________________
( ३९ )
अवेद्यसंवेद्यपदं विपरीतमतो वेद्यसंवेद्यपदान्मतमिष्टम् । तथाहि । अवेद्यमवेदनीयं वस्तु स्थित्या न तथाभावयोगिसामान्येनाप्यविकल्पकज्ञानग्राह्यं, तथाविधसमानपरिणामानुपपत्तेः । तत्संवेधते । अज्ञानावरणक्षयोपशमानुरूपं निश्चयबुद्धयोपप्लवसारया मृगतृष्णोदकवज्झायते यस्मिन्पदे तत्तथाविधम् । अत एवाह " भवाभिनन्दिविषयं " एतद्भवाभिनन्दी वक्ष्यमाणलक्षणः । समारोपसमाकुलमिति मिथ्यात्वदोपतो ऽपायगमनाभिमुखेन तथापि गलितमित्यर्थः ॥
भवाभिनन्दिलक्षणमाह ।
क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसंगतः || ७६|| क्षुद्रः कृपणः । लाभरतिर्याञ्चाशीलः । दीनः सदैवाकल्याणदर्शी । मत्सरी परकल्याणदुः स्थितः । भयवान्नित्यभीतः । शठो मायावी | अज्ञो मूर्खः । भवाभिनन्दी संसारबहुमानी । स्यादेवंभूतो निष्फलारम्भसंगतः सर्वत्रातत्त्वाभिनिवेशादिति ॥
यदि नामैवं ततः किमित्याह
इत्यसत्परिणामानुविद्धो बोधो न सुन्दरः । तत्संगादेव नियमाद्विषसंपृक्तकान्नवत् ॥ ७७ ॥
इत्येवं भवाभिनन्दिपरिणामे सति अस्यासत्परिणामत्वात् । असत्परिणामानुविद्धो बोधः सामान्येन न सुन्दरः । कुत इत्याह " तरसंगादेव " विवक्षितासत्परिणाम संबन्धादेव " नियमात् " निय मेन । किमिवेत्याह “ विषसंपृक्तकान्नवत् " इति निदर्शनमात्रम् ।।
फलत एतदेवाह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org