________________
यतः कुतश्चित्तदर्थक्रियाभावप्रसङ्गात्तनिवन्धनाविशेषादिति । एवमग्निः लेदयत्यासंनिधौ तथास्वभावत्वात् । तथापो दहन्त्यग्निसंनिधौ तथास्वभावत्वादेव । स्वभाववैचित्र्यात्तत्रापि लोकवाधामन्तरेणापरो वा स्वभावो दृष्टान्तमात्रस्य सर्वत्र सुलभत्वात् । तदेवमसमञ्जसकारी कुतर्क इत्यैदम्पर्यम् ॥
अमुमेवार्थ विशेषेणाभिधातुमाहअतोऽग्निः क्लेदयत्यम्बुसंनिधौ दहतीति च । अम्बग्निसंनिधौ तत्स्वाभाव्यादित्युदिते तयोः।।९।। ___ यतो नार्वाग्दृग्गोचरो अधिकृतस्वभावः, अतो ऽस्मात्कारणात् । अग्निः क्लेदयति । अध्यक्षविरोधपरिहारायाह "अम्बुसंनिधौ" इति । दहति वाम्बु न प्रतीतिबाधेत्याह "अग्निसंनिधौ” इति । किमित्येतदेवमित्याह " तत्स्वाभाव्यात्तयोः " अग्न्यम्बुनोरिति । उदिते सत्यपि परवादिना ॥
किमित्याहकोशपानाहते ज्ञानोपायो नास्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद्दश्यते यतः॥९४॥ ... कोशपानाहते कोशपानं विना ज्ञानोपायो नास्त्यत्र स्वभावव्यतिकरे युक्तितः शुष्कतर्कयुक्त्या कश्चिदपरो दृष्टान्तो ऽप्यस्यार्थस्योपोइलको विद्यते एवेत्याह " विनकृष्टोऽप्ययस्कान्तः " लोहाकर्ष उपलविशेषः “ स्वार्थकृत् " लोहाकर्षादिस्वकार्यकरणे शील: " दृश्यते यतः" लोहे स हि विप्रकृष्ट एव संनिकृष्टलोहमेव न ताम्रादि आकर्षयत्येव न कर्तयति तदित्थमस्येवाग्न्यादीनां तथास्वभावकल्पनं केन बाध्यते । न केनचिदिति भावनीयम् ।।
उपसंहरबाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org