________________
( ४२ ) पाशयन्तीत्याह “ पापल्या " ज्ञानावरणीयादिलक्षणया । जडा मन्दाः | कार्यमविचायैव तत्त्वतः परमार्थेन क्षणिककुसुखसक्ततयात्मानं पाशयन्तीति ॥
तथाहि
धर्मवीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मषावस्य प्रयतन्तेऽल्पमेधसः ॥ ८३ ॥
धर्मबीजं धर्मकारणं परं प्रधानं प्राप्यासाद्य । किं तदित्याह "मानुष्यं " मानुपत्वं । केत्याह " कर्मभूमिषु " भरताद्यासु । किमित्याह न सत्कर्म " धर्माधानादिरूपायां " अस्य " धर्मबीजस्य " प्रयतन्तेऽल्पमेधसः " अल्पमतय इत्यर्थः ॥
66
किं तर्हि -
बडिशा मिपवत्तुच्छे कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टयं धिगहो दारुणं तमः ॥ ९४ ॥
बडिशामिषवदिति निदर्शनं मत्स्यगलमांसवत् । तुच्छे ऽल्पे । कुसुखे दुष्टभोगजे दारुणोदये रौद्रविपाके समयपरिभाषेयम् । सक्ता गृध्राः । किमित्याह “ त्यजन्ति सच्चेष्टां " धर्मसाधनम् । कर्मदोषो ऽयमित्याह " धिगहो दारुणं तमः " कष्टमज्ञानमिति योऽर्थः ॥
उपसंहरन्नाह -
अवेद्यसंवेद्यपदमान्भ्यं दुर्गतिपातकृत् । सत्संगागमयोगेन जेयमेतन्महात्मभिः ||८५||
? AC D विडिंο
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org