SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ( ५६ ) असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥ १२४ ॥ __ असंमोहसमुत्थानि पुनर्यथोदितासंमोहनिबन्धनानि तु । एकान्त. परिशुद्धितः कारणात् , परिपाकवशेन । किमित्याह “निर्वाणफलदान्याशु" शीघ्रं तान्येव कर्माणि । केषामित्याह " भवातीतार्थया. यिनां" सम्यक्परतत्त्ववेदिनामित्यर्थः ॥ एतेषामेव लक्षणमाह । प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥ १२५ ॥ प्राकृतेष्विह भावेषु शब्दादिषु बुद्धिपर्यवसानेषु येषां चेतो निरुत्सुकं, निःसातासमावेशात् । भवभोगविरक्तारत एवंभूता जीवा मुक्तकल्पा भवातीतार्थयायिन उच्यन्ते, भवचित्तासंस्पर्शादिति ॥ एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थामेदभेदेऽपि जलधौ तीरमार्गवत् ॥ १२६ ॥ एक एव तु मार्गों ऽपि चित्तविशुद्धिलक्षणः । तेषां भवातीताययायिनां शमपरायणः शमनिष्ठः । अवस्थाभेदभेदेऽपि गुणस्थानकभेदापेक्षया । जलधौ तीरमार्गवदिति निदर्शनम् । अवस्थाभेदश्चेह तदूरासन्नतादिभेदेन ॥ परतत्त्वाभिधित्सयाहसंसारातीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदे ऽपि तत्त्वतः ॥१२॥ १ B C तथैकमेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy