________________
योगदृष्टिसमुच्चयः ।
॥ नमो जिनाय ॥
२
योगतन्त्रप्रत्यासन्नभूतस्य योगदृष्टिसमुच्चयस्य व्याख्या मारभ्यते । इह चादावेवाचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थं श्लोकसूत्रमुपन्यस्तवान्नवेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन योगं तद्दष्टिभेदतः ॥ १ ॥
इति । तत्र शिष्टानामयं समयो यदुत "शिष्टाः कचिदिष्ट वस्तुनि प्रवर्तमानाः सन्त इदेवतानमस्कारपूर्वकं प्रवर्तन्ते " । अयमप्याचार्यो न हि न शिष्ट इति, अतस्तत्समयप्रतिपालनाय । तथा चोक्तम्शिष्टानामेष समयस्ते सर्वत्र शुभे किल । प्रवर्तन्ते सदैवेष्टदेवतास्तवपूर्वकम् ॥ इत्यादि ॥ तथा " श्रेयांस बहुविघ्नानि भवन्ति । इत्युक्तं चश्रेयांस बहुविघ्नानि भवन्ति महतामपि ।
abc
१ C adds नमः
२ c इहैवादावेवाचार्यः ३ क्षे
४ AD कर्मणि
५ A D premit किल
६ Comits from श्रेयांसि down to च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org