________________
अवेद्यसंवेद्यपदमुक्तलक्षणमान्ध्यभावरूपम् । अत एवाह “दुगतिपातकृत् " दुर्गतिपातकरणशीलम् । सत्संगागमयोगेन विशिष्टसंगागमसंबन्धेनेत्यर्थः । एकवद्भावः पुरुषप्राधान्यख्यापनपरः । जेयमेतदवेद्यसंवेद्यपदं महात्मभिः पुंभिः,१ अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरो ऽप्यागम इति योगाचार्याः, अयोग्यनियोगासिद्धोरिति ॥ । अत एव जयलिङ्गान्याह ।
जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतो ऽत्यन्तं कुतर्कविषमग्रहः ॥ ८६ ॥
जीयमाने च नियमादेतस्मिन्नवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । तत्त्वतः परमार्थेन नृणां पुंसां निवर्तते स्वत आत्मनैवापरोपदेशेन, निमित्ताभावे नैमित्तिकाभावात् । अत्यन्तं नितरां सम्यग्ज्ञानयोगात्, आगमत्रामाण्यावगमात् । कुतर्कविषमग्रहो दृष्टापायहेतुत्वेन ग्रह इव ग्रहः॥
किंविशिष्टो ऽयमित्याहबोधरोगः शमापायः श्रद्धाभङ्गो ऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा ।। ८७ ॥
बोधरोगस्तद्यथावस्थितोपघातभावात् । शमापायो ऽसदभिनिवेशजनकत्वात् । श्रद्धाभङ्ग आगमार्थाप्रतिपत्तेः । अभिमानकन्मिथ्याभिमानजनकत्वात् । एवंर कुतर्क आगमनिरपेक्ष इत्यर्थः । किमित्याह "चेतसः" अन्तःकरणस्य "भावशत्रुः " परमार्थरिपुः “अने
? B omits २।। पत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org