________________
अश्रेयसि प्रवृत्तानां कापि यान्ति विनायकाः ॥ इति । इदं प्रकरणं तु सम्यग्ज्ञानहेतुत्वाच्छ्योभूतम् । अतो मा भूद्विघ्न इति विघ्नविनायकोपशान्तये । तथा प्रेक्षावतां प्रवृत्यर्थ प्रयोजनादिप्रतिपादनार्थं च । तथा चोक्तम्
सर्वस्यैव शास्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तकेन गृह्यते ॥ न चाप्यविषयस्यह? शक्यं वक्तुं प्रयोजनम् । काकदन्तपरीक्षादेस्तत्प्रयोगाप्रसिद्धितः२॥ अस्येदं फलमित्येवं योगः संबन्ध उच्यते । तदुक्त्यन्तर्गतत्वेन न पृथकैश्चिदिष्यते ॥ इत्यादि । तत्र " नत्वेच्छायोगतोऽयोग योगिगम्यं जिनोत्तमम् ।
वीरं " इत्यनेनेष्टदेवतास्तवमाह;
" वक्ष्ये समासेन योगं तदृष्टिभेदतः" इत्यनेन तु प्रयोजनादित्रयमिति श्लोकसूत्रसमुदायार्थः ॥ अवयवार्थस्तु " नत्वा" प्रणम्य "वीरं" इति योगः । कथमित्याह " इच्छायोगतः" इति । क्रियाविशेषणमाह । इच्छायोगेन । शास्त्रयोगसामर्थ्ययोगव्यवच्छेदार्थमेतत् । इष्टव्यवच्छेदश्वायं तदनधिकारित्वेन प्रकरणारम्भेष मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रवृत्तिप्रदर्शनार्थः । एतेषां च त्रयाणामपि योगानां स्वरूपमनन्तरमेव वक्ष्यति । किंवि•
१D चाप्यथेविषयस्येह २ A प्रसिद्धतः ३ ) ०त्येव ४ A D श्रीवीरं ५A प्रकरणकारस्येष्ट ६A एषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org