SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सदनुष्ठानलक्षणमाह । आदरः करणे प्रीतिरविघ्नः संपदागमः । जिज्ञासा तन्निसेवा च सदनुष्ठानलक्षणम् ।।१२१|| आदरो यत्नातिशय इष्टादौ करणे । प्रीतिरभिष्वङ्गात्मिका । अविघ्नस्तत्करण एवाष्टसामर्थ्यात् । संपदागमः । तत एव शुभभावपुण्यसिद्धेर्जिज्ञासेष्टादिगोचरैव तन्निसेवा चेष्टोदिता सेवा, चशब्दात्तदनुग्रहग्रहः । एतत्सदनुानलक्षणं, अनुबन्धसारत्वादस्य ।। ( ५५ ) तत्र - बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ॥ १२२ ॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येव सामान्येनेह लोके देहिनां प्राणिनाम् । किमित्याह " संसारफलदान्येव " अशास्त्रपूर्वकत्वात् । तथा चाह " विपाकविरसत्वतः " इति तेषां नियोगत एव विपाकविरसत्वादिति ॥ ज्ञानपूर्वाणि तान्येव मुक्तयङ्ग कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥ १२३ ॥ ज्ञानपूर्वाणि यथोदितज्ञाननिबन्धनानि तान्येव कर्माणि । किमित्याह "मुक्त्यङ्ग" भवन्ति "कुलयोगिनां" वक्ष्यमाणलक्षणानाम् । कुलयोगिग्रहणमन्यासंभवज्ञापनार्थम् । कुत इत्याह “ श्रुतशक्तिसमावेशात् " हेतोः । अमृतशक्तिकल्पेयं नैतदभावे मुख्यं कुयोगित्वम् । अत एवाह " अनुबन्धफलत्वतः " मुत्तयङ्गसिद्धे ताविकानुबन्धस्यैवं भूतत्वादिति ।। ? D cmits २ A शास्त्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy