SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ विशिष्ट इत्याह " महानर्थकरः परः " महानर्थकरणशीलः " परः" प्रधान इति ॥ इहैव निदर्शनमाहनिशानाथप्रतिक्षेपो यथान्धानामसंगतः। तद्भेदपरिकल्पश्च तथैवाग्दिशामयम् ॥ १३८ ॥ निशानाथप्रतिक्षेपश्चन्द्रप्रतिक्षेपः । यथान्धानां चक्षुर्विकलानामसंगतो नीत्या तद्देदपरिकल्पश्च निशानाथभेदपरिकल्पश्च वक्रचतुरसत्वादिः । तथैवाग्दिशां छमस्थानामयं सर्वज्ञप्रतिक्षेपः, तद्भेदपरिकल्पश्चासंगत इति ॥ किं च- . न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिबाछेदाधिको मतः ॥१३९॥ न युज्यते प्रतिक्षेपो निराकरणरूपः सामान्यस्यापि कस्यचित्पुरुषादेः । तत्तस्मात् । सतां मुनीनाम् । आर्यापवादस्तु पुनः सर्वज्ञपरिभव इत्यर्थः । किमित्याह "जिहाछेदाधिको मतः" तथाविधप्रत्यपायभावेन । किंचकुदृष्ट्यादिवन्नो सन्तो भाषन्ते प्रायसः कचित्। निश्चितं सारखच्चैव किं तु सत्त्वार्थकत्सदा ॥ १४० ॥ कुदृष्ट्यादिवत्कुत्स्यमित्यादि नो सन्तो मुनयो भाषन्ते कचित् । कथं तर्हि भाषन्त इत्याह "निश्चितं" असंदिग्धं "सारवच्चैव" नापार्थकम्। "किं तु सत्त्वार्थकृत " परार्थकरणशीलं " सदा " भाषन्ते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy