________________
अमुमेवार्थ स्पष्टयन्नाह -
यथा कण्डूयनेष्वेषां धीर्न कच्छू निवर्तते । भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये ॥ ८१ ॥
कस्यचित्कण्डूयकस्य कण्डूयनातिरेकात्परिक्षणनखस्य सिकताक्षितिनिवासात्कथंचिदनुवाप्ततृणकण्डूविनोदकस्य भिक्षापुटिकाद्यैर्गृहीततृणपूलकन वैद्यपथिकेन दर्शनं बभूव । स तेन तृणमेकं याचितो दत्तं चानेन तत्तस्मै । परितुष्टोऽसौ हृदयेन चिन्तितं च संतोष " अहो धन्यः खल्वयं यस्यैतावन्ति कण्ड्यनानि" । पृष्टश्च स "क्व खल्वेतान्येवमतिप्रभूतान्यवाप्यन्ते "। तेनोक्तम् । “लाटदेशादौ । किं च तवैभिः प्रयोजनम् " । तेनोक्तम् | "कच्छुकण्डूविनोदम् " । पथिक आह । " यद्येवं ततः किमेभिः । कच्छूमेत्र ते सप्तरात्रेणापयनयामि कुरुष्व योगं त्रिफलायाः " । स पुनराह । “कच्छूपगमे कण्डूविनोदाभावे किं फलं जीवितस्य' । तदलं त्रिफलाया | कैतान्यवाप्यन्त इत्येतदेव कथय " इति श्लोकगर्भार्थ ः || अक्षरगमनिका तु । यथा कण्डूयने तथा भवाभिनन्दिनां धीर्न तदिच्छापरिक्षये न भोगेच्छानिवत्तौ तत्त्वानभिज्ञतयैव वयःपरिपाकेऽपि वाजीकरणादरात् । इच्छाग्रहणमिह भोगक्रियोपलक्षणम् ॥
"
( ४१ )
यतश्चैवमतः
आत्मानं पाशयत्येते सदासचेष्टया भृशम् । पापल्या जडाः कार्यमविचार्यैव तत्त्वतः ॥८३॥
www
आत्मानं जीवं पाशयन्ति गण्डयन्त्येते ऽधिकृतसत्त्वाः सर्वकालमसच्चेष्टया प्राणातिपातारम्भरूपया हेतुभृतया भृशमत्यर्थम् । कया
१ A omits
६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org