________________
( ५४ )
रागादिभिर्दोषैरेयं चाभिसंधिरिह लोके भिद्यते ऽनेकधा नृणां तन्मृदुमध्याधिमात्रभेदेन । किंविशिष्टानामित्याह “नानाफलोपभोक्तृणां तथा बुद्धयादिभेदतः " वक्ष्यमाणाद्भिद्यते ऽभिसंधिरिति ॥ एतमेवाह । बुद्धिमसंमोहस्त्रिविधोध इष्यते । तदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम् ॥ ११८ ॥
बुद्धिर्वक्ष्यमाणलक्षणा ज्ञानमप्येवमेवासंमोहश्चैवं त्रिविधो बोध इष्यते शास्त्रेषु । तद्भेदाहुद्ध्यादिभेदात्सर्वकर्माणी ष्टादीनि भिद्यन्ते सर्वदेहिनां तद्धेतुभेदात्फलभेद इति कृत्वा ॥
तत्र
इन्द्रियार्थाश्रया बुद्धिर्ज्ञानं त्वागमपूर्वकम् । सदनुष्ठान व चैतदसंमोहोऽभिधीयते ॥ ११९ ॥
इन्द्रियार्थाश्रया बुद्धिस्तीर्थयात्कदर्शनेहमनबुद्धिवत् । ज्ञानं स्वागमपूर्वकं तीर्थयात्र विधिविज्ञानयत् सनुष्ठान व चैतज्ज्ञानम् । किमित्याह " असंमोहो ऽभिधीयते " बोधराज इति ।
एवमेतेषां लक्षणे व्यवस्थिते सति लोकसिद्धमुदाहरणमाह । रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्ध्यादिसिद्धये ॥ १२० ॥
रत्नोपलम्भः सामान्येनेन्द्रियार्थाश्रया बुद्धि:, तज्ज्ञानं त्वागमपूर्वकं रत्नज्ञानं तत्प्रात्यादि त्वसंमोहः, बोधगर्भत्वादस्य यथाक्रमम् । इह बुद्धयादौ । उदाहरणं साधु, अभिप्रेतार्थसाधकत्वात् । अत एवाह " ज्ञेयं बुद्धगादिसिद्धये " बुद्धिज्ञानासंमोहसिद्धयर्थमितिर ।।
१ Bpra.mit सदनुष्ठानवत् २ बद्धयादिशाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org