SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ( ४४ ) कथा " आर्यापवादादिकारणेन ॥ यतश्चैवमतः किमित्याह gasभनिवेशयुक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् ॥ ८८ ॥ कुतर्क उक्त लक्षणे ऽभिनिवेशस्तथा तद्रहरूपः । किमित्याह " न युक्तः " केषामित्याह "मुक्तिवादिनां" संन्यासिनामित्यर्थः । युक्तः पुनः श्रुत आगमे शीले परद्रोहविरतिलक्षणे समाधौ च ध्यानफलभूते महात्मनां मुक्तिवादिनामभिनिवेश युक्त इति ॥ बीजं चास्य परं सिद्धमवन्ध्यं सर्वयोगिनाम् । परार्थ करणं येन परिशुद्धमतोऽत्र च ॥ ९५ ॥ वीजं चास्य श्रुतादेः परं सिद्धं प्रधानं प्रतिष्ठितम् । अवन्ध्यं नियत फलदायि सर्वयोगिनां कुलयोगिप्रभृतीनाम् । किं तदित्याह " परार्थकरणं " परप्रयोजननिष्पादनं “ येन " कारणेन "परिशुद्ध" अन्यानुपघातेन । अतः कारणात् । अत्र च परार्थकरणे युक्तोऽभिनिवेश इति ।। " कुतर्कासारतामेवाभिधातुमाद अविद्यासंगताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ॥९०॥ अविद्यासंगता ज्ञानावरणीयादिसंपृक्ताः । प्रायो बाहुल्येन । विकल्पाः सर्व एव शब्दविकल्पा अर्थविकल्पाश्च यत्तद्योजनात्मको विकपयोजनात्मक गोमयपायसादिविकल्पनेन कुतर्क उक्तलक्षणः । किमनेन तत् । न किंचिदित्यर्थः ॥ किं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy