________________
( ८६) तथेच्छादिचतुर्विधाः प्रत्येकमिच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति ॥
एतेषां विशेषलक्षणमाह । तत्कथाप्रीतियुता तथाविपरिणामिनी। यमेष्विच्छावसेयेह प्रथमो यम एव तु ॥ २१३ ।। ___ तद्वत्कथामीतियुता यमवत्कथाप्रीतियुता । तथाविपरिणामिनी तद्भावस्थिरत्वेन । यमेतलक्षणेषु । इच्छा अवसेयेह यमचक्र । इयं च प्रथमो यम एव तु, अनन्तरोदितलक्षणेच्छैवेच्छायम इति कृत्वा ॥
तथा । सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् ॥ २१४ ॥
सर्वत्र सामान्येन शमसारं तूपशमसारमेव यत्क्रियाविशिष्टं यमपालनं प्रत्तिरिह विज्ञेया यमेषु द्वितीयो यम एव तत्पत्तियम
इत्यर्थः॥
विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि ॥ २१५ ॥
१ A omits from किंपयन्ता, D omits इच्छायमाः इति ॥ २८ यत ३ D तु ४BC omit
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org