________________
विपक्षचिन्तारहितमतिचारादिचिन्तारहितमित्यर्थः । यमपालनमेव यद्विशिष्टक्षयोपशमवृत्त्या । तत्स्थैर्यमिह विज्ञेयं यमेषु । एतच्च तूतोयो यम एव हि स्थिरयम इति योऽर्थः ॥ परार्थसाधकं खेतत्सिद्धिः शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ॥२१६॥
परार्थसाधकं त्वेतद्यमपालनं सिद्धिरभिधीयते । एतच शुद्धान्तरात्मनो नान्यस्य । अचिन्त्यशक्तियोगेन तत्संनिधौ वैरत्यागात् । इत एतच्चतुर्थो यम एव तु सिद्धियम इति भावः ॥
अवश्चकस्वरूपमाह। मद्भिः कल्याणसंपन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते ॥ २१७ ॥
सद्भिः कल्याणसंपन्नविशिष्टपुण्यवद्भिः । दर्शनादपि पावनैरवलोकनेनापि पवित्रैः । तथा तेन प्रकारेण गुणवत्तया विपर्ययाभावेन दर्शनं तथादर्शनम् । ततस्तेन यो योगः संबन्धस्तैः सह स आद्यावश्वक इष्यते सद्योऽवश्चक इत्यर्थः ॥ तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः॥ २१८ ॥
तेषामेव सतां प्रणामादिक्रियानियम इत्यलम् । क्रियावश्चकयोगः स्याद्भवेदिति । अयं च महापापक्षयोदयो नीचैर्गोत्रकर्मक्षयकृदिति भावः ॥
१ । अचित्तसिद्धियोगेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org