तिभावात् " । एवं यावदाह तावद्धस्तिना गृहीतः स कथमपि मेण्टेन मोचित इति । जातिमायता सर्वत्र भिन्नार्थग्रहणस्वभावसंवेदनवेदने तद्गताकार विकल्पनस्यैवं प्रायत्वादिति चर्चित मन्यत्र ॥ किं च 1 स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नावग्दृग्गोचरो न्यायादन्यथान्येन कल्पितः ॥९२॥ स्वभावोत्तरपर्यन्त एष कुतर्कः । अत्र च वस्तुस्वभावैरुत्तरं वाच्यमिति वचनात् । एवमग्निर्दहत्यापः क्लेदयन्तीति स्वभाव एषामिति | असावपि स्वभावः । तत्त्वतः परमार्थेन । नार्वाग्गोचरो न च्छद्मस्थविषयः । न्यायाध्यायेन परप्रसिद्धेन । किंभूतः सन्नित्याह " अन्यथा " प्रकारान्तरेण " अन्येन " वादिना " कल्पितः " सन्निति । तथाहि । अथ वस्तुभावैरुत्तरं वाच्यमिति सर्वत्रैव तथा तत्सिद्ध वक्तुं पार्यते । कथम् । येन तदर्थक्रियाकरणस्वभावस्तेन तां करोति न पुनः क्षणिकतया, तस्याः सर्वभावेष्वेवाभ्युपगमात् । Page #56 -------------------------------------------------------------------------- ________________ यतः कुतश्चित्तदर्थक्रियाभावप्रसङ्गात्तनिवन्धनाविशेषादिति । एवमग्निः लेदयत्यासंनिधौ तथास्वभावत्वात् । तथापो दहन्त्यग्निसंनिधौ तथास्वभावत्वादेव । स्वभाववैचित्र्यात्तत्रापि लोकवाधामन्तरेणापरो वा स्वभावो दृष्टान्तमात्रस्य सर्वत्र सुलभत्वात् । तदेवमसमञ्जसकारी कुतर्क इत्यैदम्पर्यम् ॥ अमुमेवार्थ विशेषेणाभिधातुमाहअतोऽग्निः क्लेदयत्यम्बुसंनिधौ दहतीति च । अम्बग्निसंनिधौ तत्स्वाभाव्यादित्युदिते तयोः।।९।। ___ यतो नार्वाग्दृग्गोचरो अधिकृतस्वभावः, अतो ऽस्मात्कारणात् । अग्निः क्लेदयति । अध्यक्षविरोधपरिहारायाह "अम्बुसंनिधौ" इति । दहति वाम्बु न प्रतीतिबाधेत्याह "अग्निसंनिधौ” इति । किमित्येतदेवमित्याह " तत्स्वाभाव्यात्तयोः " अग्न्यम्बुनोरिति । उदिते सत्यपि परवादिना ॥ किमित्याहकोशपानाहते ज्ञानोपायो नास्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद्दश्यते यतः॥९४॥ ... कोशपानाहते कोशपानं विना ज्ञानोपायो नास्त्यत्र स्वभावव्यतिकरे युक्तितः शुष्कतर्कयुक्त्या कश्चिदपरो दृष्टान्तो ऽप्यस्यार्थस्योपोइलको विद्यते एवेत्याह " विनकृष्टोऽप्ययस्कान्तः " लोहाकर्ष उपलविशेषः “ स्वार्थकृत् " लोहाकर्षादिस्वकार्यकरणे शील: " दृश्यते यतः" लोहे स हि विप्रकृष्ट एव संनिकृष्टलोहमेव न ताम्रादि आकर्षयत्येव न कर्तयति तदित्थमस्येवाग्न्यादीनां तथास्वभावकल्पनं केन बाध्यते । न केनचिदिति भावनीयम् ।। उपसंहरबाह Page #57 -------------------------------------------------------------------------- ________________ (४७) दृष्टान्तमात्रं सर्वत्र यदेवं सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्यापोद्यते ह्ययम् ॥९५॥ दृष्टान्तमात्रं साध्ये वस्तुनि लोकप्रतीतिबाधितं सर्वत्राविशेषण यदेवमुक्तनीत्या सुलभं सितो पृथिव्याम् । एतत्प्रधानोऽ यं कुतर्कः केनापोद्यते वाध्यते केनचित्स्वनीतिविरोधादित्यर्थः ॥ __ इहैव दृष्टान्तमाह। दिचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः । निरालम्बनतां सर्वज्ञानानां साधयन्यथा ॥ ९६ ॥ द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थित इति निदर्शनमुदाहरणमेतत्सामोपजातः । निरालम्बनतामालम्बनशून्यतां सर्वज्ञानानां मृगतृष्णादिगोचराणाम् । अविशेपेण सामान्येन साधयन्यथा केनापोद्यते ॥ न चैवं तत्वसिद्धिरित्याहसर्व सर्वत्र चाप्नोति यदम्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनेन न किंचन ॥ ९७ ॥ ___ सर्व निरवशेष साध्यमिति प्रक्रमः सर्वत्र च सर्वत्रैव वस्तुनि प्राप्नोति यद्यस्मात्कुतर्कादसमञ्जसमतिप्रसङ्गेन प्रतीतिबाधितं लोके तथाविधदृष्टान्तमात्रसारवत्वात् । तदनेन किंचन कुतर्केण ॥ इतश्चैतदेवमित्याहअतीन्द्रियार्थसिद्धयर्थ यथालोचितकारिणाम् । प्रयासः शुष्कतर्कस्य न चासौ गोचरः कचित् ॥९॥ अतीन्द्रियार्थसिद्धयर्थं धर्मादिसिद्धयर्थमित्यर्थः । यथालोचित Page #58 -------------------------------------------------------------------------- ________________ ( ४८ ) कारिणां प्रेक्षावतां प्रयासः प्रवृत्त्युत्कर्षः शुष्कतर्कस्याधिकृतस्य न चातीन्द्रियोऽर्थो गोचरो विषयः कचिदिति ॥ गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्यो परागादिसंवाद्यागमदर्शनात् ॥ ९९ ॥ गोचरस्तु गोचरः पुनरागमस्यैवातीन्द्रियोऽर्थः । कुत इत्याह ततस्तदुपलब्धितः " आगमादतीन्द्रियार्थोपलब्धितः । एतदेवाह चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् " लौकिको ऽयमर्थ इति भावनीयम् ॥ उपसंहरन्नाह 66 66 एतत्प्रधानः सच्छ्राद्धः शीलवान् योगतत्परः । जानात्यतीन्द्रियानर्थीस्तथा चाह महामतिः ||१००|| " एतत्प्रधान इत्यागमप्रधानः सच्छ्राद्धः प्रातः शीलवान् परद्रोहविरतिमान, योगतत्परः सदा तदभियुक्तः, एवंभूतः सन् जानात्यतीन्द्रियानर्थान् धर्मादीन् । तथा चाह महामतिः पतञ्जलिः || किमित्याह आगमेनानुमानेन योगाभ्यासरमेन च । त्रिधा प्रकल्पयन्प्रज्ञा लभते तत्त्वमुत्तमम् ||१०|| आगमेनासवचनेन लक्षणेन । अनुमानेन लिङ्गाल्लिङ्गिज्ञानरूपेण योगाभ्यासरसेन च विहितानुष्ठानात्मकेन त्रिधा प्रकल्पयन्मज्ञामुक्तक्रमेणैव, अन्यथा हि नृत्य सिद्धेः । किमित्याह " लभते तत्त्वमुत्तमं " पापसंमोहनिवृत्त्या श्रुतादिभेदेन || अमुमेवार्थमाह । Page #59 -------------------------------------------------------------------------- ________________ (४९) न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः। मोहरतदविमुक्तीनां तद्भेदाश्रयणं ततः ॥१०२॥ न ततः परमार्थेन भिन्नता भिजाभिप्रायाः सर्वज्ञा बहवो यतो यस्मात् । मोहस्तदविमुक्तीनां सतिशयश्राद्धानां तद्भदाश्रयणं सर्वज्ञभेदाङ्गीकरणं ततस्तस्मादिति ।। कथमित्याहसर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्त मेदेःपि तत्त्वतः॥१०॥ सर्वज्ञो नाम यः कश्चिदहदादिः पारमार्थिक एव हि निरुपचरितः स एक एव सर्वत्र सर्वज्ञत्वेन व्यक्तिभेदे ऽपि तत्त्वतः। . षभादिलक्षणे सति प्रतिपत्तिस्ततस्तस्य सामान्यनैव यावतां ते सर्वे ऽपि तमापन्ना इति न्यायमतिः परा प्रतिपत्तिः । ततस्तस्य सर्वज्ञस्य सामान्येनैव यावतां तन्त्रान्तरीयाणामपिते सर्वे ऽपि तमापन्नाः सर्वज्ञ मुख्यमेवेति न्यायगतिः परा, तमन्तरेण तत्प्रतिपत्तेरसिद्धेः ॥ विशेषस्तु पुनस्तस्य कार्येनासर्वदर्शिभिः । सवैन ज्ञायते तेन तमापन्नो न कश्चन ॥१०॥ विशेषस्तु भेद एव पुनस्तस्य सर्वज्ञस्य कायनासर्वदर्शिभिः पमातृभिः सर्वैन विज्ञायते तददर्शनात , दर्शने ऽपि तज्ज्ञानागतेः । तेन कारणेन तं सर्वज्ञमापन्नः प्रतिपन्नो न कश्चनासर्वदशी । तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । ? Cumits २.Comits प्रतिपत्तिस्तनस्तस्य....परा प्रतिपत्तिः । Page #60 -------------------------------------------------------------------------- ________________ (५०) निर्व्याज तुल्य एवासौ तेनांशेनैव धोमताम् ॥१०५॥ तस्मात्सामान्यतोऽप्येनं सर्वज्ञमभ्युपैति य एव हि कश्चिदसर्वदर्शी निर्व्याजमौचित्ययोगेन तदुक्तपालनपरः । तुल्य एवासौ तेनांशेन सर्वज्ञप्रतिपत्तिलक्षणेन धीमतामनुपहतबुद्धीनामित्यर्थः ॥ अमुमेवार्थ निदर्शनगर्भमाह । यथैवैकस्य नृपतेर्बहवो ऽपि समाश्रिताः । दुरासन्नादिभेदेऽपि तद्वत्याः सर्व एव ते ॥१०५॥ ___ यथैवैकस्य नृपतेः कस्यचिद्विवक्षितस्य बहवो ऽपि समाश्रिताः पुमांसो दूरासन्नादिभेदेऽपि सति तथा नियोगभेदे कृते तद्धृत्या विवक्षिता नृपभृत्याः सर्व एव ते समाश्रिता इति ॥ दान्तिकयोजनमाह। सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥१०॥ सर्वज्ञतत्त्वाभेदेन यथोदितनीत्या हेतुभूतेन । तथा नृपतिसमाश्रितबहुपुरुषवत्सर्वज्ञवादिनः सर्वे जिनादिमतभेदावलम्बिनः । तत्तवगाः सर्वज्ञतत्त्वगा ज्ञेयाः । भिन्नाचारस्थिता अपि तथाधिकारभेदेनेति ॥ उपसंहरनाहन भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः।।१०७॥ न भेद एव तत्वेन परमार्थेन सर्वज्ञानां महात्मनां भावसर्वज्ञा? A. omits Page #61 -------------------------------------------------------------------------- ________________ नामित्यर्थः । तथेष्टानिष्टनामादिभेदेऽपि सति भाव्यमेतन्महात्मभिः श्रुतमेधासंमोहसारया प्रज्ञया ॥ शास्त्रगर्भमेवोपपत्त्यन्तरमाह। चित्राचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम्।।१०८॥ चित्राचित्रविभागेन वक्ष्यमाणलक्षणेन यच्च देवेषु वर्णिता लोकपालमुक्तादिषु भक्तिः सयोगशास्त्रेषु सौवाध्यात्मचिन्ताशास्त्रेषु । ततो ऽपि कारणादेवमिदं स्थितं प्रस्तुतमिति ॥ ___ अमुमेवार्थ स्पष्टयन्नाहसंसारिष हि देवेष भक्तिस्तत्कायगामिनाम । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥१०९॥ संसारादिषु हि देवेषु लोकपालादिषु भक्तिः सेवा तत्कायगामिनां संसारिदेवकायगामिनां तदतीते पुनः संसारातीते तु तत्त्वे तदतीतार्थयायिनां संसारातीतमार्गयायिनां योगिनां भक्तिः ॥ अनयोर्विशेषमाह । चित्रा चायेषु तद्रागतदन्यद्वेषसंगता। अचित्रा चरमे त्वेषा शमसाराखिलैव हि ॥११०॥ चित्रा च नानाप्रकारा चायेषु सांसारिकेषु देवेषु तद्रागतदन्यद्वेषसंगता स्वाभीष्टदेवतारागानभीष्टद्वेषसंयुक्ता मोहगर्भत्वात् । अचित्रैकाकारा चरमे तदतीते तु तत्त्व एषा भक्तिः सा च शमसारा शमप्रधानाखिलैव हि तथासंमोहाभावादिति ॥ अत्रैव हेतुमाह । 1 (: omits. Page #62 -------------------------------------------------------------------------- ________________ ( ५२ ) संसारिणां हि देवानां यस्माचित्राण्यनेकधा । स्थित्यैश्चर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् ।।१११॥ संसारिणां हि देवानां लोकपालादीनां यस्माचित्राण्यनेकाकाराण्यनेकधानेकैः प्रकारैः । कैः कानीत्याह "स्थित्यैश्वर्यप्रभावाद्यैः" आदिशब्दात्सहजरूपादिपरिग्रहः "स्थानानि" विमानादीनि । प्रतिशासनं ब्रह्माण्डत्रैविध्यानुभेदात् ।। यस्मादेवम्तस्मात्तत्साधनोपायो नियमाचित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥११२ ॥ - तस्मात्कारणात्साधनोपायः संसारिदेवस्थानसाधनोपायो निय. माचित्र एव हि भवति । इदमेव वस्तुलोकप्रसिद्धोदाहरणद्वारेणाह । न भिन्ननगराणां स्याद्भवेदेकं वर्त्म कदाचन तथा तद्भदानुपपत्तेरिति। तथाइष्टापूर्तानि कर्माणि लोके चित्राभिसंधितः । नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः ॥११॥ इष्टापूर्तानि कर्माणि दारणलक्षणानि लोके माणिगणे चित्राभिसंधितः कारणात् । कि "नानाफलानि " चित्रफलानीति योऽर्थः सर्वाणि द्रष्टव्यानि अनुभदात् । करित्याह “विचक्षणैः" विद्वद्भिरिति ।। इष्टापूर्तस्वरूपमाह । ऋविम्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यहत्तमिष्टं तदभिधीयते ।। ११४ ।। Page #63 -------------------------------------------------------------------------- ________________ (५३) ऋत्विम्भिर्यज्ञाधिकृतमन्त्रसंस्कारैः करणभूतैब्राह्मणानां समक्षतः, तदन्येषामन्तवैद्यां हि यहत्तं हिरण्यादीष्टं तदभिधीयते, विशेषलक्षणयोगात् ॥ तथावापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्त तत्त्वविदो विदुः ॥१५॥ वापीकपतडागानि लोकप्रसिद्धान्येव देवतायतनानि च वसतिकादीनि तथानप्रदानं लौकिकमेव । एतत्त्वेवंभूतंर किमित्याह " पूर्त तत्त्वविदो विदुः" इति पूर्तपरिभाषया तत्त्वविदो विदन्ति ॥ आन्तरं हेतुमधिकृत्याहअभिसंधेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमो ऽतः स एवेह वारीव कृषिकर्मणि ॥ ११६ ॥ ___ अभिसंधेस्तथाविधाशयलक्षणात् । किमित्याह " फलं भिन्न" संसारिदेवस्थानादि " अनुष्ठाने समेऽपि हि" इष्टादौ । परमः प्रधानः । अतः कारणात् । स एवाभिसंधिरेव । इह फलसिद्धौ । किंवदित्याह " वारीव कृषिकर्मणि" इति दृष्टान्तः परमो लोकरूढया।। अभिसंधिभेदनिबन्धनान्याह । रागादिभिरयं चेह भिद्यते ऽनेकधा नृणाम् । नानाफलोपभोक्तृणां तथा बुद्धयादिभेदतः ॥११७॥ १ C onuits हि यदत्तं २ । एतच्चैवं० Anits Page #64 -------------------------------------------------------------------------- ________________ ( ५४ ) रागादिभिर्दोषैरेयं चाभिसंधिरिह लोके भिद्यते ऽनेकधा नृणां तन्मृदुमध्याधिमात्रभेदेन । किंविशिष्टानामित्याह “नानाफलोपभोक्तृणां तथा बुद्धयादिभेदतः " वक्ष्यमाणाद्भिद्यते ऽभिसंधिरिति ॥ एतमेवाह । बुद्धिमसंमोहस्त्रिविधोध इष्यते । तदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम् ॥ ११८ ॥ बुद्धिर्वक्ष्यमाणलक्षणा ज्ञानमप्येवमेवासंमोहश्चैवं त्रिविधो बोध इष्यते शास्त्रेषु । तद्भेदाहुद्ध्यादिभेदात्सर्वकर्माणी ष्टादीनि भिद्यन्ते सर्वदेहिनां तद्धेतुभेदात्फलभेद इति कृत्वा ॥ तत्र इन्द्रियार्थाश्रया बुद्धिर्ज्ञानं त्वागमपूर्वकम् । सदनुष्ठान व चैतदसंमोहोऽभिधीयते ॥ ११९ ॥ इन्द्रियार्थाश्रया बुद्धिस्तीर्थयात्कदर्शनेहमनबुद्धिवत् । ज्ञानं स्वागमपूर्वकं तीर्थयात्र विधिविज्ञानयत् सनुष्ठान व चैतज्ज्ञानम् । किमित्याह " असंमोहो ऽभिधीयते " बोधराज इति । एवमेतेषां लक्षणे व्यवस्थिते सति लोकसिद्धमुदाहरणमाह । रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्ध्यादिसिद्धये ॥ १२० ॥ रत्नोपलम्भः सामान्येनेन्द्रियार्थाश्रया बुद्धि:, तज्ज्ञानं त्वागमपूर्वकं रत्नज्ञानं तत्प्रात्यादि त्वसंमोहः, बोधगर्भत्वादस्य यथाक्रमम् । इह बुद्धयादौ । उदाहरणं साधु, अभिप्रेतार्थसाधकत्वात् । अत एवाह " ज्ञेयं बुद्धगादिसिद्धये " बुद्धिज्ञानासंमोहसिद्धयर्थमितिर ।। १ Bpra.mit सदनुष्ठानवत् २ बद्धयादिशाना Page #65 -------------------------------------------------------------------------- ________________ सदनुष्ठानलक्षणमाह । आदरः करणे प्रीतिरविघ्नः संपदागमः । जिज्ञासा तन्निसेवा च सदनुष्ठानलक्षणम् ।।१२१|| आदरो यत्नातिशय इष्टादौ करणे । प्रीतिरभिष्वङ्गात्मिका । अविघ्नस्तत्करण एवाष्टसामर्थ्यात् । संपदागमः । तत एव शुभभावपुण्यसिद्धेर्जिज्ञासेष्टादिगोचरैव तन्निसेवा चेष्टोदिता सेवा, चशब्दात्तदनुग्रहग्रहः । एतत्सदनुानलक्षणं, अनुबन्धसारत्वादस्य ।। ( ५५ ) तत्र - बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ॥ १२२ ॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येव सामान्येनेह लोके देहिनां प्राणिनाम् । किमित्याह " संसारफलदान्येव " अशास्त्रपूर्वकत्वात् । तथा चाह " विपाकविरसत्वतः " इति तेषां नियोगत एव विपाकविरसत्वादिति ॥ ज्ञानपूर्वाणि तान्येव मुक्तयङ्ग कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥ १२३ ॥ ज्ञानपूर्वाणि यथोदितज्ञाननिबन्धनानि तान्येव कर्माणि । किमित्याह "मुक्त्यङ्ग" भवन्ति "कुलयोगिनां" वक्ष्यमाणलक्षणानाम् । कुलयोगिग्रहणमन्यासंभवज्ञापनार्थम् । कुत इत्याह “ श्रुतशक्तिसमावेशात् " हेतोः । अमृतशक्तिकल्पेयं नैतदभावे मुख्यं कुयोगित्वम् । अत एवाह " अनुबन्धफलत्वतः " मुत्तयङ्गसिद्धे ताविकानुबन्धस्यैवं भूतत्वादिति ।। ? D cmits २ A शास्त्र Page #66 -------------------------------------------------------------------------- ________________ ( ५६ ) असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥ १२४ ॥ __ असंमोहसमुत्थानि पुनर्यथोदितासंमोहनिबन्धनानि तु । एकान्त. परिशुद्धितः कारणात् , परिपाकवशेन । किमित्याह “निर्वाणफलदान्याशु" शीघ्रं तान्येव कर्माणि । केषामित्याह " भवातीतार्थया. यिनां" सम्यक्परतत्त्ववेदिनामित्यर्थः ॥ एतेषामेव लक्षणमाह । प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥ १२५ ॥ प्राकृतेष्विह भावेषु शब्दादिषु बुद्धिपर्यवसानेषु येषां चेतो निरुत्सुकं, निःसातासमावेशात् । भवभोगविरक्तारत एवंभूता जीवा मुक्तकल्पा भवातीतार्थयायिन उच्यन्ते, भवचित्तासंस्पर्शादिति ॥ एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थामेदभेदेऽपि जलधौ तीरमार्गवत् ॥ १२६ ॥ एक एव तु मार्गों ऽपि चित्तविशुद्धिलक्षणः । तेषां भवातीताययायिनां शमपरायणः शमनिष्ठः । अवस्थाभेदभेदेऽपि गुणस्थानकभेदापेक्षया । जलधौ तीरमार्गवदिति निदर्शनम् । अवस्थाभेदश्चेह तदूरासन्नतादिभेदेन ॥ परतत्त्वाभिधित्सयाहसंसारातीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदे ऽपि तत्त्वतः ॥१२॥ १ B C तथैकमेव Page #67 -------------------------------------------------------------------------- ________________ (५७) 'संसारातीततत्त्वं विति' संसारातीतं पुनस्तत्त्वम् । किमित्याह "परं" प्रधानं "निर्वाणसंज्ञितं" निर्वाणसंज्ञा संजातास्येति कृत्वा । तद्ध्येकमेव सामान्येन नियमान्नियमेन शब्दभेदेऽपि वक्ष्यमाणलक्षणे सति तत्त्वतः परमार्थेन ॥ एतदेवाह । सदाशिवः परं ब्रह्म सिद्धात्मा तत्तथेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवमादिभिः ॥ १२८ ॥ सदाशिव इति सर्वकालं शिवो न कदाचिदप्यशिवः, त्रिकालपरिशुद्धः सर्वाशिवाभावात् । परं प्रधानं ब्रह्म तथा वृहत्त्वछंहकत्वाभ्यां सद्भावालम्बनत्वात् । सिद्धात्मा कृतकृत्यात्मा निष्ठितार्थ इत्यर्थः । तथातेति च । आकालं तथाभावात् । यथोक्तम् । उपादाननिमित्ताभ्यामधिकारित्वता ध्रुवा । सवाल तथाभावात्तथातेत्यभिधीयते ॥ १॥ विसं योगात्मिका चेयं त्रिदश्वपरिवर्जिता। भू. परात्यन्तं भूतार्थफलदेति च ॥ २ ॥ त्यादिशब्दैस्तन्निर्वाणमुच्यते । अन्यादन्वर्थेनोक्तनीत्या । एकमेव सदेवमादिभिरिति ॥ प्रथमेवेत्याह । तलक्षणाविसंवादान्निरावाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥१२९॥ तल्लक्षणाविसंघादादिति निर्वाणलक्षणाविसंवादात् । एनमेवाह १ B तथैकमेव २ C omits this श्लोक. Page #68 -------------------------------------------------------------------------- ________________ (५८) "निराबा" निर्गतमाबाधाभ्यः "अनामयं " अविद्यमानद्रव्यभावरोगम् । निष्क्रियं च कर्तव्याभावानिबन्धनाभावेन । परं तत्त्वमेवंभूतम् । यतो यस्मात् । जन्माययोगतो जन्मजरामरणायोगेन ॥ ऐदम्पर्यमाह । ज्ञाते निर्वाणतत्त्वे ऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ॥ १३० ॥ ज्ञातेर परिच्छिन्ने निर्वाणतत्त्वे ऽस्मिन्नेवंभूते ऽसंमोहेन बोधेन तत्त्वतः परमार्थतः । किमित्याह " प्रेक्षावतां" बुद्धिमतां " न तद्भतौ" न निर्वाणतत्त्वसेवायाम् । किमित्याह " विवाद उपपद्यते" तत्त्वज्ञानभेदाभावात् , अन्यथा प्रेक्षावत्त्वविरोधादिति ॥ सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितम् ।। आसन्नो ऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ॥१३१॥ सर्वज्ञपूर्वकं चैतदधिकृततत्त्वं निर्वाणाख्यम् । नियमादेव यत्स्थितमसर्वज्ञस्य निर्वाणानुपपत्तेः । आसन्नोऽयं निर्वाणस्य सर्वज्ञलक्षण ऋजुरवक्रो मार्गः पन्थाः । तद्भेदः सर्वज्ञभेदो मतभेदलक्षणः । तत्तस्मात् । कथं भवेन्नैव भवतीति ॥ देशनाभेदः कथमित्याशंक्याह । चित्रा तु देशनैतेषा स्यादिनेयानुगुण्यतः। यस्मादेते महात्मानो भवव्याधिभिषग्वराः॥१३२॥ चित्रा तु नानाप्रकारा पुनर्देशना “नित्य आत्मा अनित्य इति १ A बन्धनभावेन २ C omits Page #69 -------------------------------------------------------------------------- ________________ (५९) च" इत्यादिरूपा । एतेषां सर्वज्ञानां कपिलसुगतादीनां स्याद्भवद्विनेयानुगुण्यतस्तथाविधशिष्यानुगुण्येन कालान्तरापायभीरुमधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना नित्यदेशना, भोगास्थावतस्त्वधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना अनित्यदेशना । न तु ते ऽन्वयव्यतिरेकवद्वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वानुपपत्तेः । एवं देशना तु तथा गुणदर्शनेनादृष्टैरित्याह? " यस्मादेते महात्मानः" सर्वज्ञाः । किमित्याह " भवव्याधिभिषग्वराः " संसारव्याधिवैद्यप्रधानाः ॥ अतः किमित्याह । यस्य येन प्रकारेण बीजाधानादिसंभवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ॥ १३३॥ यस्य प्राणिनो येन प्रकारेण नित्यदेशनादिलक्षणेन वीजाधानादिसंभवस्तथा भवोद्वेगादिभावेन सानुबन्धो भवति तथा तथोत्तरगुणवृद्धया । एते सर्वज्ञाः । तथा तेन प्रकारेण । तस्य जगुगीतवन्तस्तत इति ॥ परिहारान्तरमाह। एकापि देशनैतेषां यद्दा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते ॥ १३४ ॥ एकापि देशना तन्मखविनिर्गममधिकृत्य । एतेषां सर्वज्ञानां यद्वा श्रोतृविभेदतस्तथाभव्यत्वभेदेन । अचिन्त्यपुण्यसामर्थ्यात्परबोधाश्रयोपात्तकर्मविपाकादित्यर्थः । तथा नित्यादिप्रकारेण चित्रावभासत इति ॥ १B एवं देशना तु तद्गुणदर्श० Page #70 -------------------------------------------------------------------------- ________________ न च नैवमपि गुण इत्याह । यथाभव्यं च सर्वेषामुपकारो ऽपि तत्कृतः । जायते ऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता ॥१३५॥ यथाभव्यं भव्यसदृशं च सर्वेषामुपकारोऽपि गुणो ऽपि तत्कृतो देशनानिष्पन्नः । जायते प्रादुर्भवति । अवन्ध्यताऽनिष्फलताप्ये मुक्तनीत्याऽस्याः देशनायाः सर्वत्र मुस्थितोति ॥ प्रकारान्तरमाह । यदा तत्तन्नयापेक्षा तत्कालादिनियोगतः ! ऋषिभ्यो देशना चित्रा तन्मूलैपापि तत्वतः ॥१३॥ यद्वा तत्तन्नयापेक्षा द्रव्यास्तिकादीनधिकृत्य तत्कालादिनियोगतो दुःषमादियोगात् । ऋषिभ्यः कपिलादिभ्य एव देशना चित्रेति । न चेयमपि निर्मूलेत्याह " तन्मूलैपापि" सर्वज्ञदेशनामूलैषापि " तत्त्वतः " परमार्थेन तत्प्रवचनानुसारतस्तथाप्रवृत्तेरिति ।। प्रकृतर्षिभ्यो योजनमाह । तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥ १३७ ॥ तदभिप्रायं सर्वज्ञाभिप्रायमज्ञात्वा । न ततः कारणात् । अर्वाग्दृशां सतां प्रमातृणाम् । किमित्याह " युज्यते तत्पतिक्षेपः " किं १ B C नीत्या स्यादेशनायाः २ A C प्रकृतिर्षि Page #71 -------------------------------------------------------------------------- ________________ विशिष्ट इत्याह " महानर्थकरः परः " महानर्थकरणशीलः " परः" प्रधान इति ॥ इहैव निदर्शनमाहनिशानाथप्रतिक्षेपो यथान्धानामसंगतः। तद्भेदपरिकल्पश्च तथैवाग्दिशामयम् ॥ १३८ ॥ निशानाथप्रतिक्षेपश्चन्द्रप्रतिक्षेपः । यथान्धानां चक्षुर्विकलानामसंगतो नीत्या तद्देदपरिकल्पश्च निशानाथभेदपरिकल्पश्च वक्रचतुरसत्वादिः । तथैवाग्दिशां छमस्थानामयं सर्वज्ञप्रतिक्षेपः, तद्भेदपरिकल्पश्चासंगत इति ॥ किं च- . न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिबाछेदाधिको मतः ॥१३९॥ न युज्यते प्रतिक्षेपो निराकरणरूपः सामान्यस्यापि कस्यचित्पुरुषादेः । तत्तस्मात् । सतां मुनीनाम् । आर्यापवादस्तु पुनः सर्वज्ञपरिभव इत्यर्थः । किमित्याह "जिहाछेदाधिको मतः" तथाविधप्रत्यपायभावेन । किंचकुदृष्ट्यादिवन्नो सन्तो भाषन्ते प्रायसः कचित्। निश्चितं सारखच्चैव किं तु सत्त्वार्थकत्सदा ॥ १४० ॥ कुदृष्ट्यादिवत्कुत्स्यमित्यादि नो सन्तो मुनयो भाषन्ते कचित् । कथं तर्हि भाषन्त इत्याह "निश्चितं" असंदिग्धं "सारवच्चैव" नापार्थकम्। "किं तु सत्त्वार्थकृत " परार्थकरणशीलं " सदा " भाषन्ते ॥ Page #72 -------------------------------------------------------------------------- ________________ (६२) उपसंहरन्नाहनिश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च । अतोऽप्यत्रान्वकल्पानां विवादेन न किंचन ॥१४॥ निश्चयोऽतीन्द्रियार्थस्य सर्वज्ञायोगिज्ञानादृते न च । तत एव तसिद्धेरतोऽपि कारणादत्र सर्वज्ञाधिकारेऽन्वकल्पानां विशेषतस्तदतत्वदर्शिनां विवादेन न किंचन सचित्तनाशफलेन । न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः। न चातो निश्चयः सम्यगन्यत्राप्याह धीधनः ॥१४२॥ न चानुमानविषयो न च युक्तिगोचर एपोऽर्थः सर्वज्ञविशेषलक्षणस्तत्त्वतो मतः परमार्थेन दृष्टः । न चातोऽनुमानान्निश्चयः सम्यगन्यत्रापि सामान्यार्थे । आह धीधनः स भर्तृहरिः ॥ किमाहेत्याहयत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ १४३ ॥ यत्नेनानुमितोऽप्यर्थोऽन्वयाद्यनुसारेण कुशलैरनुमातृभिरन्वयादिज्ञैरभियुक्ततरैरन्यैरन्वयादिज्ञैरेव । अन्यथैवोपपाद्यते ऽतथासियादिप्रकारेण ॥ अभ्युच्चयमाहज्ञायेरन्हेतुवादेन पदार्था यद्यतीन्द्रियाः। ? A omits 37f9 २ । तथासिद्धा Page #73 -------------------------------------------------------------------------- ________________ कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥१४४॥ ज्ञायेरन्हेतुवादेनानुमानवादेन पदार्था यद्यतीन्द्रियाः सर्वज्ञादयः कालेनैतावता प्रास्तार्किकैः कृतः स्यात्तेषु निश्चयोऽवगम इति । न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ॥१४५॥ न चैतदेवं ययेन कारणेन तस्माच्छुष्कतर्कग्रहो महानतिरौद्रः । मिथ्याभिमानहेतुत्वाकारणाच्याज्य एव मुमुक्षुभिर्मोक्तुमिच्छुभिः ।। किं चग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसंगतः। मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ॥१४॥ ग्रहः सर्वत्र वस्तुनि तत्त्वेन परमार्थेन मुमुक्षूनामसंगतोऽयुक्तः । कुत इत्याह “मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः" प्रायोग्रहणं क्षायिकधर्मव्यवच्छेदार्थम् । किमनेन ग्रहेण तत् ? न किंचिदित्यर्थः ॥ यत एवम्तदत्र महतां वर्त्म समाश्रित्य विचक्षणैः। वर्तितव्यं यथान्यायं तदतिक्रमवर्जितैः ॥ १४७ ॥ तदत्र व्यतिकरे महतां वम समाश्रित्याङ्गीकृत्य विचक्षणैः पण्डितैर्वर्तित व्यं यथान्यायं तदतिक्रमवर्जितैर्महद्धर्मातिचाररहितैः ।। एतदेवाह१ B D प्रकारेण Page #74 -------------------------------------------------------------------------- ________________ परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः। तेहत्तदुपकारेऽपि यतितव्यं सदैव हि ।।१४८॥ परपीडा परबाधेह लोके सूक्ष्माप्यास्तां महतीति । किमित्याह "वर्जनीया" परित्यक्तव्या "प्रयत्नतः” सूक्ष्माभोगेन । तद्वत्मयत्नत एव तदुपकारेऽनि यतितव्यमनुष्ठानद्वारेण सदैव हीति ।। तथागुखो देवता विप्रा यतयश्च तपोधनाः । पूजनीया महात्मानः सुप्रयत्नेन चेतसा ॥१४९॥ गुरवो मातापितृप्रमुखाः, देवता सामान्येनैव, विप्रा द्विजाः, यतयश्च प्रबजिताश्च तपोधनाः तद्वन्तः पूजनीया महात्मानः सर्व एवैते यथार्हम् । कथमित्याह " मुश्यत्नेन चेतसा" आज्ञाप्रधानेनेत्यर्थः ।। किं चपापवत्स्वपि चात्यन्तं स्वकर्मनिहतेष्वलम् । अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः ॥१५०॥ पापवत्स्वपि चात्यन्तं लुब्धकादिषु स्वकर्मनिहतेष्वलमत्यर्थमनुकम्पैव सत्त्वेषु न्याय्या न मत्सरो धर्मोऽयमुत्तमः कारणे कार्योपचारादिति ॥ उपसंहरनाहकृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना। तत्पुनः पञ्चमी तावद्योगदृष्टिमहोदया ॥१५॥ Page #75 -------------------------------------------------------------------------- ________________ ( ६५ ) कृतं पर्याप्तमत्र व्यतिकरे प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना सांपतं तत्पुनः प्रकृतं 'पञ्चमी तावद्योगदृष्टिः" स्थिराख्या । किंविशिष्टेत्याह " महोदया" निर्वाणपरमफलेत्यर्थः । एवं सप्रपञ्चं चतुर्थी दृष्टिमभिधाय पञ्चमीमभिधातुमाह । स्थिरायां दर्शनं नित्यं प्रत्याहारखदेव च । कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् ॥ १५२ ॥ स्थिरायां दृष्टौ दर्शनं बोधलक्षणं नित्यमप्रतिपाति निरतिचारायाम् । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुक्तोपायानवबोधकल्पमनित्यमपि भवति, तथाभिचारभावात् । रत्नप्रभायामपि धूल्यादेरुपद्रवः प्रत्याहारवदेव च स्वविषयासंप्रयोगे स्वचि - तस्वरूपानुकारी चेन्द्रियाणां प्रत्याहारः । तद्वदेतदर्शनं कृत्यं वन्दनादि । अभ्रान्तं क्रममधिकृत्य । अत एवानघमनतिचारत्वात् । एतदेव विशेष्यते " सूक्ष्मबोधसमन्वितं " ग्रन्थिभेदाद्वेद्यसंवेद्यपदोपपत्तोरिति ॥ बालधूलीगृह क्रीडातुल्यास्यां भाति धीमताम् । तमोग्रन्थिविभेदेन भवचेष्टाखिलैव हि ॥ १५३ ॥ बालधूलीगृह क्रीडा तुल्या प्रकृत्य सुन्दरत्वास्थिरत्वाभ्यामस्यां स्थिरायां दृष्टौ भाति धीमतां पुंसां, तमोग्रन्थिविभेदेन हेतुना भवचेष्टाखिलैव हि चक्रवर्त्यादिचेष्टारूपापि प्रकृत्य सुन्दरत्वादस्थिरत्वाच्च ॥ मायामरीचिगन्धर्वनगर स्वप्नसंनिभान् । बाह्यान् पश्यति तत्त्वेन भावान् श्रुतविवेकतः ॥ १५४॥ १ B adds महोदया. ९ Page #76 -------------------------------------------------------------------------- ________________ मायामरीचयो मृगवृष्णिका गन्धर्वनगरं हरिश्चन्द्रपुरादि स्वप्नःप्रतीत एव, एतत्संनिभानेतदाकारान् बाह्यान् देहगृहादीन् पश्यति तत्त्वेन परमार्थेन भावान्पदार्थान् । कुत इत्याह' श्रुतविवेकतः सम्यकपरिणतेन श्रुतज्ञानेन ॥ अबाह्य केवलं ज्योतिर्निराबाधमनामयम् । यदत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः ॥ १५५ ॥ अबाह्यमान्तरं केवलमेकं ज्योतिर्ज्ञानमनाबाधममूर्ततया पीडारहितमनामयमरोगम् । अत एव यदत्र लोके परं तत्त्वं वर्तते सदा तथाभावात् । शेषः पुनरुपप्लवस्तथा स्वरूपेण भावादिति ॥ एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः ॥ १५६ ॥ एवमुक्तनीत्या विवेकिन एते धीरा अचपलाः प्रत्याहारपरा उक्तलक्षणप्रत्याहारप्रधानाः । तथा तेन प्रकारेण ।धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वत एवमुक्तनीत्या विवेकेन परिशुद्धस्तत्त्वतः परमार्थेन ते हि भिन्नग्रन्थित्वादुत्तमश्रुतप्रधाना इत्येवमालोचयन्ति ॥ न ह्यलक्ष्मी सखी लक्ष्मीर्यथानन्दाय धीमताम् । तथा पापसखा लोके देहिनां भोगविस्तरः ॥१५७॥ ___ न हि नैवालक्ष्मी सखी लक्ष्मीस्तथोमयपरिभोगेन यथान१ A D insert श्रुत इति २ A D बाधं निरामयम् ३ B C real धर्मबाधापरित्यागप्रयत्नवन्तश्च तथान्त परिश्रः दिस्तत्त्वतः परमार्थेन ते हि । meena Page #77 -------------------------------------------------------------------------- ________________ ( ६७ ) न्दाय धीमतां तथा पापसखा लोके तदविनाभावेन देहिनां भोगविस्तरो नानन्दाय नानुपहत्य भूतानि भोगः सन् भवति भूतोपघाताच्च पापमिति भावना || धर्मभोगः सुन्दर इत्यप्याशङ्कापोहायाह । धर्मादपि भवन् भोगः प्रोयोऽनर्थाय देहिनाम् । चन्दनादपि संभूतो दहयेव हुताशनः ॥ १५८ ॥ धर्मादपि भवन् भोगो देवलोकादौ प्रायो बाहुल्येनानर्थाय देहिनां तथा प्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपभोगनिरासा - थे, तस्य प्रमादजीवत्वायोगात् अत्यन्तानवद्यतीर्थ करादिफल शुद्धेः पुण्यशुद्ध्यादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह "चन्दनादपि संभूतः " तथा शैत्यपकृतेः । किमित्याह " दहत्येत्र हुताशनः " तथास्वभावत्वात् । प्राय एतदेव न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृतादाहासिद्धेः । सकललोकसिद्धमेतदिति ॥ तथा - । भोगात्तदिच्छा विरतिः स्कन्धभारापनुत्तये । स्कन्धान्तरसमारोपस्तत्संस्कारविधानतः ॥ १५९ ॥ भोगात्सकाशात्तदिच्छाविरतिर्भोगेच्छाविरतिस्तात्कालिकी' । किमित्याह " स्कन्धभारापनुत्तये " स्कन्धभारापतुत्यर्थ "स्कन्धा - न्तरसमारोपः " वर्तते । कुत इत्याह "तत्संस्कारविधानतः " तथाकर्मवन्धेनानिष्टभोगसंस्कारविधानात्तत्त्वतस्तदिच्छानिवृत्तेरित्युक्ता पञ्चमी १ A omits भोगेच्छाविरतिः Page #78 -------------------------------------------------------------------------- ________________ (६८) दृष्टिः। सत्यामस्यामपरैरपि योगाचारलौल्यादयो गुणाः' मोच्यन्ते । यथोक्तम् । अलौल्यमारोग्यमनिष्ठुरत्वं । गन्धः शुभो मूत्रपुरीषमल्पम् ॥ कान्तिः प्रसादः स्वरसौम्यता च । योग पत्तेः प्रथमं हि चिह्नम् ॥१॥ मैत्र्यादियुक्तं विषयेष्वचेतः । प्रभाव द्धैर्यसमन्वितं च ॥ द्वन्द्वैरधृष्यत्वमभीष्टलाभः । जनप्रियत्वं च तथापरं स्यात् ॥२॥ दोषव्यपायः परमा च नृत्ति-रौचित्ययोगः समता च गुर्वी ! वैरादिनाशोऽथ ऋतंभराधी निष्पन्नयोगस्य तु चिमेतत् ॥३॥इत्यादि। इहाप्येतदकृत्रिमं गुणजातम् । अत एवारभ्य विज्ञेयम् । तथा च षष्ठी दृष्टिमभिधातुमाह। कान्तायामेतदन्येषां प्रातये धारणा परा। अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदया॥१६०॥ कान्तायां दृष्टावेतदनन्तरोदितं नित्यदर्शनादि । अन्येषां प्रीतये भवति न तु द्वेषाय । तथा धारणा परा प्रधाना चित्तस्य देशबन्धलक्षणा । यथोक्तम् । “देशसंबन्धश्चित्तस्य धारणा ३-१ पा" । अतो धारणातः। अत्र दृष्टौ नान्यमुन्नान्यत्र हर्षः, तदा तत्तत्प्रतिभासायोगात् तथा नित्यं सर्वकालं मीमांसास्ति सद्विचारात्मिका । अत एवाह " हितोदया" सम्यग्ज्ञानफलत्वेन ॥ १ A D लौल्यादिगुणाः २ A जने मि० ३ A प तृप्ति Y C omits the quotation ५ A D omit. Page #79 -------------------------------------------------------------------------- ________________ अमुमेवाथै स्पष्टयन्नाह । अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥१६॥ अस्यामेव दृष्टौ कान्तायां नियोगेन धर्ममाहात्म्यात्कारणात्समाचारविशुद्धितो हेतोः । किमित्याह “प्रियो भवति भूतानां" प्रा. णिनां " धर्मकायमनास्तथा " भवतीति ॥ एतदेवाह । श्रुतधर्मे मनो नित्यं कायस्तस्यान्यचेष्टिते । अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः ॥१६२।। श्रुतधर्म आगमे मनो नित्यं तद्भावनोपपत्तेः कायस्तु काय एवास्याधिकृतदृष्टिमतोऽन्यचेष्टिते सामान्येऽतस्त्वत एव कारणात् । आक्षेपकज्ञानात्सम्यगाक्षेपकज्ञानेन हेतुभूतेन भोगा इन्द्रियार्थसंबन्धा भवहेतवः संसारहेतवो न इति ॥ अमुमेवार्थ दृष्टान्तमधिकृत्याहमायाम्भस्तत्त्वतः पश्यन्ननुदिग्नस्ततो द्रुतम् । तन्मध्येन प्रयायेव यथा व्याघातवर्जितः ॥ १६३ ॥ मायाम्भस्तत्त्वतः पश्यन् मायाम्भस्त्वेनैवानुद्विग्नस्ततो मायाम्भस्तो द्रुतं शीघ्रं तन्मध्येन मायाम्भोमध्येन प्रयात्येव । " यथा" इत्युदाहरणोपन्यासार्थः । व्याघातवर्जितो मायाम्भसस्तत्त्वेन व्याघातासमर्थत्वादिति ॥ A omits, Page #80 -------------------------------------------------------------------------- ________________ ७० ) भोगान्स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् || १६४ || भोगानिन्द्रियार्थ संबन्धान्स्वरूपतः पश्यन्समारोपमन्तरेण तथा तेनैव प्रकारेण मायोदकोपमानसारान भुञ्जानोऽपि हि कर्माक्षिप्तानसङ्गः सन् प्रयात्येव परं पदं, ' अनभिष्वङ्गतया परवशाभावात् ॥ ૧ भोगतत्त्वस्य तु पुनर्न भवदधिलङ्घनम् । मायोदकावेशस्तेन यातीह कः पथा ।। १६५ ॥ भोगतत्त्वस्य तु भोगपरमार्थस्य पुनर्न भवोदधिलङ्घनं तथाबुद्धेस्तदुपायेऽप्रवृत्तेः । आह च "मायोदकदृढावेशः " तथाविपर्यासात् "तेन यातीह कः पथा" यत्र मायायामुदकबुद्धिः । स तत्रैव भवग्निो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽ पि हि तथा भोगजम्बालमोहितः || १६६॥ स मायायाकाशस्तत्रैव पथि भवद्विग्नः सन् । "यथा " इत्युदाहरणोपन्यासार्थः । तिष्ठत्यसंशयं तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हि ज्ञानादिलक्षणे तथा तिष्ठत्यसंशयं भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥ मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात्संदैव हि हितोदयः ॥ १६७॥ मीमांसाभावतः सद्विचारभावेन नित्यं सर्वकालं न मोहोऽस्यां १ B adds तथा २ ० ० वशभावात् Page #81 -------------------------------------------------------------------------- ________________ ( ७१ ) दृष्टौ यतो भवेत् । अतस्तत्त्वसमावेशात्कारणात्सदैव हितोदयोऽस्यां दृष्टाविति ॥ प्रतिपादिता षष्ठी दृष्टिः । सांप्रतं सप्तम्युच्यते । ध्यान प्रिया प्रभावेन' नास्यां रुगत एव हि । तत्त्वप्रतिपत्तिता विशेषेण शमान्विता ॥ १६८ ॥ एवं सत्प्रवृत्तिपदावति पिण्डार्थः ॥ ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकवलनिर्जातं शमसारं सदैव हि ।। १६९ ।। ध्यानजं सुखमस्यां त्वधिकृतदृष्टावेव । किंविशिष्टमित्याह "जितमन्मथसाधनं" व्युदस्तशब्दादिविषयम् । एतदेव विशेष्यते "विवेकवलनिर्जातं” ज्ञानसामर्थ्योत्पन्नम् । अत एव " शमसारं सदैव हि " विवेकस्य शमफलत्वादिति । किं च । सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥ १७० ॥ सर्व परवशं दुःखं तल्लक्षणयोगात्सर्वमात्मवशं सुखमत एव हेतोः । एतदुक्तं मुनिना समासेन संक्षेपेण लक्षणं स्वरूपं सुखदुःखयोरिति ॥ पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । १ B ध्यानप्रिया प्रभा प्रायो C ध्यानप्रिया प्रभा यो 2 BC omit Page #82 -------------------------------------------------------------------------- ________________ (७२) ततश्च दुःखमेवैतत्तल्लक्षणनियोगतः ॥ १७१ ॥ पुण्यापेक्षमापि ह्येवमुक्तनीत्या सुखं परवशं स्थितं पुण्यस्य परत्वात् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगात्तदित्थं ध्यान तात्त्विकं सुखमपरायत्तत्वात्कर्मवियोगमात्रजत्वादिति ॥ । ध्यानं च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥१७२॥ __ ध्यानं च निर्मले वोधे स्पष्टक्षयोपशमसमुत्थे सति । किमित्याह "सदैव हि महात्मनां" मुनीनाम् । एतदेव प्रतिवस्तूपमयाह “क्षीणपायमलं हेम" स्वर्ण “ सदा कल्याणमेव हि" तथावस्थोपपत्तेः ॥ सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसंज्ञितम् । महापथप्रयाणं यदनागामिपदावहम् ॥ १७३ ॥ __ सत्प्रवृत्तिपदं चेह तत्त्वमार्गे । किमित्याह " असङ्गानुष्ठानसंज्ञितं " वर्तते । तथा स्वरसमवृत्तेः । महापथं प्रयाणं यदसङ्गानुष्ठानम् । अनागामिपदावहं नित्यपदनापकामित्यर्थः ।। अस्य नामान्याह । प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवावेति योगिभिर्गीयते ह्यदः ॥१७॥ प्रशान्तवाहितासंगं सांख्यानां, विसभागपरिक्षयो बौद्धानां, शिववर्त्म शैवानां, ध्रुवाध्या महाव्रतिकानामित्येवं योगिभिर्गीयते ह्यदोऽसङ्गानुष्ठानमिति ॥ एतत्प्रसाधयत्याशु यद्योग्यस्यां व्यवस्थितः। १८ दुःखमेवैतद्धयानजं तात्त्विकं मुखम् ।। Page #83 -------------------------------------------------------------------------- ________________ ( ७३ ) एतत्पदा व तंत्रविदां मता ॥ १७५ ॥ एतदसङ्गानुष्ठानं प्रसाधयत्याशु शीघ्रं ययोग्यस्यां दृष्टौ व्यवस्थितः सन् । एतत्पदा हैषैव दृष्टिस्तत्तत्रैतद्विदां मतेष्टेति ॥ उक्ता सप्तमी दृष्टिः । अधुनानन्तरोच्यते । तदाह | समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥ १७६ ॥ समाधिनिष्ठा तु पराष्टमी दृष्टिः समाधिस्तु ध्यानविशेषः फलमित्यन्ये । यथोक्तं "देशवन्धश्वित्तस्य धारणा " ( ३- १ पा ) " तत्र प्रत्ययैकतानता ध्यानं" (३-२ पा ) " तदेवार्थमात्र निर्भासं स्वरूपशून्यमिव समाधिः " ( ३ - ३ पा ) इति ॥ तदासङ्गविवर्जिता समाध्यासङ्गविवर्जिता भूतप्रवृत्तिश्चैषा चन्दनगन्धन्यायेन । तदुत्तीर्णा - शयेति वासचित्ताभावेन ॥ निराचारपदो स्यामतिचारविवर्जितः । आरूढारोहणाभावगतिवत्त्वस्य चेष्टितम् ॥ १७७ ॥ निराचारपद एवास्यां दृष्टौ योगी भवति प्रतिक्रमणाद्यभावात् । अतिचारविवर्जितस्तनिबन्धनाभावेन ! आरूढारोहणाभावगतिवत्त्वस्य योगिनश्चेष्टितं भवति, आचारजेयकर्माभावात्, निराचारपद इत्यर्थः ॥ कथं भिक्षाटनाद्याचारोऽस्येत्याशङ्कापनोदायाह । रत्नादिशिक्षादृग्भ्योऽन्या यथा दृक्तन्नियोजने । तथाचारक्रियाप्यस्य सैवान्या फलभेदतः ॥ १७८ ॥ रत्नादिशिक्षाग्भ्यः सकाशादन्या भिन्नैव यथा हक्तन्नियोजने १० Page #84 -------------------------------------------------------------------------- ________________ (७४) रत्नादिनियोजने शिक्षितस्य सतः । तथाचारक्रियाप्यस्य योगिनः सैव भिक्षाटनादिलक्षणान्या भवति । कुत इत्याह " फलभेदतः" प्राक् सांपरायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिकर्मक्षय इति ॥ तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् । तथायं धर्मसंन्यासविनियोगान्महामुनिः ॥ १७९ ॥ तन्नियोगादत्ननियोगान्महात्मेह लोके कृतकृत्यो यथा भवेत्कश्चिद्रत्नवणिक् । तथायमधिकृतयोगी धर्मसंन्यासविनियोगात्सकाशान्महामुनिः कृतकृत्यो भवतीति ॥ तथा। द्वितीयाऽपूर्वकरणे मुख्योऽयमुपजायते | केवलश्रीस्ततश्वास्य निःसपत्ना सदोदया ॥१८०॥ द्वितीयाऽपूर्वकरणे श्रेणिवर्तिनि मुख्योऽयं धर्मसंन्यास उपजायत उपचरितस्तु प्रमत्तसंयतादारभ्य, केवलश्रीस्ततश्च धर्मसंन्यासविनियोगादस्य योगिनो निःसपत्ना केवलश्रीः सदोदया प्रतिपाताभावेन ॥ सिंहावलोकितनीत्याधिकृतवस्तुनिर्धारणायाह । स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया। चन्द्रिकावच विज्ञानं तदावरणमभ्रवत् ॥ १८१ ॥ स्थितो न स्थापनीयः, शीतांशुवचन्द्रवज्जीव आत्मा प्रकृत्या त्मीयया भावशुद्धया तत्त्वशुद्धयेत्यर्थः । तथा वा चन्द्रिकावच्च ज्योस्नावच विज्ञानं केवलाद्युपमामात्रमेतत्तदावरणं ज्ञानावरणमभ्रवन्मेघपटलवदित्यर्थः॥ Page #85 -------------------------------------------------------------------------- ________________ ( ७५ ) प्रकृतयोजनमाह। घातिकाभ्रकल्प तदुक्तयोगानिलाहतेः। यदापैति तदा श्रीमान् जायते ज्ञानकेवली ॥१८२॥ घातिकर्म ज्ञानावरणीयादि । तथा । ज्ञानावरणीयं, दर्शनावरणीयं, मोहनीयं, अन्तरायं चेति । एतदभ्रकल्पं वर्तते तद्धातिकर्मोक्तयोगानिलाहतेरनन्तरोदितयोगवायुघातादित्यर्थः । यदापैति श्रेणिपरिसमाप्तौ तदा श्रीमानसौ मुख्यविक्रमयोगेन जायते ज्ञानकेवली सर्वज्ञ इत्यर्थः ॥ __ अत एवाह । क्षीणदोषो ऽथ सर्वज्ञः सर्वलब्धिफलान्वितः । परं परार्थे संपाद्य ततो योगान्तमश्नुते ॥ १८३ ॥ क्षीणदोषः सकलरागादिपरिक्षयेण । अथ तदैव । सर्वज्ञो निरावरणज्ञानभावेन सर्वज्ञ इत्यर्थः । सर्वलब्धिफलान्वितः सर्वोत्सुक्यनिवृत्त्या । परं परार्थ संपाद्य यथाभव्यं सम्यक्त्वादिलक्षणम् । ततो योगान्तमश्नुते योगपर्यन्तमानोति । तत्र दागेव भगवानयोगाद्योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् ॥ ८४॥ तत्र योगान्ते शैलेश्यवस्थायां दागेव' शीघ्रमेव इस्वपञ्चाक्षरोगिरणमात्रेण कालेन भगवानसावयोगादव्यापाराद्योगसत्तमाद्योगमधानात् , शैलेशीयोगादित्यर्थः । किमित्याह "भवव्याधिक्षयं कृत्वा" १C omits सर्वज्ञ इत्यर्थः २० प्रागेव. Page #86 -------------------------------------------------------------------------- ________________ ( ७६ ) सर्वप्रकारेण " निवार्ण लभते परं" भावनिर्वाणमित्यर्थः॥ तत्रायं कीदृश इत्याह । व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न चनो मुक्तो व्याधिनाव्याधितो न च।१८५/ व्याधिमुक्तो व्याधिपरिक्षीणः पुमान् याशो भवतीति तादृशो ह्ययं नितो नाभावः अध्यातदीपकल्पोपमो न च नो मुक्तो व्याधिना मुक्त एव भव्यत्वपरिक्षयेणाच्याधितो न च पूर्व तयातद्भावादिति ॥ अमुमेवार्थ स्पष्टयन्नाह । भव एव महाव्याधिर्जन्ममृत्युविकारखान। विचित्रमोहजननस्तीत्ररागादिवेदनः ॥ ८६ ॥ भवः संसार एव महाव्याधिः । किविशिष्ट इत्याह "जन्ममृत्यु. विकारवान् " जरायुपलक्षणमेतत् । विचित्रमोहजननो मिथ्यात्वोदय भावेन तीव्ररागादिवेदनः रूयाद्यभिष्वङ्गभावेन ॥ मुख्योऽयमात्मनो ऽनादिचित्रकर्मनिदानजः । तथानुभवसिद्धत्वात्सर्वप्राणभृतामिति ॥ १८७ ॥ मुख्यो निरुपचरितोऽयं भवव्याधिरात्मनो जीवस्य । किंभूत इत्याह "अनादिचित्रकर्मनिदानजः" द्रव्यभावभेदभिन्नकर्मबलोत्पन्न इत्यर्थः । कुत इत्याह " तथानुभवसिद्धत्वात् " जन्माउनुभवेन " सर्वप्राणभृतामिति" तिर्यप्रभृतीनामपि ॥ १ C सर्वाकारेण. २ B C omit व्याधि. ३ B ( marginal addition ) मिथ्यात्वोदयभावेन, Page #87 -------------------------------------------------------------------------- ________________ ( ७७ ) एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते । जन्मादिदोषविगमात्तददोषत्वसंगतः ॥ १८८ ॥ एतेन भवव्याधिना मुक्तश्च मुक्तो ऽपि सिद्धः । मुख्य एवोप. पद्यते प्रवृत्तिनिमित्तभावात् । तथा चाह " जन्मादिदोपविगमात् " कारणात्तददोपत्वसंगतस्तस्य दोपवतो ऽदोपत्वप्राप्तेरिति ॥ अमुमेवार्थ स्पष्टयन्नाह। तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः। तस्यैव हि तथाभावात्तददोषत्वसंगतिः ॥ १८९ ॥ तस्यात्मनः स्वभावोपमर्देऽपि सति जन्मादिभावविगमेन तत्तस्वाभाव्ययोगतस्तत्तत्स्वाभाव्यं तेन योगात् । तथाहि तस्येत्थंभूत एव स्वभावो येन स एव तथा भवतीति । ततश्च तस्यैव हि तथाभावाजन्मादित्यागतो जन्मायतीतत्वेन भावात् । किमित्याह " तददोषत्वसंगतिः " दोषवत एवादोपत्वप्राप्तिरित्यर्थः ॥ इत्थं चैतदङ्गीकर्तव्यमित्याह । स्वभावोऽस्य स्वभावो यनिजा सत्तैव तत्त्वतः । भावावधिरयं युक्तो नान्यथातिप्रसङ्गतः ॥ १९० ॥ स्वभावोऽस्यात्मनः स्वभावो यद्यस्मात् । किमुक्तं भवति "निजा सत्तैव तत्त्वतः " परमार्थेन । भावावधिरयं युक्तः स्वभावोऽनन्तरोदितः । नान्यथा युक्तः । कुत इत्याह " अतिप्रसङ्गतः " इति ।। १ ( गोगतस्तस्य तत्स्वाभाव्यं. २ A omits Page #88 -------------------------------------------------------------------------- ________________ एनमेवाह । अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाविरोधान्नित्योऽसौ स्यादसन्वा सदैव हि ॥ १९१ || ( ७८ ) अनन्तरक्षणाभूतिः प्राक्पश्चात्क्षणयोरभृतिरित्यर्थः । आत्मभूतेह यस्य तु वर्तमानस्य वादिनो वा । तस्य दोषमाह " तथा " अनन्तरक्षणाभूत्या " अविरोधात " कारणाद्वर्तमानभावेन । किमित्याह "नित्योऽसौ " वर्तमानः " स्यात् " तद्वत्सदातद्भावादिति । पक्षान्तरमाह " असन्वा सदैव हि " तयाविरोधेन तदग्रस्तत्वादिति ॥ परोक्तिमात्र परिहारायाह । स एव न भवत्येतदन्यथाभवतीतिवत् । विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा ॥ ९९२ ॥ ." स एव " इति भावपरामर्शः । न भवतीति चाभावाभिधा नमेतत् । किमित्याह " अन्यथाभवतीतिवत्' इति निदर्शनम् । विरुद्धं व्याहतम् । तन्नयादेव स हि स एवान्यथाभवतीत्युक्ते । एवमाह । कथमन्यथा भवति; अन्यथा चेद्भवति कथं स इति । एतच्च स एव न भवतीत्यत्रापि समानमेव । तथाहि । यदि स एव कथं न भवति, अभवत्वात्कथं स इति विरुद्धमेतत् | अभ्युच्चयमाह " तदुत्पच्यादितः " इत्यभावोत्पत्त्यादेः " तथा " विरुद्धमिति ॥ एतद्भावनयैवाह | १ B भवतीति च । २. A adds बौद्धः Page #89 -------------------------------------------------------------------------- ________________ (90) सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः || १९३ || २ सतो भावस्यासत्त्वेऽभ्युपगम्यमाने " स एव न भवति " इति वचनात् । किमित्याह " तदुत्पादः " इत्यसत्त्वोत्पादः कादाचित्कत्वेन । तत उत्पादान्नाशो ऽपि तस्यासत्त्वस्य यदुत्पत्तिमत्तद नित्यं' इति कृत्वा । यद्यस्मात् । एवं तत्तस्मान्नष्टस्यासत्त्वस्य पुनभवस्तेनैव रूपेण तदसत्त्वविनाशान्यथानुपपत्तेः । अथ नाशो नाशात्मना भावात्माक्पश्चाच्चावस्थित एव । एतदाशंक्याह " सदा नाशे " अभ्युपगम्यमाने । किमित्याह " न तत्स्थितिः " विवक्षितक्षणे ऽपि तन्नश्यति ॥ सक्षणस्थितिधर्माचेद् द्वितीयादिक्षणे स्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः || १९४ ॥ स नाशः क्षणस्थितिधर्मा चेद्भाव एव । एतदाशंक्याह " द्वितीया दिक्षणे स्थितौ " सत्याम् । किमित्याह " युज्यते ह्येतदपि " क्षणस्थितिधर्मकत्वं " अस्य " अधिकृतभावस्य । तथा चैवं सत्युकानतिक्रमः ॥ कथमित्याह । क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्तयसंगतेः । न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् ॥ १९५॥ क्षणस्थितौ सत्यां तदैव विवक्षितक्षणे ऽस्य विवक्षितभावस्यैव १ BComit २ B C ० नष्टस्य सत्त्वस्य. Page #90 -------------------------------------------------------------------------- ________________ ( ८० ) नास्थितिः । कुत इत्याह “युक्त्यसंगतः। तदैवास्थितिविरोधादिति युक्तिः । न पश्चादपि द्वितीयक्षणे साऽस्थितिन युक्त्यसंगतेरेव तदावस्थितौ तदस्थितिविरोधादिति युक्तिः । इत्येवं सतोऽसत्वं व्यवस्थितम् । ततश्च सतोऽसच्चे तदुत्पाद इत्यायनुवर्तत एवेति ॥ नित्यपक्षमधिकृत्याह । भवभावानिवृत्तावप्ययुक्ता मुक्तकल्पना । एकान्तकस्वभावस्य न ह्यवस्थादयं कचित् ॥ १९६॥ भवभावानिवृत्तावप्येकान्तनित्यतायाम् । किमित्याह । “अ. युक्ता मुक्तकल्पना" आत्मनः । कथमयुक्तेत्याह " एकान्तकस्वभावस्य" अपच्युतानुत्पन्नस्थिरैकस्वभावतायाः " न हि यस्मात् " "अवस्थाद्वयं " संसारिमुक्तारूयं "कचित" एकान्तकस्वभावत्वविरोधात् ॥ तदभावे च संसारी मुक्तश्चेति निरर्थकम् । तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् ॥१९७॥ तदभावे चावस्थाद्वयाभावे च संसारी तिर्यगादिभाववान मुक्तो भवप्रपञ्चोपरमादित्येतनिरर्थकं शब्दमात्रमेव च । अर्थायोगादिति । तत्तथा स्वभावोपमर्दस्तदन्तरेण तदन्तरापनयनलक्षणः । अस्यात्मनः। नीत्या न्यायेन । किमित्याह " तात्त्विक इप्यतां" पारमार्थिको ऽभ्युपगम्यतामिति ॥ दिदृक्षाद्यात्मभूतं तत्सुखमस्यानिवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः ॥ १९८ ॥ Comits Page #91 -------------------------------------------------------------------------- ________________ (८१ ) दिक्षा विद्यामलभवाधिकाराद्यात्मभूत सहज वस्तुसत् । तत्तस्मान्मुख्यमनुपचरितमेवास्यात्मनोऽनिवर्तत इति । किंभूतं तदित्याह “ प्रधानादिनतेः " प्रधाननयादिपरिणतेः २ " हेतुः " कारणम् । तदभावादिक्षायभावान्न तन्नतिन प्रधानादिपरिणतिर्मुक्तात्मन इति ।। अन्यथा स्यादियं नित्यमेषा च भव उच्यते । एवं च भवनित्यत्वे कथं मुक्तस्य संभवः ॥ १९९ ॥ इत्थं चैतदङ्गीकर्तव्यं, अन्यथैवमनभ्युपगम्यमाने स्यादियं प्रधानादिनतिनित्यं सदैव । ततः किमित्याह " एषा च" प्रधानादिनतिः "भव उच्यते " संसारोऽभिधीयते, एतन्नतौ तदात्मकमहदादिभावात् । एवं चोक्तनीत्या भवनित्यत्वे सति कथं मुक्तस्य संभवः ?। नैवेत्यर्थः ।। अवस्था तत्त्वतो नो चेन्ननु तत्प्रत्ययः कथम् । भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते ॥ २००॥ अवस्था तत्त्वतः परमार्थेन नो चेत्पूर्वापरभावेन । तदाशंक्याह " ननु तत्प्रत्ययः" अवस्थाप्रत्ययः । कथं " निबन्धनाभावेन । स्यादेतत् । तद्भ्रान्तो ऽयमवस्थाप्रत्ययः । तत्किमनेनेत्येतदाशंक्याह "मानमत्र" भ्रान्तायां " न विद्यते " ॥ योगिज्ञानं तु मानं चेत्तदवस्थान्तरं तु तत् । ततः किं भ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता ॥२०१॥ १ । कथंभूतं २ A D omit नय ३ B owit: Page #92 -------------------------------------------------------------------------- ________________ (८२) योगिज्ञानं तु' योगिज्ञानमेव प्रमाणं चेदत्र । एतदाशंक्याह " तदवस्थान्तरं तु" योग्यवस्थान्तरमेव " तत्" योगिज्ञानम् । ततः किमित्येतदाशंक्याह "भ्रान्तमेतत्ल्यात्" योगिज्ञानं, "अन्यथा" अभ्रान्तत्वे ऽस्य । किमित्याह "सिद्धसाध्यता" अवस्थाभेदोपपत्तेरिति ॥ उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः । तच “सिद्धस्वरूपव्याधिमुक्तः पुमान् लोके " इत्याद्युपन्यासात् । तत्र । व्याधितस्तदभावो वा तदन्यो वा यथैव हि । व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते ॥ २०२ ॥ व्याधितः संजातव्याधिरेव, तदभावो वा तदन्यो वा व्याधितान्यो वा तत्पुत्रादिर्यथैव हि व्याधिमुक्तो न त्रयाणामेकोऽपि सन्नीत्या सन्न्यायेन कदाचिदुपपद्यत इति दृष्टान्तः ॥ दार्टान्तिकयोजनमाह । संसारी तदभावो वा तदन्यो वो तथैव हि । मुक्तोऽपि हन्त नो मुक्तो मुख्यवृत्त्येति तदिदः ॥२०॥ संसारी पुरुषः । तदभावो वा पुरुषाभावमात्रमेव । तदन्यो वै. कान्तलक्षणः । तथैव हि यथा दृष्टान्ते । किमित्याह " मुक्तो ऽपि हन्त नो मुक्तो मुख्यवृत्त्या " त्रयाणामपि तत्प्रवृत्तिनिमित्ताभावात् " इति तद्विदः " मुक्तविद इत्थमभिदधतीति ।। कथं तर्हि मुक्तव्यवस्थेत्याह । ? B omits २ A udds संसारी Page #93 -------------------------------------------------------------------------- ________________ (८३) क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः । भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् ॥२०४ ॥ क्षीणव्याधिः पुरुषः । यथा लोकेऽविगानेन व्याधिमुक्त इति तत्तदभावेन स्थितो न स्थापनीयः । भवरोग्येव न मुख्यतद्भावेन तथा व्याधिमुक्तस्तन्त्रेषु स्थितः । तत्क्षयादिति भवरोगक्षयादित्यर्थः ।। एवं प्रकृतमभिधाय सर्वोपसंहारमाह । अनेकयोगशास्त्रेभ्यः संक्षेपेण समुद्धतः । दृष्टिभेदेन योगोऽयमात्मानुस्मृतये परः ॥ २०५॥ __ अनेकयोगशास्त्रेभ्यः पातञ्जलादिभ्यः संक्षेपेण समासेन समुद्धतस्तेभ्यः पृथकृतः, नवनीतमिव क्षीरादिति । केन क इत्याह " दृष्टिभेदेन" उक्तलक्षणेन “योगोऽयं " अधिकृत एव । किमर्थमित्याह । आत्मानुस्मृत्यर्थ परः प्रधानो योग इति ।। प्रयोजनान्तरमप्याह । कुलादियोगभेदेन चतुर्धा योगिनो यतः। अतः परोपकारोऽपि लेशतो न विरुध्यते ॥ २०६॥ कुलादियोगभेदेन गोत्रकुलप्रवृत्तचक्रनिष्पन्नयोगलक्षणेन चतुर्थी चतुःप्रकारा योगिनो यतः सामान्येन । अतः किमित्याह " परोपकारोऽपि" तथाविधकुलादियोग्यपेक्षया " लेशतो न विरुध्यते " मनागतोऽपि योगपक्षपातादिति भावात् ।। तदत्र। १B प्रस्तुत Page #94 -------------------------------------------------------------------------- ________________ ( ८४ ) कुलप्रवृत्तचका ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथा सिद्धादिभावतः ॥२०७॥ कुलमत्तचक्रा ये कुलयोगिनः प्रवृत्तचक्राश्च य इत्यर्थः । एते चास्य योगशास्त्रस्याधिकारिणोऽहीं योगिनो न तु सर्वेऽपि सामान्येन । कुत इत्याह " तथा " तेन प्रकारेण “सिद्धयादिभावतः" गोत्रयोगिनामासिद्धिभावात् , आदिशब्दात्तु निप्पन्नयोगिनां तु सिद्धिभावादिति ॥ एतद्विशेषलक्षणमाह । ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥ २०८ ॥ __ ये योगिनां कुले जाता जन्मनैव तद्धर्ममुपगताश्च योगिधर्मानुग : ताच ये प्रकृत्यान्येऽपि । “कुलयोगिन उच्यन्ते " इति गम्यते । द्रव्यतो भावतश्च गोत्रवन्तोऽपि सामान्येन भूमिभव्या अपि नापरे कुलयोगिन इति ॥ एतद्विशेषलक्षणमधिकृत्याह । सर्वत्रादेषिणश्चैते गुरुदेवद्विजप्रियाः। दयालवो विनीताश्व बोधवन्तो यतेन्द्रियाः ॥ २०९॥ सर्वत्राद्वेषिणश्चैते तथा ग्रहाभावेन तथा गुरुदेव द्विजमिया धर्मप्रभावात् । तथा दयालवः प्रकृत्या क्लिष्टपापाभावेन विनीताश्च कुशलानुवन्धिभव्यतया । तथा बोधवन्तो ग्रन्थिभेदेन यतेन्द्रियाश्चारित्रभावेन।। प्रवृत्तचक्रास्तु पुनर्यमद्दयसमाश्रयाः। शेषडयार्थिनोऽत्यन्तं शुश्रुषादिगुणान्विताः ॥ २१० ॥ Page #95 -------------------------------------------------------------------------- ________________ (८ ) प्रवृत्तचक्रास्तु पुनः किंविशिष्टा भवन्तीत्याह " यमद्वयसमाश्रयाः" इच्छायमप्रवृत्तियमाश्रया इत्यर्थः “शेषद्वयार्थिनः" स्थिरयमसिद्धियमद्वयार्थिन इत्युक्तं भवति । अत्यन्तं सदुपायप्रत्त्येति । अत एवाह " शुश्रूषादिगुणान्विताः" शुश्रूषाश्रवणग्रहणधारणविज्ञानेहापोहतत्वाभिनिवेशगुणयुक्ताः ।। तथा । आद्यावञ्चकयोगाच्या तदन्यदयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ।। २११ ।। आद्यावश्चकयोगाच्या हेतुभूतया तहन्यद्वयलाभिनः क्रियावञ्चकफलावश्चकद्वयलाभिनः, तदवन्थ्यभव्यतयैवंभूताः । किमित्थाह' " अधिकारिणः” । कस्येत्याह । योगप्रयोगस्याधिकृतस्येत्येवं तद्विदो योगविदः । " अभिदधति " इति शेषः ।। उपन्यस्तयमादिस्वरूपमाह। इहाहिंसादयः पञ्च सुप्रसिद्धा यमाः मताम् । अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः ॥ २१२ ॥ इह लोके ऽहिंसादयो धर्माः पञ्च संख्यया सुप्रसिद्धाः सर्वतन्त्रसाधारणत्वेन यमा उपरमा प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति सतां मुनीनाम् । किपर्यन्ता इत्याह " अपरिग्रहपर्यन्ताः" "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा गमाः"(२-३० पा) इति वचनात्। १ A onits आह २ Cविकारिणः ३ B C omit प्रत्तियमाः स्थिरयमाः सिद्धियमा Page #96 -------------------------------------------------------------------------- ________________ ( ८६) तथेच्छादिचतुर्विधाः प्रत्येकमिच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति ॥ एतेषां विशेषलक्षणमाह । तत्कथाप्रीतियुता तथाविपरिणामिनी। यमेष्विच्छावसेयेह प्रथमो यम एव तु ॥ २१३ ।। ___ तद्वत्कथामीतियुता यमवत्कथाप्रीतियुता । तथाविपरिणामिनी तद्भावस्थिरत्वेन । यमेतलक्षणेषु । इच्छा अवसेयेह यमचक्र । इयं च प्रथमो यम एव तु, अनन्तरोदितलक्षणेच्छैवेच्छायम इति कृत्वा ॥ तथा । सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् ॥ २१४ ॥ सर्वत्र सामान्येन शमसारं तूपशमसारमेव यत्क्रियाविशिष्टं यमपालनं प्रत्तिरिह विज्ञेया यमेषु द्वितीयो यम एव तत्पत्तियम इत्यर्थः॥ विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि ॥ २१५ ॥ १ A omits from किंपयन्ता, D omits इच्छायमाः इति ॥ २८ यत ३ D तु ४BC omit Page #97 -------------------------------------------------------------------------- ________________ विपक्षचिन्तारहितमतिचारादिचिन्तारहितमित्यर्थः । यमपालनमेव यद्विशिष्टक्षयोपशमवृत्त्या । तत्स्थैर्यमिह विज्ञेयं यमेषु । एतच्च तूतोयो यम एव हि स्थिरयम इति योऽर्थः ॥ परार्थसाधकं खेतत्सिद्धिः शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ॥२१६॥ परार्थसाधकं त्वेतद्यमपालनं सिद्धिरभिधीयते । एतच शुद्धान्तरात्मनो नान्यस्य । अचिन्त्यशक्तियोगेन तत्संनिधौ वैरत्यागात् । इत एतच्चतुर्थो यम एव तु सिद्धियम इति भावः ॥ अवश्चकस्वरूपमाह। मद्भिः कल्याणसंपन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते ॥ २१७ ॥ सद्भिः कल्याणसंपन्नविशिष्टपुण्यवद्भिः । दर्शनादपि पावनैरवलोकनेनापि पवित्रैः । तथा तेन प्रकारेण गुणवत्तया विपर्ययाभावेन दर्शनं तथादर्शनम् । ततस्तेन यो योगः संबन्धस्तैः सह स आद्यावश्वक इष्यते सद्योऽवश्चक इत्यर्थः ॥ तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः॥ २१८ ॥ तेषामेव सतां प्रणामादिक्रियानियम इत्यलम् । क्रियावश्चकयोगः स्याद्भवेदिति । अयं च महापापक्षयोदयो नीचैर्गोत्रकर्मक्षयकृदिति भावः ॥ १ । अचित्तसिद्धियोगेन Page #98 -------------------------------------------------------------------------- ________________ (66) फलावञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिर्धर्मसिद्धौ सतां मता ॥ २१९ ॥ 46 " फलावञ्चकयोगस्तु चरमो योगोत्तमः । किंभूत इत्याह एव " अनन्तरोदितेभ्यः “ नियोगतः " अवश्यंतया " सानुबन्धफलावाप्तिः " तथा सदुपदेशादिना " धर्मसिद्धौ " विषये " सतां मता " इति ॥ एवमेतेषां स्वरूपमभिधाय प्रकृतयोजनमाह । कुलादियोगिनामस्मान्मत्तोऽपि ' जडधीमताम् । श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः ।। २२० ।। कुलादियोगिनामुक्तलक्षणानामस्माद्योगदृष्टिसमुच्चयान्मत्तोऽपि सकाशाज्जड धीमतामन्येषाम् । किमित्याह " श्रवणात् पक्षपातादेः " पक्षपातशुभेच्छादेः पक्षपात शुभेच्छादे: "उपकारोऽस्ति लेशतः " तथा वीजपुष्टा ॥ " श्रवणेन 66 कः पक्षपातमात्रा दुपकार इत्याशङ्कापोहायाह । तात्त्विकः पक्षपातच भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोखि ॥। २२१ ।। ताविकः पक्षपातश्च परमार्थिक इत्यर्थः । भावशून्या प्रतिक्रिय (इतिक!) योरिवेत्याह " भानुखद्योतयोरिव " महदन्तरमित्यर्थः ॥ तथा चाह । खद्योतकस्य यत्तेजस्तदत्यं च विनाशि च । ? A omits सद्ध्य Page #99 -------------------------------------------------------------------------- ________________ विपरीतमिदं भानोरिति भाव्यमिदं बुधैः ॥२२२।। खद्योतकस्य सत्त्वविशेषस्य यत्तेजः प्रकाशात्मकम् । तत्किमित्याह " अल्पं च विनाशि च " स्वरूपेण । विपरीतमिदं भानो. बहविनाशित्वादित्यस्येति । इत्येवंभावं भाव्यमिदमधिकृतपक्षपातादेत. क्रियादिकं बुधैस्तत्त्वनीत्येति ।। विशेषमाह । श्रवणे प्रार्थनीयाः स्युन हि योग्याः कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः॥२२॥ श्रवणे श्रवणविषये प्रार्थनीयाः स्युभवेयुः। न हि योग्याः कदाचन, शुश्रूषाभावेन स्वतः प्रत्तेः । तथा चाह " यत्नः कल्याणस. वानां " पुण्यवतां " महारत्ने" चिन्तामण्यादिविषयः "स्थितो यतः " तथौचित्ययोगेन, पक्षपातादेरपि जन्मान्तरावाप्तिश्रुतेः ॥ अयोग्यदानदोषपरिहारायाह । नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु । हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् ॥ २२४ ॥ नैतद्विदस्त्वाचार्या अयोग्येभ्योऽन्येभ्यो ददति यच्छन्त्येनं योगदृष्टिसमुच्चयाख्यं ग्रन्थम् । तथापि त्वेवमपि व्यवस्थिते । हरिभद्रो ग्रन्थकदिदं प्राह । किमित्याह " नैतेभ्यः" अयोग्येभ्यः "देयः" अयं योगदृष्टिसमुच्चयः " आदरात्" आदरेण इदं प्राह ॥ किमेतदेवमित्याह । १ A अरूपेण Page #100 -------------------------------------------------------------------------- ________________ (92) अवज्ञह कृताल्पापि यदनाय जायते / 'अतस्तत्परिहारार्थं न पुनर्भावदोषतः // 225 / / अवज्ञह योगदृष्टिसमुच्चयाख्ये ग्रन्ये कृताल्पापि स्वरूपण / यद्यस्मात् / अनर्थाय जायते महाविषयत्वेन / अतस्तत्परिहारार्थ न पुनभर्भावदोषतः क्षुद्रतया हरिभद्र इदं प्राहेति // इत्थं चैतदङ्गीकर्तव्यम् / यत एवाह / योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः। मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये // 226 // ___ योग्येभ्यस्तु श्रोतृभ्यः प्रयत्नेनोपयोगसारण देयोऽयं विधिना श्रवणादिगोचरेणान्वितैर्युक्तैः,दोषोऽन्यथा प्रत्यवायसंभवादित्याचार्याः। मात्सर्यविरहेण मात्सर्याभावेनोचैःश्रेयोविघ्नप्रशान्तये पुण्यान्तरायमशान्त्यर्थमिति // - - - समाप्तोऽयं योगदृष्टिसमुच्चयः कृतिः श्रीश्वेतभिक्षोराचार्यश्रीहरिभद्रस्येति॥ down to appear in the ? A omits from here commentary.