________________
( ४० )
Parisa एवेह विपर्यासपरा नराः । हिताहितविवेकान्धा खिद्यन्ते सांप्रक्षिणः ॥७८॥
एतद्वन्तोऽवेद्यपदवन्तः । अत एव कारणात् । इह लोके विपर्यासपरा विपर्यासप्रधाना नराः । किमित्याह " हिताहित विवेकान्धाः " एतद्रहिता इत्यर्थः । अत एवाह “ विद्यन्ते सांप्रतेक्षिणः " वर्तमानदर्शिनः सन्त इति ।।
तथा च ।
जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् ।
वीक्षमाणा अपि भवं नोद्दिजन्ते ऽतिमोहतः ॥ ७९ ॥
जन्म प्रादुर्भावलक्षणं, मृत्युः प्राणत्यागरूपः, जरा वयोहान्यात्मिका, व्याधिः कुष्ठादिलक्षणा, रोगो विशुचिकायातङ्कः, शोक इष्टवियोगादिजो मनोविकारः, आदिशब्दाद्धहादिपरिग्रहः, एभिरुपद्रुतं कदर्थितम् । वीक्षमाणा अपि पश्यन्तोऽपि सन्तः । भवं संसारं नोद्विजन्तेऽस्मादिति प्रक्रमः । अतिमहतो हेतोरिति ॥ तथाह्यमीषां किमित्याह
कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत् सदा । दुःखे सुखधियाकृष्टा कच्छुकण्डूयकादिवत् ॥८०॥
कुकृत्यं प्राणातिपातारम्भादि कृत्यमाभाति मोहात्, कृत्यं चाहिंसामारम्भादि चाकृत्यवत्सदाभाति मोहादेव । दुःखसमारम्भादौ सुखधिया सुखबुद्धया | आकृष्टा आकर्षिता । किंवदित्याह "कच्छकण्ड्यकादिवत् " कच्छ पामा तस्याः कण्डूयकाः कण्डूयन्त इति कण्डकाः; आदिशब्दात्कुमिप्रतुद्यमानाग्निसेवक कुष्ठिपरिग्रहः ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org