________________
(५८) "निराबा" निर्गतमाबाधाभ्यः "अनामयं " अविद्यमानद्रव्यभावरोगम् । निष्क्रियं च कर्तव्याभावानिबन्धनाभावेन । परं तत्त्वमेवंभूतम् । यतो यस्मात् । जन्माययोगतो जन्मजरामरणायोगेन ॥
ऐदम्पर्यमाह । ज्ञाते निर्वाणतत्त्वे ऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ॥ १३० ॥
ज्ञातेर परिच्छिन्ने निर्वाणतत्त्वे ऽस्मिन्नेवंभूते ऽसंमोहेन बोधेन तत्त्वतः परमार्थतः । किमित्याह " प्रेक्षावतां" बुद्धिमतां " न तद्भतौ" न निर्वाणतत्त्वसेवायाम् । किमित्याह " विवाद उपपद्यते" तत्त्वज्ञानभेदाभावात् , अन्यथा प्रेक्षावत्त्वविरोधादिति ॥ सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितम् ।। आसन्नो ऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ॥१३१॥
सर्वज्ञपूर्वकं चैतदधिकृततत्त्वं निर्वाणाख्यम् । नियमादेव यत्स्थितमसर्वज्ञस्य निर्वाणानुपपत्तेः । आसन्नोऽयं निर्वाणस्य सर्वज्ञलक्षण ऋजुरवक्रो मार्गः पन्थाः । तद्भेदः सर्वज्ञभेदो मतभेदलक्षणः । तत्तस्मात् । कथं भवेन्नैव भवतीति ॥
देशनाभेदः कथमित्याशंक्याह । चित्रा तु देशनैतेषा स्यादिनेयानुगुण्यतः। यस्मादेते महात्मानो भवव्याधिभिषग्वराः॥१३२॥ चित्रा तु नानाप्रकारा पुनर्देशना “नित्य आत्मा अनित्य इति १ A बन्धनभावेन २ C omits
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org