________________
( ४५ )
जातिप्रायश्व सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताप्राप्तविकल्पवत् ॥ ९१ ॥ जातिप्रायश्च दूपणाभासप्रायश्च सर्वोऽयं कुतर्कः । प्रतीतिफल - बाधित इति कृत्वा । एतदेवाह " हस्ती व्यापादयत्युक्तौ " मेण्टेन । किमिवेत्याह " प्राप्ताप्राप्तविकल्पवत् " इति । कश्चिन्नैयायिक छात्रः कुतश्चिदागच्छत् । अवशीभूतमत्तहस्त्यारूढेन केनचिदुक्तं; “भोः भोः, त्वरितमपसर; हस्ती व्यापादयति " इति च । तथा परिणतन्यायशास्त्र आह " रे रे बटर किमेवं युक्तिवाह्यं प्रलपसि । तथाहि । किमयं प्राप्तं व्यापादयति किं वाप्राप्तमिति । आद्यपक्षे भवत एव व्यापत्तिप्रसङ्गः, प्राप्तिभावात् " । एवं यावदाह तावद्धस्तिना गृहीतः स कथमपि मेण्टेन मोचित इति । जातिमायता सर्वत्र भिन्नार्थग्रहणस्वभावसंवेदनवेदने तद्गताकार विकल्पनस्यैवं प्रायत्वादिति चर्चित
मन्यत्र ॥
किं च
1
स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नावग्दृग्गोचरो न्यायादन्यथान्येन कल्पितः ॥९२॥ स्वभावोत्तरपर्यन्त एष कुतर्कः । अत्र च वस्तुस्वभावैरुत्तरं वाच्यमिति वचनात् । एवमग्निर्दहत्यापः क्लेदयन्तीति स्वभाव एषामिति | असावपि स्वभावः । तत्त्वतः परमार्थेन । नार्वाग्गोचरो न च्छद्मस्थविषयः । न्यायाध्यायेन परप्रसिद्धेन । किंभूतः सन्नित्याह " अन्यथा " प्रकारान्तरेण " अन्येन " वादिना " कल्पितः " सन्निति । तथाहि । अथ वस्तुभावैरुत्तरं वाच्यमिति सर्वत्रैव तथा तत्सिद्ध वक्तुं पार्यते । कथम् । येन तदर्थक्रियाकरणस्वभावस्तेन तां करोति न पुनः क्षणिकतया, तस्याः सर्वभावेष्वेवाभ्युपगमात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org